Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

मत्स्य स्तोत्रम्

नूनं त्वं भगवान् साक्षाद्धरिर्नारायणोऽव्ययः ।
अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ 1 ॥
नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्यप्ययेश्वर ।
भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ 2 ॥
सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।
ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ 3 ॥
न तेऽरविन्दाक्षपदोपसर्पणं
मृषा भावेत्सर्व सुहृत् प्रियात्मनः ।
यथेतरेषां पृथगात्मनां सता-
-मदीदृशो यद्वपुरद्भुतं हि नः ॥ 4 ॥
इति श्रीमद्भागवते चतुर्विंशतितमोऽध्याये श्री मत्स्य स्तोत्रम् ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits