Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

सन्ध्या वन्दनम् - शुक्ल यजुर्वेद

श्री गुरुभ्यो नमः । हरिः ओम् ॥ ॥ गुरु प्रार्थन ॥ ओं-वँन्दे-ऽह-म्मङ्गलात्मान-म्भास्वन्तं​वेँदविग्रहम् । याज्ञवल्क्य-म्मुनिश्रेष्ठ-ञ्जिष्णुं हरिहर प्रभुम् ॥ जितेन्द्रिय-ञ्जितक्रोधं सदाध्यानपरायणम् । आनन्दनिलयं-वँन्दे योगानन्द मुनीश्वरम् ॥ एव-न्द्वादश नामानि त्रिसन्ध्या यः पठेन्नरः । योगीश्वर प्रसादेन विद्यावा-न्धनवा-न्भवेत् ॥ ओं श्री याज्ञवल्क्य गुरुभ्यो नमः । कण्वकात्यायनादि महर्​षिभ्यो नमः ॥ गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुस्साक्षा-त्परब्रह्म तस्मै श्री गुरवे नमः ॥ गुरवे सर्वलोकाना-म्भिषजे भवरोगिणाम् । निधये सर्वविद्याना-न्दक्षिणामूर्तये नमः ॥ ॥ मानस स्नानम् ॥ अपवित्रः पवित्रो वा सर्वावस्था-ङ्गतो-ऽपि वा । यस्स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरश्शुचिः ॥ पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ॥ गोविन्देति सदास्नान-ङ्गोविन्देति सदा जपः । गोविन्देति सदा ध्यानं सदा गोविन्द कीर्तनम् ॥ आचम्य ॥ भूमि प्रार्थन ॥ पृथिवीत्यस्य, मेरुपृष्ठ ऋषिः, कूर्मो देवता, सुतल-ञ्छन्दः, आसने विनियोगः । ओ-म्पृथ्वी त्वया धृता लोका देवि त्वं-विँष्णुना धृता । त्व-ञ्च धारय मा-न्देवि पवित्र-ङ्कुरु चासनम् । ॥ प्राणायामम् ॥ प्रणवस्य परब्रह्म ऋषिः, परमात्मा देवता, दैवी गायत्री छन्दः । सप्तानां-व्याँहृतीना-म्प्रजापति ऋषिः, अग्नि-वायु-सूर्य-बृहस्पति-वरुणेन्द्र-विश्वेदेवा देवताः, गायत्र्युष्णिक् अनुष्टुप् बृहती पङ्क्तिः, त्रिष्टुब्जगत्यश्छन्दांसि । तत्सवितुरित्यस्य विश्वामित्र ऋषिः, सविता देवता, गायत्री छन्दः । शिरोमन्त्रस्य प्रजापति ऋषिः, ब्रह्म-अग्नि-वायु-सूर्या देवताः, यजुश्छन्दः । प्राणायामे विनियोगः । ओ-म्भूः । ओ-म्भुवः॑ । ओग्‍ं सुवः॑ । ओ-म्महः॑ । ओ-ञ्जनः॑ । ओ-न्तपः॑ । ओग्‍ं सत्यम् । ओ-न्तत्स॑वि॒तुर्वरे॑ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ ओं आपो॒ ज्योती॒ रसो॒मृत॒-म्ब्रह्म॒ भूर्भुव॒स्स्व॒रोम् । ॥ सङ्कल्पम् ॥ मम उपात्त समस्त दुरितक्षय द्वारा श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वर प्रीत्यर्थं शुभे शोभने मुहूर्ते श्री महाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्थे श्वेतवराह कल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथमपादे जम्बूद्वीपे भारतवर्​षे भरतखण्डे मेरोर्दक्षिण दिग्भागे श्रीशैलस्य …… प्रदेशे ……, …… नद्योः मध्य प्रदेशे मङ्गल गृहे अस्मिन् वर्तमन व्यावहरिक चान्द्रमानेन स्वस्ति श्री …….. (1) नाम सं​वँत्सरे …… अयने(2) …… ऋतौ (3) …… मासे(4) …… पक्षे (5) …… तिथौ (6) …… वासरे (7) …… नक्षत्रे (8) …… योगे (9) …… करण (10) एव-ङ्गुण विशेषण विशिष्टायां शुभतिथौ श्रीमान् …… गोत्रः …… नामधेयः (श्रीमतः …… गोत्रस्य …… नामधेयस्य मम धर्मपत्नी समेतस्य) श्री परमेश्वर प्रीत्यर्थ-म्मम श्रौत स्मार्त नित्य कर्मानुष्ठान योग्यता फलसिद्ध्यर्थ-म्प्रातः/माध्याह्निक/सायं सन्ध्यां उपासिष्ये ॥ ॥ मार्जनम् ॥ गङ्गे च यमुने कृष्णे गोदावरी सरस्वती । नर्मदे सिन्धु कावेरी जले-ऽस्मिन् सन्निधि-ङ्कुरु ॥ आपोहिष्ठेति तिसृणाम्, सिन्धुद्वीप ऋषिः, आपो देवता, गायत्री छन्दः, मार्जने विनियोगः । ओं आपो॒ हिष्ठा म॑यो॒भुवः॑ । (पादमुल पै) ओ-न्ता न॑ ऊ॒र्जे द॑धातन । (शिरस्सु पै) ओ-म्म॒हेरणा॑य॒ चक्ष॑से । (हृदयमु पै) ओं-योँ व॑श्शि॒वत॑मो॒ रसः॑ । (शिरस्सु पै) ओ-न्तस्य॑ भाजयते॒ ह नः॑ । (हृदयमु पै) ओं उ॒श॒तीरि॑व मा॒त॑रः । (पादमुल पै) ओ-न्तस्मा॒ अर॑ङ्गमामवः । (हृदयमु पै) ओं-यँस्य॒ क्षया॑य॒ जिन्व॑थ । (पादमुल पै) ओं आपो॑ ज॒नय॑था च नः । (शिरस्सु पै) ॥ मन्त्राचमनम् ॥ (प्रातः काले) सूर्यश्चेति मन्त्रस्य, उपनिषद्याज्ञवल्क्य ऋषिः, सूर्यो देवता, अनुष्टु-प्छन्दः, उदक प्राशने विनियोगः । ओं सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्र्या पाप॑मका॒र्​षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना । रात्रि॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒त-म्मयि॑ । इ॒दम॒ह-म्माममृत॑यो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा । (मध्याह्न काले) आपः पुनन्त्विति मन्त्रस्य, नारायण ऋषिः, आपो देवता, गायत्री छन्दः, उदक प्राशने विनियोगः । आपः॑ पुनन्तु पृथि॒वी-म्पृथि॒वी पू॒ता पु॑नातु॒ माम् । पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पू॒ता पु॑नातु माम् ॥ यदुच्छि॑ष्टमभो᳚ज्य॒-ञ्च यद्वा॑ दु॒श्चरि॑त॒-म्मम॑ । सर्व॑-म्पुनन्तु॒ मामापो॑-ऽस॒ता-ञ्च॑ प्रति॒ग्रह॒ग्ं स्वाहा᳚ ॥ (साय-ङ्काले) अग्निश्चेति मन्त्रस्य, याज्ञवल्क्य उपनिषदृषिः, अग्निर्देवता, अनुष्टु-प्छन्दः, उदक प्राशने विनियोगः । अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यदह्ना पाप॑मका॒र्​षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना । अह॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒त-म्मयि॑ । इ॒दम॒ह-म्माममृत॑यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा । आचम्य ॥ पुनर्मार्जनम् ॥ ओ-म्भूर्भुव॒स्स्वः॑ । तत्स॑वि॒तुर्वरे॑ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से । यो व॑श्शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ । उ॒श॒तीरि॑व मा॒त॑रः । तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः । ॥ अघमर्​षणम् ॥ द्रुपदा दिवेत्यस्य मन्त्रस्य, कोकिल राजपुत्र ऋषिः, आपो देवता, अनुष्टु-प्छन्दः, अघमर्​षणे विनियोगः । ओ-न्द्रु॒प॒दा दि॑व मुञ्चतु । द्रु॒प॒दा दि॒वेन्मु॑मुचा॒नः । स्वि॒न्न-स्स्ना॒त्वी मला॑दिव । पू॒त-म्प॒वित्रे॑णे॒वाज्य᳚म् । आपः॑ शुन्धन्तु॒ मैन॑सः । शत्रुक्षयार्थ मार्जनम् ॥ सुमित्रान इत्यस्य मन्त्रस्य, प्रजापति ऋषिः, आपो देवता, अनुष्टु-प्छन्दः, शत्रुक्षयार्थे विनियोगः । ओं सु॒मि॒त्रा न॒ आप॒ ओष॑धय-स्सन्तु । दु॒र्मि॒त्रास्तस्मै॑ भुयासुः । यो᳚-ऽस्मान्द्वेष्टि॑ । य-ञ्च॑ व॒य-न्द्वि॒ष्मः । पापक्षयार्थ मार्जनम् ॥ इदमाप इत्यस्य मन्त्रस्य, उचक्थ्य ऋषिः, आपो देवता, अनुष्टु-प्छन्दः, दुरितक्षयार्थ मार्जने विनियोगः । ओं इ॒दमा॑पः॒ प्रव॑हत॒ यत्कि-ञ्च॑ दुरि॒त-म्मयि॑ । यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥ ॥ अर्घ्यप्रदानमु ॥ आचम्य प्राणानायम्य पूर्वोक्त एव-ङ्गुण विशेषण विशिष्टायां शुभतिथौ (कालातिक्रमणदोष निवृत्यर्थ-म्प्रायश्चित्तार्घ्य पूर्वक) प्रातः/माध्याह्निक/सायं सन्ध्याङ्ग अर्घ्यप्रदान-ङ्करिष्ये ॥ भूर्भुवस्स्वरिति महाव्याहृतीनाम्, परमेष्ठी प्रजापति ऋषिः, अग्नि-वायु-सूर्या देवताः, गायत्र्युष्णिक् अनुष्टुप्छन्दांसि । तत्सवितुरित्यस्य, विश्वामित्र ऋषिः, सविता देवता, गायत्री छन्दः, अर्घ्यप्रदाने विनियोगः । ओ-म्भूर्भुव॒स्स्वः॑ । ओ-न्तत्स॑वितु॒र्वरे॑ण्य॒म् । भर्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ श्री पद्मिनी उषा सौज्ञा छाया समेत श्री सूर्यनारायण परब्रह्मणे नमः । इदमर्घ्यं समर्पयामि । (प्रातः काले) उषस्त इत्यस्य मन्त्रस्य, गौतम ऋषिः, उषो देवता, उष्णिक्छन्दः, प्रायश्चित्तार्घ्य प्रदाने विनियोगः । ओं उष॒स्तच्चि॒त्रमाभ॑रा॒स्मभ्यं॑-वाँजनीवति येनतो॒क-ञ्च॒ तन॑य-ञ्च॒ धाम॑हे ॥ श्री पद्मिनी उषा सौज्ञा छाया समेत श्री सूर्यनारायण परब्रह्मणे नमः । इदमर्घ्यं समर्पयामि । ओ-म्भूः । ओ-म्भुवः॑ । ओग्‍ं सुवः॑ । ओ-न्तत्स॑वितु॒र्वरे॑ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योनः॑ प्रचो॒दया॑त् ॥ [3] (मध्याह्न काले) आकृष्णेनेत्यस्य मन्त्रस्य, हिरण्य स्तूप ऋषिः, सूर्यो देवता, त्रिष्टुप्छन्दः, प्रायश्चित्तार्घ्य प्रदाने विनियोगः ॥ ओं आकृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृत॒-म्मर्त्य॑ञ्च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना-ऽऽदे॒वो या॑ति॒भुव॑नानि॒ पश्यन्॑ ॥ श्री पद्मिनी उषा सौज्ञा छाया समेत श्री सूर्यनारायण परब्रह्मणे नमः । इदमर्घ्यं समर्पयामि । ओ-म्भूः । ओ-म्भुवः॑ । ओग्‍ं सुवः॑ । ओ-न्तत्स॑वितु॒र्वरे॑ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योनः॑ प्रचो॒दया॑त् ॥ [1] (साय-ङ्काले) आरात्रीत्यस्य मन्त्रस्य, कशिपा भरद्वाज दुहिता ऋषिः, रात्रिर्देवता, पथ्भ्या बृहती छन्दः, प्रायश्चितार्घ्य प्रदाने विनियोगः । ओं आरा॑त्रि॒ पार्थि॑व॒ग्ं॒ रजः॑ पि॒तुर॑ प्रायि॒ धाम॑भिः । दि॒व-स्सदा॑ग्ग्‍सि बृह॒ती विति॑ष्ठस॒ आत्वे॒षं-वँ॑र्तते॒ त॑मः ॥ श्री पद्मिनी उषा सौज्ञा छाया समेत श्री सूर्यनारायण परब्रह्मणे नमः । इदमर्घ्यं समर्पयामि । ओ-म्भूः । ओ-म्भुवः॑ । ओग्‍ं सुवः॑ । ओ-न्तत्स॑वितु॒र्वरे॑ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योनः॑ प्रचो॒दया॑त् ॥ [3] ॥ भूप्रदक्षिण ॥ असावादित इत्यस्य मन्त्रस्य, ब्रह्मा ऋषिः, आदित्यो देवता, अनुष्टु-प्छन्दः, भू प्रदक्षिणे विनियोग । अ॒सावा॑दि॒त्यो ब्र॒ह्म ॥ ॥ सन्ध्या तर्पणम् ॥ (प्रातः काले) गायत्र्या, व्यास ऋषिः, ब्रह्मा देवता, गायत्री छन्दः, प्रात-स्सन्ध्या तर्पणे विनियोगः । ओ-म्भूः पुरुषस्तृप्यताम् ओं ऋग्वेदस्तृप्यताम् ओ-म्मण्डलस्तृप्यताम् ओं हिरण्यगर्भरूपी तृप्यताम् ओं आत्मा तृप्यताम् ओ-ङ्गायत्री तृप्यताम् ओं-वेँदमाता तृप्यताम् ओं साङ्कृती तृप्यताम् ओं सन्ध्या तृप्यताम् ओ-ङ्कुमारी तृप्यताम् ओ-म्ब्राह्मी तृप्यताम् ओं उषस्तृप्यताम् ओ-न्निर्मृजी तृप्यताम् ओं सर्वार्थसिद्धिकरी तृप्यताम् ओं सर्वमन्त्राधिपतिस्तृप्यताम् ओ-म्भूर्भवस्स्वः पुरुषस्तृप्यताम् (मध्याह्न काले) सावित्र्याः, कश्यप ऋषिः, रुद्रो देवता, त्रिष्टु-प्छन्दः, माध्याह्निक सन्ध्या तर्पणे विनियोगः । ओ-म्भुवः पुरुषस्तृप्यताम् ओं-यँजुर्वेदस्तृप्यताम् ओ-म्मण्डलस्तृप्यताम् ओं रुद्ररूपी तृप्यताम् ओं अनन्तरात्मा तृप्यताम् ओं सावित्री तृप्यताम् ओं-वेँदमाता तृप्यताम् ओं साङ्कृती तृप्यताम् ओं सन्ध्या तृप्यताम् ओं-युँवती तृप्यताम् ओं रौद्री तृप्यताम् ओं उषस्तृप्यताम् ओ-न्निर्मृजी तृप्यताम् ओं सर्वर्थसिद्धिकरी तृप्यताम् ओं सर्वमन्त्राधिपतिस्तृप्यताम् ओ-म्भूर्भुवस्स्वः पुरुषस्तृप्यताम् (सायन्त्र काले) सरस्वत्या, वशिष्ठ ऋषिः, विष्णुर्देवता जगती छन्दः, सायं सन्ध्या तर्पणे विनियोगः । ओग्ग् स्वः पुरुषस्तृप्यताम् ओं सामवेदस्तृप्यताम् ओ-म्मण्डलस्तृप्यताम् ओं-विँष्णुरूपी तृप्यताम् ओ-म्परमात्मा तृप्यताम् ओं सरस्वती तृप्यताम् ओं-वेँदमाता तृप्यताम् ओं साङ्कृती तृप्यताम् ओं सन्ध्या तृप्यताम् ओं-वृँद्धा तृप्यताम् ओं-वैँष्णवी तृप्यताम् ओं उषस्तृप्यताम् ओ-न्निर्मृजी तृप्यताम् ओं सर्वार्थसिद्धिकरी तृप्यताम् ओं सर्वमन्त्राधिपतिस्तृप्यताम् ओ-म्भूर्भुवस्स्वः पुरुष स्तृप्यताम् ॥ सूर्योपस्थानमु ॥ उदुत्य मित्यस्याः, प्रस्कण्वृषिः, सविता देवता, गायत्री छन्दः । चित्र-न्देवानामित्यस्याः, कुत्स ऋषिः, सूर्यो देवता, त्रिष्टुप्छन्दः, सूर्योपस्थाने विनियोगः ॥ ओं उदु॒त्य-ञ्जा॒तवे॑दस-न्दे॒वं-वँ॑हन्ति के॒तवः॑। दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥ ओ-ञ्चि॒त्र-न्दे॒वाना॒मुद॑गा॒दनी॑क॒-ञ्चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒द्यावा॑ पृथि॒वी अ॒न्तरि॑क्ष॒ग्॒ सूर्य॑ आ॒त्मा जग॑दस्त॒स्थुष॑श्च ॥ (प्रातः काले) ओ-म्मित्रस्येत्यादि चतुर्णाम्, विश्वामित्र ऋषिः, लिङ्गोक्ता देवताः, गायत्री बृहत्यनुष्टुप् धृतयश्छन्दांसि, सूर्योपस्थाने विनियोगः । ओ-म्मि॒त्रस्य॑ चर्​षणी॒ दृतोवो॑ दे॒वस्य॑सान॒सि द्यु॒म्न-ञ्चि॒त्र स्र॑वस्तमम् ॥ ओ-न्दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिस्स्व॑ज्गु॒रिस्सु॑ बा॒हुरु॒तशक्त्या॑ । अव्य॑थमाना पृथि॒व्या माशा॒दिश॒ आपृ॑ण ॥ ओं उ॒त्थाय॑ बृह॒ती भ॒वो दु॑त्तिष्ठध्रु॒वात्वम् । मित्रै॒तान्त॑ उ॒खा-म्परि॑ददा॒म्यभि॑त्या ए॒षा माभे॑दि ॥ ओं-वँस॑व॒स्त्वा छृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साज्गिर॒स्व द्रु॒द्रास्त्वा छृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साज्गिर॒स्वत् । आ॒दि॒त्यास्त्वा छृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साज्गिर॒स्व द्विश्वे॑त्वा दे॒वावै॑श्वान॒रा आछृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साज्गिर॒स्वत् ॥ (मध्याह्न काले) उद्वयमुदित्यमितिद्वयो, प्रस्कण्व ऋषिः, सविता देवता, प्रथमस्यानुष्टुप्छन्दः, द्वितीयस्य गायत्री छन्दः, चित्र-न्देवानामित्यस्य, कुत्स ऋषिः, सविता देवता, त्रिष्टुप्छन्दः, तच्चक्षुरित्यस्य, दध्यङ्गाथर्वण ऋषिः, सूर्यो देवता, पङ्क्तिश्छन्दः, सूर्योपस्थाने विनियोगः ॥ ओं उद्व॒य-न्तम॑स॒स्परि॒स्वः॒ पश्य॑न्त॒ उत्त॑रम् । दे॒व-न्दे॑व॒त्रा सूर्य॒ मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ ओं उदु॒त्य-ञ्जा॒तवे॑दस-न्दे॒वं-वँ॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥ ओ-ञ्चि॒त्र-न्दे॒वाना॒मुद॑गा॒दनी॑क॒-ञ्चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒द्यावा॑ पृथि॒वी अ॒न्तरि॑क्ष॒ग्॒ सूर्य॑ आ॒त्मा ज॑गदस्त॒स्थुष॑श्च ॥ ओ-न्तच्चक्षु॑र्दे॒वहि॑त-म्पु॒रस्ता॑च्छु॒क्र मु॒च्चर॑त् । पश्ये॒म श॒रद॑श्श॒त-ञ्जीवे॑म श॒रद॑श्श॒तग् शृणु॑याम श॒रद॑श्श॒तम् ॥ (साय-ङ्काले) इम-म्मे वरुण तत्वायामीत्यनयोश्शुनश्शेफ ऋषिः, वरुणो देवता, गायत्री त्रिष्टुभौ छन्दसि, सूर्योपस्धाने विनियोगः ॥ ओं इ॒म-म्मे॑ वरुण श्रुधी॒हव॑म॒द्या च॑ मृलय । त्वाम॑व॒स्युराच॑के ॥ ओ-न्तत्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑लमानो वरुणे॒ हबो॒ध्युरु॑शग्ं स॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ ॥ गायत्री ॥ आचम्य प्राणानायम्य उग्रभूतपिशाचास्ते इत्येते भूमि भारकाः । भूतानामविरोधेन ब्रह्म कर्म समारभे ॥ पूर्वोक्त एव-ङ्गुण विशेषण विशिष्टायां शुभतिथौ यथा शक्ति प्रातः/मध्याह्निक/सायं सन्ध्याङ्ग गायत्री मन्त्र जप-ङ्करिष्ये ॥ ॥ गायत्र्यावाहनम् ॥ ओं ओजो॑-ऽसि॒ सहो॑-ऽसि॒ बलम॑सि॒ भ्राजो॑-ऽसि दे॒वाना॒-न्धाम॒नामा॑सि विश्व॑मसि वि॒श्वायु॒-स्सर्व॑मसि स॒र्वायुरभिभूरोम् । गायत्रीमावा॑हया॒मि॒ । सावित्रीमावा॑हया॒मि॒ । सरस्वतीमावा॑हया॒मि॒ । छन्दर्​षीनावा॑हया॒मि॒ । श्रियमावा॑हया॒मि॒ ॥ गा॒यत्र्या गायत्री छन्दो विश्वामित्र ऋषि-स्सविता देवता अग्निर्मुख-म्ब्रह्माशिरः विष्णुर्‍हृदयग्ं रुद्रश्शिखा पृथिवी योनिः प्राणापानव्यानोदान समानास्सप्राणा-श्श्वेतवर्णा साङ्ख्यायन सगोत्रा गायत्री चतुर्विग्‍ंशत्यक्षरा त्रिपदा॑ षट्कु॒क्षिः॒ पञ्चशीर्​षोपनयने वि॑नियो॒गः॒ ॥ आयात्वित्यनुवाकस्य, वामदेव ऋषिः, गायत्री देवता, अनुष्टु-प्छन्दः, गायत्र्यावाहने विनियोगः ॥ ओं आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षर॑-म्ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्री॑-ञ्छन्द॑सा-म्मा॒ते॒द-म्ब्र॑ह्म जु॒षस्व॑ नः । तेजो-ऽसीत्यस्य मन्त्रस्य, प्रजापति ऋषिः, सौवर्ण-न्निष्क-न्देवता, अनुष्टु-प्छन्दः, गायत्र्यावाहने विनियोगः ॥ ओ-न्तेजो॑-ऽसि शु॒क्रम॒मृत॑मायु॒ष्पा आयु॑र्मेपाहि । दे॒वस्य॑त्वा सवि॒तुः प्र॑स॒वे॒-ऽश्विनो॑र्बा॒हुभ्या॑-म्पू॒ष्णो हस्ता॑भ्या॒माद॑धे ॥ ॥ प्रार्थन ॥ गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्य पदसि न हि पद्यसे । नमस्ते तुरीयाय दर्​शताय पदाय परोरजसेसावदो मा प्रापत् । (प्रातः काले) प्रात-स्सन्ध्या, गायत्री नामा, रक्तवर्णा, हंसवाहना, ब्रह्महृदया, बाल रूपा, आवहनीयाग्निरूपस्थाना, भूरायतना, जाग्रद्वद्धृतिः, प्रातस्सवने ऋग्वेदे विनियोगः । (मध्याह्न काले) माध्याह्निक सन्ध्या, सावित्री नामा, श्वेतवर्णा, वृषभ वाहना, रुद्रहृदया, यव्वन रूपा, गार्​हपत्याग्निरूपस्थाना, अन्तरिक्षायतना, स्वप्नवद्धृतिः, माध्याह्निक सवने यजुर्वेदे विनियोगः । (साय-ङ्काले) सायं सन्ध्या, सरस्वती नामा, कृष्णवर्णा, गरुड वाहना, विष्णु हृदया, वृद्धरूपा, दक्षिणाग्निरूपस्थाना, द्यौरायतना, सुषुप्तिवद्धृतिः, सायंसवने सामवेदे विनियोगः । (त्रिकाले) आगच्छ वरदे देवि जपे मे सन्निधौ भव । गायन्त-न्त्रायसे यस्माद्गायत्री त्वमुदाहृता ॥ ॥ न्यासम् ॥ ओ-म्भूरिति पादयोः । ओ-म्भुवरिति जङ्घयोः । ओग्ग्‍ं स्वरिति जान्वोः । ओ-म्मह इति जठरे । ओ-ञ्जन इति कण्ठे । ओ-न्तप इति मुखे । ओग्ग्‍ं सत्यमिति शिरसि । ओ-म्भूः अङ्गुष्ठाभ्या-न्नमः । ओ-म्भुवः तर्जनीभ्या-न्नमः । ओग्‍ं स्वः मध्यमाभ्या-न्नमः । ओ-न्तत्सवितुर्वरेण्यं अनामिकाभ्या-न्नमः । ओ-म्भर्गो देवस्य धीमहि कनिष्ठिकाभ्या-न्नमः । ओ-न्धियो यो नः प्रचोदया-त्करतल करपृष्ठाभ्या-न्नमः । ओ-म्भूः हृदयाय नमः । ओ-म्भुव-श्शिरसे स्वाहा । ओग्ं स्व-श्शिखायै वषट् । ओ-न्तत्सवितुर्वरेण्य-ङ्कवचाय हुम् । ओ-म्भर्गो देवस्य धीमहि नेत्रत्रयाय वौषट् । ओ-न्धियो यो नः प्रचोदयात् अस्त्राय फट् । ओ-म्भूर्भवस्स्वरोमिति दिग्बन्धः । ॥ गायत्री ध्यानम् ॥ मुक्ताविद्रुमहेमनीलधवल-च्छायैर्मुखैस्त्रीक्षणैः । युक्तामिन्दुनिबद्धरत्नमकुटा-न्तत्त्वार्थ वर्णात्मिकाम् ॥ गायत्रीं-वँरदा-ऽभया-ऽङ्कुश कशाश्शुभ्र-ङ्कपाल-ङ्गदाम् । शङ्ख-ञ्चक्रमथा-ऽरविन्दयुगलं हस्तैर्वहन्ती-म्भजे ॥ ॥ लमित्यादि पञ्चपूजा ॥ ल-म्पृथिवीतत्त्वात्मिकायै गायत्री देवतायै नमः । गन्ध-म्परिकल्पयामि ॥ हं आकाशतत्त्वात्मिकायै गायत्री देवतायै नमः । पुष्प-म्परिकल्पयामि ॥ यं-वाँयुतत्त्वात्मिकायै गायत्री देवतायै नमः । धूप-म्परिकल्पयामि ॥ रं-वँह्नितत्त्वात्मिकायै गायत्री देवतायै नमः । दीप-म्परिकल्पयामि ॥ वं अमृततत्त्वात्मिकायै गायत्री देवतायै नमः । नैवेद्य-म्परिकल्पयामि ॥ सं सर्वतत्त्वात्मिकायै गायत्री देवतायैनमः । सर्वोपचारा-न्परिकल्पयामि॥ प्रणवस्य परब्रह्म ऋषिः, परमात्मा देवता, दैवी गायत्री छन्दः । भूर्भुवस्स्वरिति महाव्याहृतीना-म्परमेष्ठी प्रजापति ऋषिः, अग्नि-वायु-सूर्या देवताः, गायत्र्युष्णिगनुष्टु-प्छन्दांसि । गायत्र्या विश्वामित्र ऋषिः, सविता देवता, गायत्री छन्दः । ॥ गायत्री मुद्र ॥ सुमुखं सम्पुट-ञ्चैव विततं-विँस्तृत-न्तथा । द्विमुख-न्त्रिमुख-ञ्चैव चतुः पञ्चमुख-न्तथा ॥ षण्मुखो-ऽधोमुख-ञ्चैव व्यापिकाञ्जलिक-न्तथा । शकटं-यँमपाश-ञ्च ग्रथितं सम्मुखोन्मुखम् ॥ प्रलम्ब-म्मुष्टिक-ञ्चैव मत्स्यः कूर्मो वराहकम् । सिंहाक्रान्त-म्महाक्रान्त-म्मुद्गर-म्पल्लव-न्तथा ॥ ॥ गायत्री मन्त्रम् ॥ ओ-म्भूर्भुव॒स्स्वः॑ । तत्स॑वि॒तुर्वरे॑ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ ॥ मन्त्र जपावसानम् ॥ पूर्वोक्त एव-ङ्गुण विशेषण विशिष्टायां शुभ तिथौ गायत्री जपोपसंहार-ङ्करिष्ये । अस्य श्री गायत्री महामन्त्रस्य, विश्वामित्र ऋषिः, सविता देवता, गायत्री छन्दः, मम जपोपसंहारे विनियोगः । ओ-म्भूरिति पादयोः । ओ-म्भुवरिति जङ्घयोः । ओग्ग्‍ं स्वरिति जान्वोः । ओ-म्मह इति जठरे । ओ-ञ्जन इति कण्ठे । ओ-न्तप इति मुखे । ओग्ग्‍ं सत्यमिति शिरसि । ओ-म्भूः अङ्गुष्ठाभ्या-न्नमः । ओ-म्भुवः तर्जनीभ्या-न्नमः । ओग्‍ं स्वः मध्यमाभ्या-न्नमः । ओ-न्तत्सवितुर्वरेण्यं अनामिकाभ्या-न्नमः । ओ-म्भर्गो देवस्य धीमहि कनिष्ठिकाभ्या-न्नमः । ओ-न्धियो यो नः प्रचोदया-त्करतल करपृष्ठाभ्या-न्नमः । ओ-म्भूः हृदयाय नमः । ओ-म्भुव-श्शिरसे स्वाहा । ओग्ं स्व-श्शिखायै वषट् । ओ-न्तत्सवितुर्वरेण्य-ङ्कवचाय हुम् । ओ-म्भर्गो देवस्य धीमहि नेत्रत्रयाय वौषट् । ओ-न्धियो यो नः प्रचोदयात् अस्त्राय फट् । भूर्भुवस्स्वरोमिति दिग्विमोकः । ॥ उत्तर मुद्र ॥ सुरभिः ज्ञान चक्रे च योनिः कूर्मो-ऽथ पङ्कजम् । लिङ्ग-न्निर्याण मुद्रा चेत्यष्टमुद्राः प्रकीर्तिताः । ॥ गायत्री तर्पणम् ॥ पूर्वोक्त एव-ङ्गुण विशेषण विशिष्ठायां शुभ तिथौ सवितृप्रीति योगाय गायत्री तर्पणमह-ङ्करिष्ये । ऋषिर्व्यास-स्समुद्दिष्टो ब्रह्मादैव तमुच्यते । छन्दो गायत्रक-ञ्चैव विनियोगस्तु तर्पणे ॥ ओ-म्भूः पुरुष ऋग्वेदस्तृप्यताम् ओ-म्भुवः पुरुष यजुर्वेदस्तृप्यताम् ओग्ग्‍ं स्वः पुरुष सामवेदस्तृप्यताम् ओ-म्महः पुरुष अथर्वणवेदस्तृप्यताम् ओ-ञ्जनः पुरुष इतिहासपुराणस्तृप्यताम् ओ-न्तपः पुरुष सर्वागमस्तृप्यताम् ओं सत्य-म्पुरुष सत्यलोकस्तृप्यताम् ओ-म्भूर्भुव-स्स्वः पुरुष मण्डलान्तर्गतस्तृप्यताम् ओ-म्भूरेकपदा गायत्री तृप्यताम् ओ-म्भुवः द्विपदा गायत्री तृप्यताम् ओग्‍ं स्वः त्रिपदा गायत्री तृप्यताम् ओ-म्भूर्भुवस्स्व-श्चतुष्पदा गायत्री तृप्यताम् ओं उषस्तृप्यताम् ओ-ङ्गायत्री तृप्यताम् ओं सावित्री तृप्यताम् ओं सरस्वती तृप्यताम् ओं-वेँदमाता तृप्यताम् ओ-म्पृथिवी तृप्यताम् ओ-ञ्जया तृप्यताम् ओ-ङ्कौशिकी तृप्यताम् ओं साङ्कृति तृप्यताम् ओं सर्वापराजिता तृप्यताम् ओं सहस्रमूर्तिस्तृप्यताम् ओं आनन्दमूर्तिस्तृप्यताम् । ॥ दिङ्नमस्कारः ॥ ओ-म्प्राच्यै दिशे नमः । इन्द्राय नमः । ओं आग्नेयै दिशे नमः । अग्नये नमः । ओ-न्दक्षिणायै दिशे नमः । यमाय नमः । ओ-न्नैर्-ऋत्यै दिशे नमः । निर्-ऋतये नमः । ओ-म्प्रतीच्यै दिशे नमः । वरुणाय नमः । ओं-वाँयुव्यै दिशे नमः । वायवे नमः । ओं उदीच्यै दिशे नमः । कुबेराय नमः । ओं ईशान्यै दिशे नमः । ईश्वराय नमः । ओं ऊर्ध्वायै दिशे नमः । ब्रह्मणे नमः । ओं अधरायै दिशे नमः । अनन्ताय नमः । ओं सन्ध्यायै नमः ओ-ङ्गायत्र्यै नमः ओं सावित्र्यै नमः ओं सरस्वत्यै नमः ओं सर्वेभ्यो देवताभ्यो नमः ओ-न्देवेभ्यो नमः । ओं ऋषिभ्यो नमः ओ-म्मुनिभ्यो नमः ओ-ङ्गुरुभ्यो नमः ओ-म्पितृभ्यो नमः ओ-म्मातृभ्यो नमः ओ-न्नमो नमः इति । ॥ उद्वासनम् ॥ उत्तमेत्यनुवाकस्य, वामदेव ऋषिः, गायत्री देवता, अनुष्टु-प्छन्दः, उद्वासने विनियोगः ॥ ओं उ॒त्तमे॑ शिख॑रे देवी भू॒म्या-म्प॑र्वत॒मूर्ध॑नि । ब्राह्मणे॑भ्यो-ऽभ्य॑नुज्ञा॒ता॒ ग॒च्छ दे॑वि य॒था सु॑खम् ॥ ॥ जप निवेदनम् ॥ देवा गातु विद इत्यस्य मन्त्रस्य, मनसस्पत ऋषिः, वातो देवता, विराट् छन्दः, जपनिवेदने विनियोगः॥ ओ-न्देवा॑गातु विदोगा॒तु मि॒त्वागा॒तु मि॑त । मन॑सस्पत इ॒म-न्दे॑व य॒ज्ञग्ग् स्वाहा॒ वाते॑थाः ॥ (प्रातः काले) प्रातस्सन्ध्याङ्ग भूतेन गायत्र्यास्तु जपेन च । सा-ऽष्टेन शत सङ्ख्येन ब्रह्म मे प्रियतां रविः ॥ (मध्याह्न काले) मध्याह्न सन्ध्याङ्गत्वेन गायत्र्या जपितेन च । यथा सङ्ख्येन जपेन रुद्रो मे प्रियतां रविः ॥ (साय-ङ्काले) सायं सन्ध्याङ्ग भूतेन गायत्र्यास्तु जपेन च । सा-ऽष्टेन शत सङ्ख्येन ब्रह्म मे प्रियतां रविः ॥ ॥ प्रवर ॥ चतुस्सागर पर्यन्त-ङ्गोब्राह्मणेभ्य-श्शुभ-म्भवतु । ………. प्रवरान्वित ………… गोत्र-श्शुक्ल यजुर्वेदान्तर्गत काण्व शाखाध्यायी कात्यायन सूत्रः ………. शर्मा-ऽह-म्भो अभिवादये ॥ ॥ समर्पणम् ॥ आसत्यलोकात्पाताला-दालोकालोकपर्वतात् । ये सन्ति ब्राह्मणादेवास्तेभ्यो नित्य-न्नमो नमः ॥ विष्णुपत्नीसमुद्भूते शङ्खवर्णे महीतले । अनेकरत्नसम्पन्ने भूमिदेवि नमो-ऽस्तु ते ॥ समुद्रवसने देवि पर्वतस्तनमण्डले । विष्णुपत्नी नमस्तुभ्य-म्पादस्पर्​श-ङ्क्षमस्व मे ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits