ओं अस्य श्रीबगलामुखीहृदयमालामन्त्रस्य नारदऋषिः ।
अनुष्टुप्छन्दः ।
श्रीबगलामुखी देवता ।
ह्लीं बीजम् ।
क्लीं शक्तिः ।
ऐं कीलकम् ।
श्रीबगलामुखीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
अथ न्यासः –
ओं नारदऋषये नमः शिरसि ।
ओं अनुष्टुप् छन्दसे नमः मुखे ।
ओं श्रीबगलामुखी देवतायै नमः हृदये ।
ओं ह्लीं बीजाय नमः गुह्ये ।
ओं क्लीं शक्तये नमः पादयोः ।
ओं ऐं कीलकाय नमः सर्वाङ्गे ।
करन्यासः –
ओं ह्लीं अङ्गुष्ठाभ्यां नमः ।
ओं क्लीं तर्जनीभ्यां नमः ।
ओं ऐं मध्यमाभ्यां नमः ।
ओं ह्लीं अनामिकाभ्यां नमः ।
ओं क्लीं कनिष्ठिकाभ्यां नमः ।
ओं ऐं करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ओं ह्लीं हृदयाय नमः ।
ओं क्लीं शिरसे स्वाहा ।
ओं ऐं शिखायै वषट् ।
ओं ह्लीं कवचाय हुम् ।
ओं क्लीं नेत्रत्रयाय वौषट् ।
ओं ऐं अस्त्राय फट् ।
ओं ह्लीं क्लीं ऐं भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानम् –
पीताम्बरां पीतमाल्यां पीताभरणभूषिताम् ।
पीतकञ्जपदद्वन्द्वां बगलां चिन्तयेऽनिशम् ॥
इति ध्यात्वा पञ्चमुद्रया सम्पूज्य ॥
पीतशङ्खगदाहस्ते पीतचन्दनचर्चिते ।
बगले मे वरं देहि शत्रुसङ्घविदारिणी ॥
सम्प्रार्थ्य –
ओं ह्लीं क्लीं ऐं बगलामुख्यै गदाधारिण्यै प्रेतासनाध्यासिन्यै स्वाहा ॥
इति मन्त्रं जपित्वा पुनः पूर्ववद्धृदयादि षडङ्गन्यासं कृत्वा
स्तोत्रं पठेत् ॥
करन्यासः –
ओं ह्लीं अङ्गुष्ठाभ्यां नमः ।
ओं क्लीं तर्जनीभ्यां नमः ।
ओं ऐं मध्यमाभ्यां नमः ।
ओं ह्लीं अनामिकाभ्यां नमः ।
ओं क्लीं कनिष्ठिकाभ्यां नमः ।
ओं ऐं करतल करपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ओं ह्लीं हृदयाय नमः ।
ओं क्लीं शिरसे स्वाहा ।
ओं ऐं शिखायै वषट् ।
ओं ह्लीं कवचाय हुम् ।
ओं क्लीं नेत्रत्रयाय वौषट् ।
ओं ऐं अस्त्रायफट् ।
ओं ह्लीं क्लीं ऐं भूर्भुवस्सुवरोमिति दिग्विमोकः ॥
वन्देऽहं बगलां देवीं पीतभूषणभूषिताम् ।
तेजोरूपमयीं देवीं पीततेजस्स्वरूपिणीम् ॥ 1 ॥
गदाभ्रमणाभिन्नाभ्रां भ्रुकुटीभीषणाननां ।
भीषयन्तीं भीमशत्रून् भजे भक्तस्य भव्यदाम् ॥ 2 ॥
पूर्णचन्द्रसमानास्यां पीतगन्धानुलेपनां ।
पीताम्बरपरीधानां पवित्रामाश्रयाम्यहम् ॥ 3 ॥
पालयन्तीमनुपलं प्रसमीक्ष्यावनीतले ।
पीताचाररतां भक्तां तां भवानीं भजाम्यहम् ॥ 4 ॥
पीतपद्मपदद्वन्द्वां चम्पकारण्यवासिनीं ।
पीतावतंसां परमां वन्दे पद्मजवन्दिताम् ॥ 5 ॥
लसच्चारुसिञ्जत्सुमञ्जीरपादां
चलत्स्वर्णकर्णावतंसाञ्चितास्यां ।
वलत्पीतचन्द्राननां चन्द्रवन्द्यां
भजे पद्मजादीड्यसत्पादपद्माम् ॥ 6 ॥
सुपीताभयामालया पूतमन्त्रं
परं ते जपन्तो जयं सल्लभन्ते ।
रणे रागरोषाप्लुतानां रिपूणां
विवादे बलाद्वैरकृद्धातमातः ॥ 7 ॥
भरत्पीतभास्वत्प्रभाहस्कराभां
गदागञ्जितामित्रगर्वां गरिष्ठाम् ।
गरीयो गुणागार गात्रां गुणाढ्यां
गणेशादिगम्यां श्रये निर्गुणाढ्याम् ॥ 8 ॥
जना ये जपन्त्युग्रबीजं जगत्सु
परं प्रत्यहं ते स्मरन्तः स्वरूपम् ।
भवेद्वादिनां वाङ्मुखस्तम्भ आद्ये
जयो जायते जल्पतामाशु तेषाम् ॥ 9 ॥
तव ध्याननिष्ठा प्रतिष्ठात्मप्रज्ञा-
वतां पादपद्मार्चने प्रेमयुक्ताः ।
प्रसन्ना नृपाः प्राकृताः पण्डिता वा
पुराणादिगाधासुतुल्या भवन्ति ॥ 10 ॥
नमामस्ते मातः कनककमनीयाङ्घ्रि जलजं
बलद्विद्युद्वर्णां घनतिमिर विध्वंस करणम् ।
भवाब्धौ मग्नात्मोत्तरणकरणं सर्वशरणं
प्रपन्नानां मातर्जगति बगले दुःखदमनम् ॥ 11 ॥
ज्वलज्ज्योत्स्नारत्नाकरमणिविषक्ताङ्कभवनं
स्मरामस्ते धाम स्मरहरहरीन्द्रेन्दु प्रमुखैः ।
अहोरात्रं प्रातः प्रणयनवनीयं सुविशदं
परं पीताकारं परिचितमणिद्वीपवसनम् ॥ 12 ॥
वदामस्ते मातः श्रुतिसुखकरं नाम ललितं
लसन्मात्रावर्णं जगति बगलेति प्रचरितम् ।
चलन्तस्तिष्ठन्तो वयमुपविशन्तोऽपि शयने
भजामो यच्छ्रेयो दिवि दुरवलभ्यं दिविषदाम् ॥ 13 ॥
पदार्चायां प्रीतिः प्रतिदिनमपूर्वा प्रभवतु
यथा ते प्रासन्न्यं प्रतिफलमपेक्ष्यं प्रणमताम् ।
अनल्पं तन्मातर्भवति भृतभक्त्या भवतु नो
दिशातः सद्भक्तिं भुवि भगवतां भूरि भवदाम् ॥ 14 ॥
मम सकलरिपूणां वाङ्मुखे स्तम्भयाशु
भगवति रिपुजिह्वां कीलय प्रस्थतुल्याम् ।
व्यवसितखलबुद्धिं नाशयाशु प्रगल्भां
मम कुरु बहुकार्यं सत्कृपेऽम्ब प्रसीद ॥ 15 ॥
व्रजतु मम रिपूणां सद्मनि प्रेतसंस्था
करधृतगदया तान् घातयित्वाशु रोषात् ।
सधन वसन धान्यं सद्म तेषां प्रदह्य
पुनरपि बगला स्वस्थानमायातु शीघ्रम् ॥ 16 ॥
करधृतरिपु जिह्वापीडन व्यग्रहस्तां
पुनरपि गदया तांस्ताडयन्तीं सुतन्त्राम् ।
प्रणतसुरगणानां पालिकां पीतवस्त्रां
बहुबल बगलां तां पीतवस्त्रां नमामः ॥ 17 ॥
हृदयवचनकायैः कुर्वतां भक्तिपुञ्जं
प्रकटित करुणार्द्रां प्रीणतीजल्पतीति ।
धनमथ बहुधान्यं पुत्रपौत्रादिवृद्धिः
सकलमपि किमेभ्यो देयमेवं त्ववश्यम् ॥ 18 ॥
तव चरणसरोजं सर्वदा सेव्यमानं
द्रुहिणहरिहराद्यैर्देवबृन्दैः शरण्यम् ।
मृदुलमपि शरणं ते शर्मदं सूरिसेव्यं
वयमिह करवामो मातरेतद्विधेयम् ॥ 19 ॥
बगलाहृदयस्तोत्रमिदं भक्ति समन्वितः ।
पठेद्यो बगला तस्य प्रसन्ना पाठतो भवेत् ॥ 20 ॥
पीताध्यानपरो भक्तो यः शृणोत्यविकल्पतः ।
निष्कल्मषो भवेन्मर्त्यो मृतो मोक्षमवाप्नुयात् ॥ 21 ॥
आश्विनस्य सिते पक्षे महाष्टम्यां दिवानिशम् ।
यस्त्विदं पठते प्रेम्णा बगला प्रीतिमेति सः ॥ 22 ॥
देव्यालये पठन् मर्त्यो बगलां ध्यायतीश्वरीम् ।
पीतवस्त्रावृतो यस्तु तस्य नश्यन्ति शत्रवः ॥ 23 ॥
पीताचाररतो नित्यं पीतभूषां विचिन्तयन् ।
बगलायाः पठेन्नित्यं हृदयस्तोत्रमुत्तमम् ॥ 24 ॥
न किञ्चिद् दुर्लभं तस्य दृश्यते जगतीतले ।
शत्रवो ग्लानिमायान्ति तस्य दर्शनमात्रतः ॥ 25 ॥
इति सिद्धेश्वरतन्त्रे उत्तरखण्डे श्री बगलापटले श्रीबगलाहृदयस्तोत्रम् ॥