Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

वामन स्तोत्रम् – वामन पुराणे

लोमहर्षण उवाच ।
देवदेवो जगद्योनिरयोनिर्जगदादिजः ।
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥ 1 ॥
परावराणां परमः परापरसतां गतिः ।
प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः ।
स्थितिं कर्तुं जगन्नाथं सोऽचिन्त्यो गर्भतां गतः ॥ 2 ॥
प्रभुः प्रभूणां परमः पराणा-
-मनादिमध्यो भगवाननन्तः ।
त्रैलोक्यमंशेन सनाथमेकः
कर्तुं महात्माऽदितिजोऽवतीर्णः ॥ 3 ॥
न यस्य रुद्रा न च पद्मयोनि-
-र्नेन्द्रो न सूर्येन्दुमरीचिमिश्राः ।
जानन्ति दैत्याधिप यत्स्वरूपं
स वासुदेवः कलयावतीर्णः ॥ 4 ॥
यमक्षरं वेदविदो वदन्ति
विशन्ति यं ज्ञानविधूतपापाः ।
यस्मिन् प्रविष्टा न पुनर्भवन्ति
तं वासुदेवं प्रणमामि देवम् ॥ 5 ॥
भूतान्यशेषाणि यतो भवन्ति
यथोर्मयस्तोयनिधेरजस्रम् ।
लयं च यस्मिन् प्रलये प्रयान्ति
तं वासुदेवं प्रणतोऽस्म्यचिन्त्यम् ॥ 6 ॥
न यस्य रूपं न बलं प्रभावो
न च प्रतापः परमस्य पुंसः ।
विज्ञायते सर्वपितामहाद्यै-
-स्तं वासुदेवं प्रणमामि नित्यम् ॥ 7 ॥
रूपस्य चक्षुर्ग्रहणे त्वगेषा
स्पर्शग्रहित्री रसना रसस्य ।
घ्राणं च गन्धग्रहणे नियुक्तं
न घ्राणचक्षुः श्रवणादि तस्य ॥ 8 ॥
स्वयम्प्रकाशः परमार्थतो यः
सर्वेश्वरो वेदितव्यः स युक्त्या ।
शक्यं तमीड्यमनघं च देवं
ग्राह्यं नतोऽहं हरिमीशितारम् ॥ 9 ॥
येनैकदंष्ट्रेण समुद्धृतेयं
धरा चला धारयतीह सर्वम् ।
शेते ग्रसित्वा सकलं जगद्य-
-स्तमीड्यमीशं प्रणतोऽस्मि विष्णुम् ॥ 10 ॥
अंशावतीर्णेन च येन गर्भे
हृतानि तेजांसि महासुराणाम् ।
नमामि तं देवमनन्तमीश-
-मशेषसंसारतरोः कुठारम् ॥ 11 ॥
देवो जगद्योनिरयं महात्मा
स षोडशांशेन महाऽसुरेन्द्राः ।
सुरेन्द्रमातुर्जठरं प्रविष्टो
हृतानि वस्तेन बलं वपूंषि ॥ 12 ॥
इति श्रीवामनपुराणे नवविंशतितमोऽध्याये श्री वामन स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits