हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
त्रिसुपर्ण सूक्तम्
ओं
ब्रह्म॑मेतु॒
माम्
।
मधु॑मेतु॒
माम्
।
ब्रह्म॑मे॒व
मधु॑मेतु॒
माम्
।
यास्ते॑
सोम
प्र॒जा
व॒थ्सोऽभि॒
सो
अ॒हम्
।
दुष्ष्व॑प्न॒हंदु॑रुष्व॒ह
।
यास्ते॑
सोम
प्रा॒णाग्ंस्तांजु॑होमि
।
त्रिसु॑पर्ण॒मया॑चितं
ब्राह्म॒णाय॑
दद्यात्
।
ब्र॒ह्म॒ह॒त्यां-वाँ
ए॒ते
घ्नं॑ति
।
ये
ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒
पठं॑ति
।
ते
सोमं॒
प्राप्नु॑वंति
।
आ॒स॒ह॒स्रात्पं॒क्तिं
पुनं॑ति
।
ओम्
॥
1
ब्रह्म॑
मे॒धया᳚
।
मधु॑
मे॒धया᳚
।
ब्रह्म॑मे॒व
मधु॑
मे॒धया᳚
।
अ॒द्या
नो॑
देव
सवितः
प्र॒जाव॑त्सावी॒स्सौभ॑गम्
।
परा॑
दु॒ष्वप्नि॑यग्ं
सुव
।
विश्वा॑नि
देव
सवितर्दुरि॒तानि॒
परा॑सुव
।
यद्भ॒द्रं
तन्म॒
आसु॑व
।
मधु॒
वाता॑
ऋताय॒ते
मधु॑
क्षरंति॒
सिंध॑वः
।
माध्वी᳚र्नस्सं॒त्वोष॑धीः
।
मधु॒
नक्त॑मु॒तोषसि॒
मधु॑म॒त्पार्थि॑व॒ग्ं॒
रजः॑
।
मधु॒
द्यौर॑स्तु
नः
पि॒ता
।
मधु॑
मान्नो॒
वन॒स्पति॒र्मधु॑माग्ं
अस्तु॒
सूर्यः॑
।
माध्वी॒र्गावो॑
भवंतु
नः
।
य
इ॒मं
त्रिसु॑पर्ण॒मया॑चितं
ब्राह्म॒णाय॑
दद्यात्
।
भ्रू॒ण॒ह॒त्यां-वाँ
ए॒ते
घ्नं॑ति
।
ये
ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒
पठं॑ति
।
ते
सोमं॒
प्राप्नु॑वंति
।
आ॒स॒ह॒स्रात्पं॒क्तिं
पुनं॑ति
।
ओम्
॥
2
ब्रह्म॑
मे॒धवा᳚
।
मधु॑
मे॒धवा᳚
।
ब्रह्म॑मे॒व
मधु॑
मे॒धवा᳚
।
ब्र॒ह्मा
दे॒वानां᳚
पद॒वीः
क॑वी॒नामृषि॒र्विप्रा॑णां
महि॒षो
मृ॒गाणा᳚म्
।
श्ये॒नो
गृद्ध्रा॑णा॒ग्ं॒
स्वधि॑ति॒र्वना॑ना॒ग्ं॒
सोमः॑
प॒वित्र॒मत्ये॑ति॒
रेभन्न्॑
।
ह॒ग्ं॒सश्शु॑चि॒षद्वसु॑रंतरिक्ष॒सद्धोता॑
वेदि॒षदति॑थिर्दुरोण॒सत्
।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा
गो॒जा
ऋ॑त॒जा
अ॑द्रि॒जा
ऋ॒तं
बृ॒हत्
।
ऋ॒चे
त्वा॑
रु॒चे
त्वा॒
समित्स्र॑वंति
स॒रितो॒
न
धेनाः᳚
।
अं॒तर्हृ॒दा
मन॑सा
पू॒यमा॑नाः
।
घृ॒तस्य॒
धारा॑
अ॒भिचा॑कशीमि
।
हि॒र॒ण्ययो॑
वेत॒सो
मद्ध्य॑
आसाम्
।
तस्मिं᳚थ्सुप॒र्णो
म॑धु॒कृत्
कु॑ला॒यी
भज॑न्नास्ते॒
मधु॑
दे॒वता᳚भ्यः
।
तस्या॑सते॒
हर॑यस्स॒प्त
तीरे᳚
स्व॒धां
दुहा॑ना
अ॒मृत॑स्य॒
धारा᳚म्
।
य
इ॒दं
त्रिसु॑पर्ण॒मया॑चितं
ब्राह्म॒णाय॑
दद्यात्
।
वी॒र॒ह॒त्यां-वाँ
ए॒ते
घ्नंति
।
ये
ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒
पठं॑ति
।
ते
सोमं॒
प्राप्नु॑वंति
।
आ॒स॒ह॒स्रात्पं॒क्तिं
पुनं॑ति
।
ओम्
॥
3
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥