Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

ब्रह्मयज्ञ विधिः - कृष्ण यजुर्वेद

श्रीगुरुभ्यो नमः ।
हरिः ओम् ॥
प्राणानायम्य ॥
संकल्पः –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वर प्रीत्यर्थं श्रीमान् …… सगोत्रः …… नामधेयोऽहं चतुर्वेद पारायण फलसिद्ध्यर्थं नित्य स्वाध्याय ब्रह्मयज्ञेन यक्ष्ये ॥
(अक्षत, थोड़ा पानी अरिवेणम में डालें)
शुद्धिः –
ओं विद्यु॑दसि॒ विद्य॑मे पा॒प्मान॒मृता”त्स॒त्यमुपै॑मि ।
(श्रुत्याचमन करें)
हस्ता॑वव॒निज्य॑ । त्रि॒राचा॑मेत् । द्विः परि॒मृ॑ज्य । स॒कृदु॑प॒स्पृश्य॑ । यत्स॒व्यं पा॒णिं पा॒दौ प्रोक्ष॑ति । शिर॒श्चक्षु॑षी॒ नासि॑के॒ श्रोत्रे॒ हृद॑यमा॒लभ्य॑ ॥ अप उपस्पृश्य ।
द॒क्षि॒णो॒त्त॒रौ पा॒णी पा॒दौ कृ॒त्वा । सप॒वित्रा॒ ओमिति॒ प्रति॑पद्यते ।
ओं ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न् यस्मि॑न् दे॒वा अधि॒ विश्वे॑ निषे॒दुः ।
यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सते ॥
गायत्री मंत्र पठनम् –
ओं भूः – तत्स॑वितु॒र्वरे”ण्य॒म् ।
ओं भुवः – भर्गो॑ दे॒वस्य॑ धी॒महि ।
ओं सुवः – धियो॒ यो न॑: प्रचो॒दया”त् ।
ओं भूः – तत्स॑वितु॒र्वरे”ण्य॒o भर्गो॑ दे॒वस्य॑ धी॒महि ।
ओं भुवः – धियो॒ यो न॑: प्रचो॒दया”त् ।
ओं सुवः – तत्स॑वितु॒र्वरे”ण्य॒o भर्गो॑ दे॒वस्य॑ धी॒महि धियो॒ यो न॑: प्रचो॒दया”त् ।
ओं प॒रो र॑जसि साव॒दोम् ।
॥ अथ वेदपठनम् ॥
श्रीगुरुभ्यो नमः ।
हरिः ओम् ॥
यजुर्वेदाध्ययनम् –
ओं इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑स्स्थोपा॒यव॑स्स्थ दे॒वो व॑स्सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यध्वमघ्निया देवभा॒गमूर्ज॑स्वती॒: पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्माः मा व॑स्स्ते॒न ई॑शत॒ माऽघशग्॑oसो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून् पा॑हि ॥ हरिः ओम् ॥
ओं ब्रह्म॒ संध॑त्त॒o तन्मे॑ जिन्वतम् । क्ष॒त्त्रग्ं संध॑त्त॒o तन्मे॑ जिन्वतम् । इष॒ग्॒o संध॑त्त॒o तां मे॑ जिन्वतम् । ऊर्ज॒ग्॒o संध॑त्त॒o तां मे॑ जिन्वतम् । र॒यिग्ं संध॑त्त॒o तां मे॑ जिन्वतम् । पुष्टि॒ग्॒o संध॑त्त॒o तां मे॑ जिन्वतम् । प्र॒जाग्ं संध॑त्त॒o तां मे॑ जिन्वतम् । प॒शून्थ्संध॑त्त॒o तान्मे॑ जिन्वतम् । स्तु॒तो॑ऽसि॒ जन॑धाः । दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑यन्तु ॥ सु॒वीरा”: प्र॒जाः प्र॑ज॒नय॒न्परी॑हि ॥ हरिः ओम् ॥
ओं नमो॒ ब्रह्म॑णे धा॒रण॑o मे अ॒स्त्वनि॑राकरणं धा॒रयि॑ता भूयास॒o
कर्ण॑योश्श्रु॒तं मा च्यो”ढ्व॒o ममा॒मुष्य॒ ओम् ॥ ऋ॒तं तप॑स्स॒त्यं तप॑श्श्रु॒तं तप॑श्शा॒न्तं तपो॒ दम॒स्तप॒श्शम॒स्तपो॒ दान॒o तपो॒ यज्ञ॒o तपो॒ भूर्भुव॒स्सुव॒र्ब्रह्मै॒तदुपा”स्यै॒तत्तप॑: ॥ यथा॑ वृ॒क्षस्य॑ स॒oपुष्पि॑तस्य दू॒राद्ग॒न्धो वा”त्ये॒वं पुण्य॑स्य क॒र्मणो॑ दू॒राद्ग॒न्धो वा॑ति॒ यथा॑ऽसिधा॒रां क॒र्तेऽव॑हितामव॒क्रामे॒ यद्युवे॒ युवे॒ हवा॑ वि॒ह्वयि॑ष्यामि क॒र्तं प॑तिष्या॒मीत्ये॒वम॒मृता॑दा॒त्मान॑o जु॒गुप्से”त् ॥
ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑o करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै” । ओं शान्ति॒श्शान्ति॒श्शान्ति॑: ॥
अ॒हं वृ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व । ऊ॒र्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑ण॒ग्॒o सव॑र्चसम् । सुमेधा अ॑मृतो॒क्षितः । इति त्रिशङ्कोर्वेदा॑नुव॒चनम् ॥
ऋग्वेदाध्ययनम् –
ओं अ॒ग्निमी”ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज”म् ।
होता”रं रत्न॒धात॑मम् ॥
सामवेदाध्ययनम् –
ओं अग्न॒ आ या”हि वी॒तये” गृणा॒नो ह॒व्यदा”तये । नि होता” सथ्सि ब॒र्हिषि॑ ॥
अथर्ववेदाध्ययनम् –
ओं शं नो” दे॒वीर॒भिष्ट॑य॒ आपो” भवन्तु पी॒तये” ।
शं योर॒भिस्र॑वन्तु नः ॥
॥ अथ वेदांग पठनम् ॥
शीक्षाध्ययनम् –
अथ शीक्षां प्रवक्ष्यामि पाणिनीय मतं यथा ।
शास्त्रानुपूर्वं तद्विद्याद्यथोक्तं लोकवेदयोः ॥
व्याकरणाध्ययनम् –
(अष्टाध्यायी पारायणम्)
वाक्यकारं वररुचिं भाष्यकारं पतंजलिम् ।
पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
अ इ उ ण् । ऋ ळु* क् । ए ओ ङ् । ऐ औ च् । ह य व र ट् । ल ण् । ञ म ङ ण न म् । झ भ ञ् । घ ढ ध ष् । ज ब ग ड द श् । ख फ छ ठ थ च ट त व् । क प य् । श ष स र् । ह ल् ॥
वृद्धिरादैच् । अदेङ्गुणः । इको गुणवृद्धी ।
छंदोऽध्ययनम् –
(पिंगळछंदः सूत्रम् 1।1)
मयरसतजभनलग सम्मितम्
भ्रमति वाङ्मयं जगति यस्य ।
स जयति पिङ्गळनागः
शिवप्रसादाद्विशुद्धमतिः ॥
निरुक्ताध्ययनम् –
(निघंटुशास्त्रम् 1)
गौः, ग्मा, ज्मा, क्ष्मा, क्षा, क्षौमा, क्षोणी, क्षितिः, अवनिः, उर्वी, पृथ्वी, मही, अदितिः, रिपः, इळा, निर्ऋतिः, मा, भूमिः, पूषा, गातुः, गोत्रा – इत्येकविंशतिः पृथ्वीनामानि ॥
(यस्कप्रणीत निरुक्तम् 1।1)
ओं समाम्नायः समाम्नातः स व्याख्यातव्यस्तमिमं समाम्नायं निघंटव इत्याचक्षते ।
ज्यौतिषम् –
पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् ।
दिनर्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥ 1
प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम् ।
कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः ॥ 2
पूर्वमीमांसा –
(भारद्वाज कर्म मीमांसा)
अथातो धर्मजिज्ञासा । धारको धर्मः ।
(जैमिनीय कर्म मीमांसा)
अथातो धर्मजिज्ञासा । चोदना लक्षणोऽर्थो धर्मः ।
उत्तर (ब्रह्म) मीमांसा –
अथातो ब्रह्मजिज्ञासा । जन्माद्यस्य यतः । शास्त्रयोनित्वात् । तत्तु समन्वयात् ॥
न्यायदर्शनम् –
(गौतम न्यायसूत्रम्)
प्रमाण प्रमेय संशय प्रयोजन दृष्टान्त सिद्धान्तावयव तर्क निर्णय वाद जल्प वितण्डा हेत्वाभास च्छल जति निग्रह स्थानानां तत्त्वज्ञानान्निश्श्रेयसाधिगमः ॥
वैशेषिक दर्शनम् –
अथातो धर्मं व्याख्यास्यामः । यतोऽभ्युदय निश्श्रेयस सिद्धिः स धर्मः ॥
योग दर्शनम् –
अथ योगानुशासनम् । योगश्चित्तवृत्ति निरोधः ॥
सांख्य दर्शनम् –
अथ त्रिविधदुःखात्यन्त निवृत्तिरत्यन्त पुरुषार्थः ।
न दृष्टाद्दृष्टात्तत्सिद्धिर्निवृत्तेऽप्यनुवृत्ति दर्शनात् ॥
स्मृतिः –
(मनुस्मृति)
मनुमेकाग्रमासीनमभिगम्य महर्षयः ।
प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥
रामायणम् –
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् ॥
महाभारतम् –
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
भगवद्गीता –
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पांडवाश्चैव किमकुर्वत संजय ॥
भागवतम् –
जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट्
तेने ब्रह्म हृदाय आदिकवये मुह्यंति यत्सूरयः ।
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा
धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥
तंत्रम् –
आचारमूलाः जातिः स्यादाचारः शास्त्रमूलकः ।
वेदवाक्यं शास्त्रमूलं वेदः साधकमूलकः ॥
साधकश्च क्रियामूलः क्रियापि फलमूलिका ।
फलमूलं सुखं चैव सुखमानंदमूलकम् ॥
॥ अथ परिधानीय मंत्रम् ॥
(निम्नलिखित मंत्र को तीन बार पढ़ें)
ओं नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नम॑: पृथि॒व्यै नम॒ ओष॑धीभ्यः ।
नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥
ओं शान्ति॒श्शान्ति॒श्शान्ति॑: । एवं त्रिः । ओं ओं ओम् ॥
(निम्नलिखित मंत्र को पढ़कर हाथ को पानी से शुद्ध करें)
ओं भूर्भुव॒स्सुव॑स्स॒त्यं तप॑श्श्र॒द्धाया”o जुहोमि ।
वृष्टि॑रसि॒ वृश्च॑मे पा॒प्मान॒मृता”त्स॒त्यमुपा॑गाम् ॥
त्रिराचामेत् ॥
॥ नित्य तर्पण विधिः ॥
प्राणानायम्य ॥
पुनः संकल्पं –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वर प्रीत्यर्थं ब्रह्मयज्ञांग देवर्षिपितॄनुद्दिश्य देवर्षिपितृ प्रीत्यर्थं देवर्षिपितृ तर्पणं करिष्ये ॥
प्रार्थन –
ब्रह्मादयः सुराः सर्वे ऋषयः सनकादयः ।
आगच्छंतु महाभागा ब्रह्मांडोदरवर्तिनः ॥
1। देव तर्पणं –
(यज्ञोपवीत को सव्य धारण करके, देवतीर्थ के लिए एक-एक तर्पण दें)
ब्रह्मादयो ये देवाः तान् देवाग्स्तर्पयामि ।
सर्वान् देवाग्स्तर्पयामि ।
सर्वान् देवगणाग्स्तर्पयामि ।
सर्वाः देवपत्नीस्तर्पयामि ।
सर्वान् देवपुत्राग्स्तर्पयामि ।
सर्वान् देवपौत्राग्स्तर्पयामि ।
भूर्देवाग्स्तर्पयामि ।
भुवर्देवाग्स्तर्पयामि ।
सुवर्देवाग्स्तर्पयामि ।
भूर्भुवस्सुवर्देवाग्स्तर्पयामि ।
2। ऋषि तर्पणं –
(यज्ञोपवीत को निवीत धारण करके, ऋषितीर्थ के लिए दो-दो तर्पण दें)
कृष्णद्वैपायनादयो ये ऋषयः तान् ऋषीग्स्तर्पयामि तर्पयामि ।
सर्वान् ऋषीग्स्तर्पयामि तर्पयामि ।
सर्वान् ऋषिगणाग्स्तर्पयामि तर्पयामि ।
सर्वाः ऋषिपत्नीस्तर्पयामि तर्पयामि ।
सर्वान् ऋषिपुत्राग्स्तर्पयामि तर्पयामि ।
सर्वान् ऋषिपौत्राग्स्तर्पयामि तर्पयामि ।
भूरृषीग्स्तर्पयामि तर्पयामि ।
भुवरृषीग्स्तर्पयामि तर्पयामि ।
सुवरृषीग्स्तर्पयामि तर्पयामि ।
भूर्भुवस्सुवरृषीग् स्तर्पयामि तर्पयामि ।
कंडर्षि तर्पणं –
प्रजापतिं कांडर्षिं तर्पयामि तर्पयामि ।
सोमं कांडर्षिं तर्पयामि तर्पयामि ।
अग्निं कांडर्षिं तर्पयामि तर्पयामि ।
विश्वान् देवान् कांडर्षीग्स्तर्पयामि तर्पयामि ।
साग्ंहितीर्देवता उपनिषदस्तर्पयामि तर्पयामि ।
याज्ञिकीर्देवता उपनिषदस्तर्पयामि तर्पयामि ।
वारुणीर्देवता उपनिषदस्तर्पयामि तर्पयामि ।
ब्रह्माणग्ग् स्वयंभुवं तर्पयामि तर्पयामि ।
सदसस्पतिं तर्पयामि तर्पयामि ।
3। पितृ तर्पणं –
(यज्ञोपवीत को प्राचीनावीत धारण करके, पितृतृथ के लिए तीन-तीन तर्पण दें)
सोमः पितृमान् यमोऽंगिरस्वान् अग्निष्वात्ताग्निः कव्यवाहनादयो ये पितरः तान् पितॄग्स्तर्पयामि तर्पयामि तर्पयामि ।
सर्वान् पितॄग्स्तर्पयामि तर्पयामि तर्पयामि ।
सर्वान् पितृगणाग्स्तर्पयामि तर्पयामि तर्पयामि ।
सर्वाः पितृपत्नीस्तर्पयामि तर्पयामि तर्पयामि ।
सर्वान् पितृपुत्राग्स्तर्पयामि तर्पयामि तर्पयामि ।
सर्वान् पितृपौत्राग्स्तर्पयामि तर्पयामि तर्पयामि ।
भूः पितॄग्स्तर्पयामि तर्पयामि तर्पयामि ।
भुवः पितॄग्स्तर्पयामि तर्पयामि तर्पयामि ।
सुवः पितॄग्स्तर्पयामि तर्पयामि तर्पयामि ।
भूर्भुवस्सुवः पितॄग्स्तर्पयामि तर्पयामि तर्पयामि ।
अनेन ब्रह्मयज्ञेन देवर्षिपितृ तर्पणेन च भगवान् सर्वात्मकः श्रीपरमेश्वरस्सुप्रीणातु ॥
आब्रह्मलोकादाशेषादालोकालोकपर्वतात् ।
येसंति ब्राह्मणादेवास्तेभ्यो नित्यं नमो नमः ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits