सुशान्तोवाच ।
जय हरेऽमराधीशसेवितं
तव पदाम्बुजं भूरिभूषणम् ।
कुरु ममाग्रतः साधु सत्कृतं
त्यज महामते मोहमात्मनः ॥ 1 ॥
तव वपुर्जगद्रूपसम्पदा
विरचितं सतां मानसे स्थितम् ।
रतिपतेर्मनोमोहदायकं
कुरु विचेष्टितं कामलम्पटम् ॥ 2 ॥
तव यशो जगच्छोकनाशनं
मृदुकथामृतं प्रीतिदायकम् ।
स्मितसुधोक्षितं चन्द्रवन्मुखं
तव करोत्यलं लोकमङ्गलम् ॥ 3 ॥
मम पतिस्त्वयं सर्वदुर्जयो
यदि तवाप्रियं कर्मणाऽऽचरेत् ।
जहि तदात्मनः शत्रुमुद्यतं
कुरु कृपां न चेदीदृगीश्वरः ॥ 4 ॥
महदहम्युतं पञ्चमात्रया
प्रकृतिजायया निर्मितं वपुः ।
तव निरीक्षणाल्लीलया जग-
-त्स्थितिलयोदयं ब्रह्मकल्पितम् ॥ 5 ॥
भूवियन्मरुद्वारितेजसां
राशिभिः शरीरेन्द्रियाश्रितैः ।
त्रिगुणया स्वया मायया विभो
कुरु कृपां भवत्सेवनार्थिनाम् ॥ 6 ॥
तव गुणालयं नाम पावनं
कलिमलापहं कीर्तयन्ति ये ।
भवभयक्षयं तापतापिता
मुहुरहो जनाः संसरन्ति नो ॥ 7 ॥
तव जनुः सतां मानवर्धनं
जिनकुलक्षयं देवपालकम् ।
कृतयुगार्पकं धर्मपूरकं
कलिकुलान्तकं शं तनोतु मे ॥ 8 ॥
मम गृहं पतिपुत्रनप्तृकं
गजरथैर्ध्वजैश्चामरैर्धनैः ।
मणिवरासनं सत्कृतिं विना
तव पदाब्जयोः शोभयन्ति किम् ॥ 9 ॥
तव जगद्वपुः सुन्दरस्मितं
मुखमनिन्दितं सुन्दराननम् ।
यदि न मे प्रियं वल्गुचेष्टितं
परिकरोत्यहो मृत्युरस्त्विह ॥ 10 ॥
हयचर भयहर करहरशरण
खरतरवरशर दशबलदमन ।
जय हतपरभव भववरनाशन
शशधरशतसमरसभरमदन ॥ 11 ॥
इति श्रीकल्किपुराणे सुशान्ता कृत श्री कल्कि स्तोत्रम् ॥