श्री गुरुभ्यो नमः ।
हरिः ओं ॥
॥ शुचिः ॥
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुंडरीकाक्षं स बाह्याभ्यन्तरश्शुचिः ॥
पुंडरीकाक्ष पुंडरीकाक्ष पुंडरीकाक्षाय नमः ॥
॥ भूतोच्छाटन ॥
उत्तिष्ठंतु भूत पिशाचाः येते भूमि भारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
॥ प्राणानायम्य ॥
ओं भूः । ओं भुव॑: । ओग्ं सुव॑: । ओं मह॑: । ओं जन॑: । ओं तप॑: । ओग्ं सत्यम् ।
ओं तत्स॑वितु॒र्वरे”ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योन॑: प्रचो॒दया”त् ॥
ओमापो॒ ज्योती॒ रसो॒ऽमृत॒o ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥
॥ संकल्पः ॥
मम उपात्त समस्त दुरितक्षय द्वारा श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वर प्रीत्यर्थं शुभाभ्यां शुभे शोभने मुहूर्ते श्री महाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्थे श्वेतवराहकल्पे वैवस्वत मन्वंतरे कलियुगे प्रथमपादे जंबूद्वीपे भरतवर्षे भरतखंडे मेरोः दक्षिण दिग्भागे श्रीशैलस्य …… प्रदेशे ……, …… नद्योः मध्य प्रदेशे शोभन गृहे समस्त देवता ब्राह्मण आचार्य हरिहर गुरु चरण सन्निधौ अस्मिन् वर्तमन व्यावहरिक चांद्रमानेन श्री ……॥ (*1) नाम संवत्सरे …… अयने(*2) …… ऋतौ (*3) …… मासे(*4) …… पक्षे (*5) …… तिथौ (*6) …… वासरे (*7) …… नक्षत्रे (*8) …… योगे (*9) …… करण (*10) एवं गुण विशेषण विशिष्टायां शुभायां शुभतिथौ श्रीमान् …… गोत्रः …… नामधेयः (श्रीमतः …… गोत्रस्य …… नामधेयस्य धर्मपत्नीसमेतस्य) श्री परमेश्वर प्रीत्यर्थं प्रातः/माध्याह्निक/सायं संध्यां उपासिष्ये ॥
॥ मार्जनः ॥
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह न॑: । उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ।
मंत्राचमनं ॥
(प्रातः काल)
सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः ।
पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्रिया पाप॑मका॒र्षम् ।
मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना ।
रात्रि॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒तं मयि॑ ।
इ॒दम॒हं माममृत॑यो॒नौ ।
सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ।
(मध्याह्न काल)
आप॑: पुनन्तु पृथि॒वीं पृथि॒वी पू॒ता पु॑नातु॒ माम् ।
पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पू॒ता पु॑नातु माम् ॥
यदुच्छि॑ष्टमभो”ज्य॒o यद्वा॑ दु॒श्चरि॑त॒o मम॑ ।
सर्व॑o पुनन्तु॒ मामापो॑ऽस॒तां च॑ प्रति॒ग्रह॒ग्ं स्वाहा” ॥
(सायं काल)
अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः ।
पापेभ्यो॑ रक्ष॒न्ताम् । यदह्ना पाप॑मका॒र्षम् ।
मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना ।
अह॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒तं मयि॑ ।
इ॒दम॒हं माममृत॑यो॒नौ ।
सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।
॥ पुनः मार्जनः ॥
द॒धि॒क्राव्णो॑अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिन॑: । सु॒र॒भि नो॒ मुखा॑ कर॒त्प्राण॒ आयूग्॑oषि तारिषत् ॥
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह न॑: । उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ।
हिर॑ण्यवर्णा॒: शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्र॑: ।
अ॒ग्निं या गर्भ॑o दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥
यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् ।
म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥
यासा”o दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।
याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ शु॒क्रास्ता न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥
शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑o मे ।
सर्वाग्ं॑ अ॒ग्नीग्ं र॑प्सु॒षदो॑ हु॒वे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ निध॑त्त ॥
॥ पापविमोचन मंत्रं ॥
द्रु॒प॒दा दि॑व मुंचतु । द्रु॒प॒दा दि॒वेन्मु॑मुचा॒नः ।
स्वि॒न्नः स्ना॒त्वी मला॑दिव । पू॒तं प॒वित्रे॑णे॒वाज्य”म् ।
आप॑: शुन्धन्तु॒ मैन॑सः ।
॥ अर्घ्यप्रदानं ॥
प्राणानायम्य ॥
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ (मुख्य कालातिक्रमण दोष निवृत्त्यर्थं प्रायश्चित्त अर्घ्य प्रदान पूर्वक) प्रातः / माध्याह्निक / सायं संध्यांग अर्घ्यप्रदानं करिष्ये ॥
(प्रातः काल)
ओं भूः । ओं भुव॑: । ओग्ं सुव॑: । ओं तत्स॑वितु॒र्वरे”ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योन॑: प्रचो॒दया”त् ॥ [3 (+1)]
(मध्याह्न काल)
ह॒ग्ंसश्शु॑चि॒षद्वसु॑रन्तरिक्ष॒ सद्धोता॑ वेदि॒ष दति॑थिर्दुरोण॒ सत् । नृ॒षद्व॑र॒स दृ॑त॒ स द्व्यो॑म॒ स द॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥ [1]
ओं भूः । ओं भुव॑: । ओग्ं सुव॑: । ओं तत्स॑वितु॒र्वरे”ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योन॑: प्रचो॒दया”त् ॥ [2]
(सायं काल)
ओं भूः । ओं भुव॑: । ओग्ं सुव॑: । ओं तत्स॑वितु॒र्वरे”ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योन॑: प्रचो॒दया”त् ॥ [3 (+1)]
प्रदक्षिण ॥
उ॒द्यन्त॑मस्त॒o यन्त॑मादि॒त्यम॑भिध्या॒यन्कु॒र्वन्ब्रा”ह्म॒णो वि॒द्वान्त्सकल॑o भ॒द्रम॑श्नुते॒ऽसावा॑दि॒त्यो ब्र॒ह्मेति॒ ब्रह्मै॒वसन्ब्रह्मा॒प्येति॒ य ए॒वं वेद॑ ॥ अ॒सावा॑दि॒त्यो ब्र॒ह्म ॥
॥ तर्पणं ॥
प्राणानायम्य ॥
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ प्रातः / माध्याह्निक / सायं संध्यांग तर्पणं करिष्ये ॥
(प्रातः काल)
संध्यां तर्पयामि । गायत्रीं तर्पयामि ।
ब्राह्मीं तर्पयामि । निमृजीं तर्पयामि ।
(मध्याह्न कालमुन)
संध्यां तर्पयामि । सावित्रीं तर्पयामि ।
रौद्रीं तर्पयामि । निमृजीं तर्पयामि ।
(सायं कालमुन)
संध्यां तर्पयामि । सरस्वतीं तर्पयामि ।
वैष्णवीं तर्पयामि । निमृजीं तर्पयामि ।
॥ गायत्री ॥
ओमित्येकाक्ष॑रं ब्र॒ह्म । अग्निर्देवता ब्रह्म॑ इत्या॒र्षम् ।
गायत्रं छंदं । परमात्म॑o सरू॒पं । सायुज्यं वि॑नियो॒गम् ।
आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षर॑o ब्रह्म॒ संमि॑तम् ।
गा॒य॒त्री”o छन्द॑सां मा॒ते॒दं ब्र॑ह्म जु॒षस्व॑ नः ।
यदह्ना”त्कुरु॑ते पा॒प॒o तदह्ना”त्प्रति॒मुच्य॑ते ।
यद्रात्रिया”त्कुरु॑ते पा॒प॒o तद्रात्रिया”त्प्रति॒मुच्य॑ते ।
सर्व॑व॒र्णे म॑हादे॒वि॒ स॒न्ध्यावि॑द्ये स॒रस्व॑ति ।
ओजो॑ऽसि॒ सहो॑ऽसि॒ बलम॑सि॒ भ्राजो॑ऽसि दे॒वाना॒o धाम॒नामा॑सि विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरों ।
गायत्रीमावा॑हया॒मि॒ । सावित्रीमावा॑हया॒मि॒ । सरस्वतीमावा॑हया॒मि॒ । छन्दर्षीनावा॑हया॒मि॒ । श्रियमावा॑हया॒मि॒ ॥
गा॒यत्रिया गायत्री छंदो विश्वामित्र ऋषिः सविता देवता अग्निर्मुखं ब्रह्माशिरो विष्णुर्हृदयग्ं रुद्रः शिखा
पृथिवी योनिः प्राणापानव्यानोदान समाना सप्राणा श्वेतवर्णा सांख्यायन सगोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा॑ षट्कु॒क्षि॒:
पंचशीर्षोपनयने वि॑नियो॒ग॒: ॥
॥ मंत्र जपं ॥
प्राणानायम्य ॥
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीपरमेश्वर प्रीत्यर्थं यथा शक्ति प्रातः/माध्याह्निक/सायं संध्यांग गायत्री महामंत्र जपं करिष्ये ॥
करन्यासः ॥
ओं तत्सवितु॒: ब्रह्मात्मने अंगुष्ठाभ्यां नमः ।
वरे”ण्य॒म् विष्ण्वात्मने तर्जनीभ्यां नमः ।
भ॒र्गो॑ देव॒स्य॑ रुद्रात्मने मध्यमाभ्यां नमः ।
धी॒महि सत्यात्मने अनामिकाभ्यां नमः ।
धियो॒ योन॑: ज्ञानात्मने कनिष्ठिकाभ्यां नमः ।
प्रचो॒दया”त् सर्वात्मने करतल करपृष्ठाभ्यां नमः ।
अंगन्यासः ॥
ओं तत्सवितु॒: ब्रह्मात्मने हृदयाय नमः ।
वरे”ण्य॒म् विष्ण्वात्मने शिरसे स्वाहा ।
भ॒र्गो॑ देव॒स्य॑ रुद्रात्मने शिखायै वषट् ।
धी॒महि सत्यात्मने कवचाय हुम् ।
धियो॒ योन॑: ज्ञानात्मने नेत्रत्रयाय वौषट् ।
प्रचो॒दया”त् सर्वात्मने अस्त्राय फट् ।
ओं भूर्भुव॒स्सुव॒रों इति दिग्बंधः ॥
गायत्री ध्यानमु ॥
मुक्ता विद्रुम हेमनील धवळच्छायैर्मुखैस्त्रीक्षणैः
युक्तामिन्दु निबद्ध रत्नमकुटां तत्त्वार्थ वर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुश कशाश्शुभ्रंकपालं गदां
शंखं चक्रमथारविन्दयुगळं हस्तैर्वहन्तीं भजे ॥
यो देवस्सविताऽस्माकं धियो धर्मादिगोचराः
प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्यमुपास्महे ॥
॥ चतुर्विंशति मुद्रा प्रदर्शनं ॥
सुमुखं संपुटं चैव विततं विस्तृतं तथा ।
द्विमुखं त्रिमुखं चैव चतुः पंचमुखं तथा ॥
षण्मुखोऽधोमुखं चैव व्यापिकाञ्जलिकं तथा ।
शकटं यमपाशं च ग्रथितं सम्मुखोन्मुखं ॥
प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम् ।
सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ॥
चतुर्विंशति मुद्रा वै गायत्र्यां सुप्रतिष्ठिताः ।
इति मुद्रा न जानाति गायत्री निष्फलाभवेत् ॥
परब्रह्म प्रकाशं च सत्य ब्रह्म प्रकीर्तिताः ।
आगच्छ वरदा देवि जपेमे सन्निधिं कुरु ॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुदेवो महेश्वरः ।
गुरुस्साक्षात्परं ब्रह्मा तस्मै श्री गुरवे नमः ।
गायत्री मंत्रं ॥
ओं भूः । ओं भुवः । ओग्ं सुवः । ओं महः । ओं जनः । ओं तपः । ओग्ं सत्यम् ।
ओं तत्स॑वि॒तुर्वरे”ण्य॒o । भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया”त् ।
[ओमापो॒ ज्योती॒ रसो॒ऽमृत॒o ब्रह्म॒ भूर्भुव॒: सुव॒रोम् ॥]
॥ मंत्र जपावसानं ॥
प्राणानायम्य ॥
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीपरमेश्वर प्रीत्यर्थं प्रातः / माध्याह्निक / सायं संध्यांग गायत्री महामंत्र जपावसानं करिष्ये ॥
करन्यासः ॥
ओं तत्सवितु॒: ब्रह्मात्मने अंगुष्ठाभ्यां नमः ।
वरे”ण्य॒म् विष्ण्वात्मने तर्जनीभ्यां नमः ।
भ॒र्गो॑ देव॒स्य॑ रुद्रात्मने मध्यमाभ्यां नमः ।
धी॒महि सत्यात्मने अनामिकाभ्यां नमः ।
धियो॒ योन॑: ज्ञानात्मने कनिष्ठिकाभ्यां नमः ।
प्रचो॒दया”त् सर्वात्मने करतल करपृष्ठाभ्यां नमः ।
अंगन्यासः ॥
ओं तत्सवितु॒: ब्रह्मात्मने हृदयाय नमः ।
वरे”ण्य॒म् विष्ण्वात्मने शिरसे स्वाहा ।
भ॒र्गो॑ देव॒स्य॑ रुद्रात्मने शिखायै वषट् ।
धी॒महि सत्यात्मने कवचाय हुम् ।
धियो॒ योन॑: ज्ञानात्मने नेत्रत्रयाय वौषट् ।
प्रचो॒दया”त् सर्वात्मने अस्त्राय फट् ।
सुवर्भुवर्भूरों इति दिग्विमोकः ॥
ध्यानम् –
मुक्ता विद्रुम हेमनील धवळच्छायैर्मुखैस्त्रीक्षणैः
युक्तामिन्दु निबद्ध रत्नमकुटां तत्त्वार्थ वर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुश कशाश्शुभ्रंकपालं गदां
शंखं चक्रमथारविन्दयुगळं हस्तैर्वहन्तीं भजे ॥
यो देवस्सविताऽस्माकं धियो धर्मादिगोचराः
प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्यमुपास्महे ॥
॥ अष्टमुद्रा प्रदर्शनं ॥
सुरभिः ज्ञान चक्रे च योनिः कूर्मोऽथ पंकजं ।
लिंगं निर्याण मुद्रा चेत्यष्ट मुद्राः प्रकीर्तिताः ।
तत्सद् ब्रह्मार्पणमस्तु ॥
॥ सूर्योपस्थानम् ॥
(प्रातः काल)
मि॒त्रस्य॑ चर्षणी॒ धृत॒श्श्रवो॑दे॒वस्य॑ सान॒सिम् । स॒त्यं चि॒त्रश्र॑वस्तमम् ॥
मि॒त्रो जना॑न्यातयति प्रजा॒नन्मित्रो दा॑धार पृथि॒वी मु॒तद्याम् ।
मि॒त्रः कृ॒ष्टीरनि॑मिषा॒ऽभिच॑ष्टे स॒त्याय॑ ह॒व्यं घृ॒तव॑द्विधेम ।
प्र स मि॑त्र॒मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒श्शिक्ष॑ति व्र॒तेन॑ ।
न ह॑न्यते॒ न जी॑यते॒त्वोतो॒नैन॒मग्ंहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ॥
(मध्याह्न काल)
आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृत॒o मर्त्य॑o च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽदे॒वोया॑ति॒ भुव॑नावि॒ पश्यन्॑ ॥
उद्व॒यं तम॑स॒स्परि॒ पश्य॑न्तो ज्योति॒रुत्त॑रम् ।
दे॒वं दे॑व॒त्रा सूर्य॒ मग॑न्म॒ ज्योति॑रुत्त॒मम् ।
उदु॒ त्यं जा॒त वे॑दसं दे॒वं व॑हन्ति के॒तव॑: दृ॒शे विश्वा॑य॒ सूर्यम् ।
चि॒त्रं दे॒वाना॒ मुद॑गा॒ दनी॑क॒o चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आ प्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ग्ं सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ।
तच्चक्षु॑र्देव॒हि॑तं पु॒रस्ता”च्छु॒क्रमु॒च्चर॑त् । पश्ये॑म श॒रद॑श्श॒तं जीवे॑म श॒रद॑श्श॒तं ।
नन्दा॑म श॒रद॑श्श॒तं मोदा॑म श॒रद॑श्श॒तं भवा॑म श॒रद॑श्श॒तग्ं शृ॒णवा॑म श॒रद॑श्श॒तं प्रब्र॑वाम श॒रद॑श्श॒तमजी॑तास्स्याम श॒रद॑श्श॒तं
जोक्च॒ सूर्य॑o दृ॒शे । य उद॑गान्मह॒तोऽर्णवा”द्वि॒भ्राज॑मानस्सरि॒रस्य॒ मध्या॒थ्स मा॑ वृष॒भो लो॑हिता॒क्षस्सूर्यो॑ विप॒श्चिन्मन॑सा पुनातु ॥
(सायं काल)
इ॒मं मे॑ वरुण श्रुधी॒ हव॑ म॒द्या च॑ मृडय । त्वाम॑व॒स्यु राच॑के ।
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑: ।
आहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयु॒: प्रमो॑षीः ॥
यच्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् । मि॒नी॒मसि॒द्यवि॑द्यवि ।
यत्किञ्चे॒दं व॒रुण दैव्ये॒ जने॑ऽभि द्रो॒हं म॑नुष्या”श्चरा॑मसि ।
अचि॑त्ती य त्तव॒ धर्मा॑ युयोपि॒म मान॒स्तस्मा॒ देन॑सो देव रीरिषः ।
कि॒त॒वासो॒ यद्रिरि॑पुर्नदी॒वि यद्वा॑ऽघा स॒त्यमु॒त यन्न वि॒द्म ।
सर्वा॒ ता विष्य॑ शिथि॒रेव दे॒वाथा॑ ते स्याम वरुण प्रि॒यास॑: ॥
॥ दिङ्नमस्कारः ॥
ओं नम॒: प्राच्यै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒o प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒
नमो॒ दक्षि॑णायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒o प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ ।
नम॒: प्रती”च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒o प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒
नम॒ उदी”च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒o प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒
नम॑ ऊ॒र्ध्वायै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒o प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒
नमोऽध॑रायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒o प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒
नमो॑ऽवान्त॒रायै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒o प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ॥
॥ मुनि नमस्कारः ॥
नमो गङ्गायमुनयोर्मध्ये ये॑ व॒स॒न्ति॒ ते मे प्रसन्नात्मानश्चिरञ्जीवितं व॑र्धय॒न्ति॒
नमो गङ्गायमुनयोर्मुनि॑भ्यश्च॒ नमो॒ नमो गङ्गायमुनयोर्मुनि॑भ्यश्च नमः ।
॥ देवता नमस्कारः ॥
संध्यायै नमः । सावित्र्यै नमः । गायत्र्यै नमः । सरस्वत्यै नमः । सर्वाभ्यो देवता”भ्यो नमः । देवेभ्यो नमः । ऋषिभ्यो नमः ।
मुनिभ्यो नमः । गुरुभ्यो नमः । पितृभ्यो नमः । मातृभ्यो नमः ।
कामोऽकारिषी”न्नमो॒ नमः । मन्युरकारिषी”न्नमो॒ नमः ।
पृथिव्यापस्तेजो वायुराकाशात् । ओं नमो भगवते वासुदेवाय ।
याग्ं सदा सर्व भूतानि चराणि स्थावराणि च
सायं प्रातर्नमस्त्यन्ति सामा सन्ध्याऽभिरक्षतु ॥
शिवाय विष्णुरूपाय शिवरूपाय विष्णवे ।
शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयग्ं शिवः ॥
यथा शिवमयो विष्णुरेवं विष्णुमयश्शिवः ।
यथाऽन्तरं न पश्यामि तथा मे” स्वस्तिरायुषि ॥
नमो ब्रह्मण्य देवाय गोब्राह्मण हिताय च ।
जगद्धिताय कृष्णाय गोविंदाय नमो नमः ॥
॥ गायत्री प्रस्थान प्रार्थना ॥
उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒मूर्ध॑नि
ब्राह्मणे”भ्योऽभ्य॑नुज्ञा॒ता॒ ग॒च्छ दे॑वि य॒थासु॑खम् ॥
स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने” द्विजा॒ता ।
आयुः पृथिव्यां द्रविणं ब्र॑ह्मव॒र्च॒स॒o
मह्यं दत्वा प्रजातुं ब्र॑ह्मलो॒कम् ॥
नमोऽस्त्वनन्ताय सहस्र मूर्तये
सहस्र पादाक्षि शिरोरु बाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्र कोटी युगधारिणे नमः ॥
इदं द्या॑वा पृथिवी स॒त्यम॑स्तु । पित॒र्मात॒र्यदि॒होप॑ब्रुवे वाम्॑ ।
भू॒तं दे॒वाना॑ मव॒मे अवो॑भिः । वि॒द्यामे॒षं वृ॒जि॑नं जी॒रदा॑नुम् ।
आकाशात्पतितं तोयं यथा गच्छति सागरं ।
सर्वदेव नमस्कारः केशवं प्रतिगच्छति ॥
सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं पुरुष आप्नोति स्तुत्वा देवं जनार्दनम् ॥
वासनाद्वासुदेवस्य वासितं ते जगत्त्रयं ।
सर्वभूत निवासोऽसि वासुदेव नमोऽस्तुते ॥
॥ प्रवर ॥
चतुस्सागर पर्यंतं गोब्राह्मणेभ्यः शुभं भवतु ॥ ………। प्रवरान्वित …… गोत्रः
आपस्तंब सूत्रः …… शाखाध्यायी ……॥ शर्माऽहं भो अभिवादये ॥
कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ॥
श्रीमन्नारायणायेति समर्पयामि ॥
आब्रह्मलोकादाशेषादालोकालोक पर्वतात् ।
ये सन्ति ब्राहणा देवास्तेभ्यो नित्यं नमो नमः ॥
ओं शांतिः शांतिः शांतिः ।