हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
मातङ्गी कवचम्
श्रीपार्वत्युवाच
।
देवदेव
महादेव
सृष्टिसंहारकारक
।
मातङ्ग्याः
कवचं
ब्रूहि
यदि
स्नेहोऽस्ति
ते
मयि
॥
1
॥
शिव
उवाच
।
अत्यन्तगोपनं
गुह्यं
कवचं
सर्वकामदम्
।
तव
प्रीत्या
मयाऽऽख्यातं
नान्येषु
कथ्यते
शुभे
॥
2
॥
शपथं
कुरु
मे
देवि
यदि
किञ्चित्प्रकाशसे
।
अनया
सदृशी
विद्या
न
भूता
न
भविष्यति
॥
3
॥
ध्यानम्
।
शवासनां
रक्तवस्त्रां
युवतीं
सर्वसिद्धिदाम्
।
एवं
ध्यात्वा
महादेवीं
पठेत्कवचमुत्तमम्
॥
4
॥
कवचम्
।
उच्छिष्टं
रक्षतु
शिरः
शिखां
चण्डालिनी
ततः
।
सुमुखी
कवचं
रक्षेद्देवी
रक्षतु
चक्षुषी
॥
5
॥
महापिशाचिनी
पायान्नासिकां
ह्रीं
सदाऽवतु
।
ठः
पातु
कण्ठदेशं
मे
ठः
पातु
हृदयं
तथा
॥
6
॥
ठो
भुजौ
बाहुमूले
च
सदा
रक्षतु
चण्डिका
।
ऐं
च
रक्षतु
पादौ
मे
सौः
कुक्षिं
सर्वतः
शिवा
॥
7
॥
ऐं
ह्रीं
कटिदेशं
च
आं
ह्रीं
सन्धिषु
सर्वदा
।
ज्येष्ठमातङ्ग्यङ्गुलीर्मे
अङ्गुल्यग्रे
नमामि
च
॥
8
॥
उच्छिष्टचाण्डालि
मां
पातु
त्रैलोक्यस्य
वशङ्करी
।
शिवे
स्वाहा
शरीरं
मे
सर्वसौभाग्यदायिनी
॥
9
॥
उच्छिष्टचाण्डालि
मातङ्गि
सर्ववशङ्करि
नमः
।
स्वाहा
स्तनद्वयं
पातु
सर्वशत्रुविनाशिनी
॥
10
॥
अत्यन्तगोपनं
देवि
देवैरपि
सुदुर्लभम्
।
भ्रष्टेभ्यः
साधकेभ्योऽपि
द्रष्टव्यं
न
कदाचन
॥
11
॥
दत्तेन
सिद्धिहानिः
स्यात्सर्वथा
न
प्रकाश्यताम्
।
उच्छिष्टेन
बलिं
दत्वा
शनौ
वा
मङ्गले
निशि
॥
12
॥
रजस्वलाभगं
स्पृष्ट्वा
जपेन्मन्त्रं
च
साधकः
।
रजस्वलाया
वस्त्रेण
होमं
कुर्यात्सदा
सुधीः
॥
13
॥
सिद्धविद्या
इतो
नास्ति
नियमो
नास्ति
कश्चन
।
अष्टसहस्रं
जपेन्मन्त्रं
दशांशं
हवनादिकम्
॥
14
॥
भूर्जपत्रे
लिखित्वा
च
रक्तसूत्रेण
वेष्टयेत्
।
प्राणप्रतिष्ठामन्त्रेण
जीवन्यासं
समाचरेत्
॥
15
॥
स्वर्णमध्ये
तु
संस्थाप्य
धारयेद्दक्षिणे
करे
।
सर्वसिद्धिर्भवेत्तस्य
अचिरात्पुत्रवान्भवेत्
॥
16
॥
स्त्रीभिर्वामकरे
धार्यं
बहुपुत्रा
भवेत्तदा
।
वन्ध्या
वा
काकवन्ध्या
वा
मृतवत्सा
च
साङ्गना
॥
17
॥
जीवद्वत्सा
भवेत्सापि
समृद्धिर्भवति
ध्रुवम्
।
शक्तिपूजां
सदा
कुर्याच्छिवाबलिं
प्रदापयेत्
॥
18
॥
इदं
कवचमज्ञात्वा
मातङ्गी
यो
जपेत्सदा
।
तस्य
सिद्धिर्न
भवति
पुरश्चरणलक्षतः
॥
19
॥
इति
श्री
रुद्रयामलतन्त्रे
मातङ्गी
सुमुखी
कवचम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits