हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
कामाक्षी स्तोत्रम्
कल्पानोकहपुष्पजालविलसन्नीलालकां
मातृकां
कान्तां
कञ्जदलेक्षणां
कलिमलप्रध्वंसिनीं
कालिकाम्
।
काञ्चीनूपुरहारदामसुभगां
काञ्चीपुरीनायिकां
कामाक्षीं
करिकुम्भसन्निभकुचां
वन्दे
महेशप्रियाम्
॥
1
॥
काशाभां
शुकभासुरां
प्रविलसत्कोशातकी
सन्निभां
चन्द्रार्कानललोचनां
सुरुचिरालङ्कारभूषोज्ज्वलाम्
।
ब्रह्मश्रीपतिवासवादिमुनिभिः
संसेविताङ्घ्रिद्वयां
कामाक्षीं
गजराजमन्दगमनां
वन्दे
महेशप्रियाम्
॥
2
॥
ऐं
क्लीं
सौरिति
यां
वदन्ति
मुनयस्तत्त्वार्थरूपां
परां
वाचामादिमकारणं
हृदि
सदा
ध्यायन्ति
यां
योगिनः
।
बालां
फालविलोचनां
नवजपावर्णां
सुषुम्नाश्रितां
कामाक्षीं
कलितावतंससुभगां
वन्दे
महेशप्रियाम्
॥
3
॥
यत्पादाम्बुजरेणुलेशमनिशं
लब्ध्वा
विधत्ते
विधि-
-र्विश्वं
तत्परिपाति
विष्णुरखिलं
यस्याः
प्रसादाच्चिरम्
।
रुद्रः
संहरति
क्षणात्तदखिलं
यन्मायया
मोहितः
कामाक्षीमतिचित्रचारुचरितां
वन्दे
महेशप्रियाम्
॥
4
॥
सूक्ष्मात्सूक्ष्मतरां
सुलक्षिततनुं
क्षान्ताक्षरैर्लक्षितां
वीक्षाशिक्षितराक्षसां
त्रिभुवनक्षेमङ्करीमक्षयाम्
।
साक्षाल्लक्षणलक्षिताक्षरमयीं
दाक्षायणीं
साक्षिणीं
कामाक्षीं
शुभलक्षणैः
सुललितां
वन्दे
महेशप्रियाम्
॥
5
॥
ओङ्काराङ्गणदीपिकामुपनिषत्प्रासादपारावतीं
आम्नायाम्बुधिचन्द्रिकामघतमःप्रध्वंसहंसप्रभाम्
।
काञ्चीपट्टणपञ्जरान्तरशुकीं
कारुण्यकल्लोलिनीं
कामाक्षीं
शिवकामराजमहिषीं
वन्दे
महेशप्रियाम्
॥
6
॥
ह्रीङ्कारात्मकवर्णमात्रपठनादैन्द्रीं
श्रियं
तन्वतीं
चिन्मात्रां
भुवनेश्वरीमनुदिनं
भिक्षाप्रदानक्षमाम्
।
विश्वाघौघनिवारिणीं
विमलिनीं
विश्वम्भरां
मातृकां
कामाक्षीं
परिपूर्णचन्द्रवदनां
वन्दे
महेशप्रियाम्
॥
7
॥
वाग्देवीति
च
यां
वदन्ति
मुनयः
क्षीराब्धिकन्येति
च
क्षोणीभृत्तनयेति
च
श्रुतिगिरो
यां
आमनन्ति
स्फुटम्
।
एकानेकफलप्रदां
बहुविधाऽऽकारास्तनूस्तन्वतीं
कामाक्षीं
सकलार्तिभञ्जनपरां
वन्दे
महेशप्रियाम्
॥
8
॥
मायामादिमकारणं
त्रिजगतामाराधिताङ्घ्रिद्वयां
आनन्दामृतवारिराशिनिलयां
विद्यां
विपश्चिद्धियाम्
।
मायामानुषरूपिणीं
मणिलसन्मध्यां
महामातृकां
कामाक्षीं
करिराजमन्दगमनां
वन्दे
महेशप्रियाम्
॥
9
॥
कान्ता
कामदुघा
करीन्द्रगमना
कामारिवामाङ्कगा
कल्याणी
कलितावतारसुभगा
कस्तूरिकाचर्चिता
कम्पातीररसालमूलनिलया
कारुण्यकल्लोलिनी
कल्याणानि
करोतु
मे
भगवती
काञ्चीपुरीदेवता
॥
10
॥
इति
श्री
कामाक्षी
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits