Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

भू वराह स्तोत्रम्

ऋषय ऊचु जितं जितं तेऽजित यज्ञभावना त्रयीं तनूं स्वां परिधुन्वते नमः यद्रोमगर्तेषु निलिल्युरध्वराः तस्मै नमः कारणसूकराय ते 1 रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम् छन्दांसि यस्य त्वचि बर्हिरोम- स्स्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम् 2 स्रुक्तुण्ड आसीत्स्रुव ईश नासयो- रिडोदरे चमसाः कर्णरन्ध्रे प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणन्ते भगवन्नग्निहोत्रम् 3 दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयो दयनीय दंष्ट्रः जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते 4 सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः सत्राणि सर्वाणि शरीरसन्धि- स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः 5 नमो नमस्तेऽखिलयन्त्रदेवता द्रव्याय सर्वक्रतवे क्रियात्मने वैराग्य भक्त्यात्मजयाऽनुभावित ज्ञानाय विद्यागुरवे नमॊ नमः 6 दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूस्सभूधरा यथा वनान्निस्सरतो दता धृता मतङ्गजेन्द्रस्य पत्रपद्मिनी 7 त्रयीमयं रूपमिदं सौकरं भूमण्डले नाथ तदा धृतेन ते चकास्ति शृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः 8 संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः 9 कः श्रद्धधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम् विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽति विस्मयम् 10 विधुन्वता वेदमयं निजं वपु- र्जनस्तपः सत्यनिवासिनो वयम् सटाशिखोद्धूत शिवाम्बुबिन्दुभि- र्विमृज्यमाना भृशमीश पाविताः 11 वै बत भ्रष्टमतिस्तवैष ते यः कर्मणां पारमपारकर्मणः यद्योगमाया गुण योग मोहितं विश्वं समस्तं भगवन् विधेहि शम् 12 इति श्रीमद्भागवते महापुराणे तृतीयस्कन्धे श्री वराह प्रादुर्भावोनाम त्रयोदशोध्यायः

Recite with devotion and pure heart

Regular practice brings spiritual benefits