हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
तैत्तिरीय उपनिषद् - शीक्षावल्ली
(तै.
आ.
7-1-1)
ओं
श्री
गुरुभ्यो
नमः
।
हरिः
ओम्
॥
ओं
श-न्नो॑
मि॒त्रश्शं-वँरु॑णः
।
श-न्नो॑
भवत्वर्य॒मा
।
श-न्न॒
इन्द्रो॒
बृह॒स्पतिः॑
।
श-न्नो॒
विष्णु॑रुरुक्र॒मः
।
नमो॒
ब्रह्म॑णे
।
नम॑स्ते
वायो
।
त्वमे॒व
प्र॒त्यक्ष॒-म्ब्रह्मा॑सि
।
त्वमे॒व
प्र॒त्यक्ष॒-म्ब्रह्म॑
वदिष्यामि
।
ऋ॒तं-वँ॑दिष्यामि
।
स॒त्यं-वँ॑दिष्यामि
।
तन्माम॑वतु
।
तद्व॒क्तार॑मवतु
।
अव॑तु॒
माम्
।
अव॑तु
व॒क्तारम्᳚
।
ओं
शान्ति॒-श्शान्ति॒-श्शान्तिः॑
॥
1
॥
इति
प्रथमो-ऽनुवाकः
॥
शीक्षां-व्याँ᳚ख्यास्या॒मः
।
वर्ण॒स्स्वरः
।
मात्रा॒
बलम्
।
साम॑
सन्ता॒नः
।
इत्युक्तश्शी᳚क्षाध्या॒यः
॥
1
॥
इति
द्वितीयो-ऽनुवाकः
॥
स॒ह
नौ॒
यशः
।
स॒ह
नौ
ब्र॑ह्मव॒र्चसम्
।
अथातस्सग्ंहिताया
उपनिषदं-व्याँ᳚ख्यास्या॒मः
।
पञ्चस्वधिक॑रणे॒षु
।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज॑मध्या॒त्मम्
।
ता
महासग्ंहिता
इ॑त्याच॒क्षते
।
अथा॑धिलो॒कम्
।
पृथिवी
पू᳚र्वरू॒पम्
।
द्यौरुत्त॑ररू॒पम्
।
आका॑शस्स॒न्धिः
॥
1
॥
वायु॑स्सन्धा॒नम्
।
इत्य॑धिलो॒कम्
।
अथा॑धिज्यौ॒तिषम्
।
अग्निः
पू᳚र्वरू॒पम्
।
आदित्य
उत्त॑ररू॒पम्
।
आ॑पस्स॒न्धिः
।
वैद्युत॑स्सन्धा॒नम्
।
इत्य॑धिज्यौ॒तिषम्
।
अथा॑धिवि॒द्यम्
।
आचार्यः
पू᳚र्वरू॒पम्
॥
2
॥
अन्तेवास्युत्त॑ररू॒पम्
।
वि॑द्या
स॒न्धिः
।
प्रवचनग्ं॑
सन्धा॒नम्
।
इत्य॑धिवि॒द्यम्
।
अथाधि॒प्रजम्
।
माता
पू᳚र्वरू॒पम्
।
पितोत्त॑ररू॒पम्
।
प्र॑जा
स॒न्धिः
।
प्रजननग्ं॑
सन्धा॒नम्
।
इत्यधि॒प्रजम्
॥
3
॥
अथाध्या॒त्मम्
।
अधरा
हनुः
पू᳚र्वरू॒पम्
।
उत्तरा
हनुरुत्त॑ररू॒पम्
।
वाक्स॒न्धिः
।
जिह्वा॑
सन्धा॒नम्
।
इत्यध्या॒त्मम्
।
इतीमा
म॑हास॒ग्ं॒हिताः
।
य
एवमेता
महासग्ंहिता
व्याख्या॑ता
वे॒द
।
सन्धीयते
प्रज॑या
प॒शुभिः
।
ब्रह्मवर्चसेनान्नाद्येन
सुवर्ग्येण॑
लोके॒न
॥
4
॥
इति
तृतीयो-ऽनुवाकः
॥
यश्छन्द॑सामृष॒भो
वि॒श्वरू॑पः
।
छन्दो॒भ्यो-ऽध्य॒मृता᳚थ्स-म्ब॒भूव॑
।
स
मेन्द्रो॑
मे॒धया᳚
स्पृणोतु
।
अ॒मृत॑स्य
देव॒
धार॑णो
भूयासम्
।
शरी॑र-म्मे॒
विच॑र्षणम्
।
जि॒ह्वा
मे॒
मधु॑मत्तमा
।
कर्णा᳚भ्या-म्भूरि॒
विश्रु॑वम्
।
ब्रह्म॑णः
को॒शो॑-ऽसि
मे॒धया-ऽपि॑हितः
।
श्रु॒त-म्मे॑
गोपाय
।
आ॒वह॑न्ती
वितन्वा॒ना
॥
1
॥
कु॒र्वा॒णा
चीर॑मा॒त्मनः॑
।
वासाग्ं॑सि॒
मम॒
गाव॑श्च
।
अ॒न्न॒पा॒ने
च॑
सर्व॒दा
।
ततो॑
मे॒
श्रिय॒माव॑ह
।
लो॒म॒शा-म्प॒शुभि॑स्स॒ह
स्वाहा᳚
।
आमा॑
यन्तु
ब्रह्मचा॒रिण॒स्स्वाहा᳚
।
विमा॑-ऽऽयन्तु
ब्रह्मचा॒रिण॒स्स्वाहा᳚
।
प्रमा॑-ऽऽयन्तु
ब्रह्मचा॒रिण॒स्स्वाहा᳚
।
दमा॑यन्तु
ब्रह्मचा॒रिण॒स्स्वाहा᳚
।
शमा॑यन्तु
ब्रह्मचा॒रिण॒स्स्वाहा᳚
॥
2
॥
यशो॒
जने॑-ऽसानि॒
स्वाहा᳚
।
श्रेया॒न्वस्य॑सो-ऽसानि॒
स्वाहा᳚
।
त-न्त्वा॑
भग॒
प्रवि॑शानि॒
स्वाहा᳚
।
स
मा॑
भग॒
प्रवि॑श॒
स्वाहा᳚
।
तस्मिन्᳚-थ्स॒हस्र॑शाखे
।
निभ॑गा॒ह-न्त्वयि॑
मृजे॒
स्वाहा᳚
।
यथा-ऽऽपः॒
प्रव॑ता॒-ऽऽयन्ति॑
।
यथा॒
मासा॑
अहर्ज॒रम्
।
ए॒व-म्मा-म्ब्र॑ह्मचा॒रिणः॑
।
धात॒राय॑न्तु
स॒र्वत॒स्स्वाहा᳚
।
प्र॒ति॒वे॒शो॑-ऽसि॒
प्रमा॑भाहि॒
प्रमा॑पद्यस्व
॥
3
॥
इति
चतुर्थो-ऽनुवाकः
॥
भूर्भुव॒स्सुव॒रिति॒
वा
ए॒तास्ति॒स्रो
व्याहृ॑तयः
।
तासा॑मुहस्मै॒
ता-ञ्च॑तु॒र्थीम्
।
माहा॑चमस्यः॒
प्रवे॑दयते
।
मह॒
इति॑
।
तद्ब्रह्म॑
।
स
आ॒त्मा
।
अङ्गा᳚न्य॒न्या
दे॒वताः᳚
।
भूरिति॒
वा
अ॒यं-लोँ॒कः
।
भुव॒
इत्य॒न्तरि॑क्षम्
।
सुव॒रित्य॒सौ
लो॒कः
॥
1
॥
मह॒
इत्या॑दि॒त्यः
।
आ॒दि॒त्येन॒
वाव
सर्वे॑
लो॒का
मही॑यन्ते
।
भूरिति॒
वा
अ॒ग्निः
।
भुव॒
इति॑
वा॒युः
।
सुव॒रित्या॑दि॒त्यः
।
मह॒
इति॑
च॒न्द्रमाः᳚
।
च॒न्द्रम॑सा॒
वाव
सर्वा॑णि॒
ज्योतीग्ं॑षि॒
मही॑यन्ते
।
भूरिति॒
वा
ऋचः॑
।
भुव॒
इति॒
सामा॑नि
।
सुव॒रिति॒
यजूग्ं॑षि
॥
2
॥
मह॒
इति॒
ब्रह्म॑
।
ब्रह्म॑णा॒
वाव
सर्वे॑
वे॒दा
मही॑यन्ते
।
भूरिति॒
वै
प्रा॒णः
।
भुव॒
इत्य॑पा॒नः
।
सुव॒रिति॑
व्या॒नः
।
मह॒
इत्यन्नम्᳚
।
अन्ने॑न॒
वाव
सर्वे᳚
प्रा॒णा
मही॑यन्ते
।
ता
वा
ए॒ताश्चत॑स्रश्चतु॒र्धा
।
चत॑स्रश्चतस्रो॒
व्याहृ॑तयः
।
ता
यो
वेद॑
।
स
वे॑द॒
ब्रह्म॑
।
सर्वे᳚-ऽस्मै
दे॒वा
ब॒लिमाव॑हन्ति
॥
3
॥
इति
पञ्चमो-ऽनुवाकः
॥
स
य
ए॒षो᳚-ऽन्तरहृ॑दय
आका॒शः
।
तस्मि॑न्न॒य-म्पुरु॑षो
मनो॒मयः॑
।
अमृ॑तो
हिर॒ण्मयः॑
।
अन्त॑रेण॒
तालु॑के
।
य
ए॒षस्तन॑
इवाव॒लम्ब॑ते
।
से᳚न्द्रयो॒निः
।
यत्रा॒सौ
के॑शा॒न्तो
वि॒वर्त॑ते
।
व्य॒पोह्य॑
शीर्षकपा॒ले
।
भूरित्य॒ग्नौ
प्रति॑तिष्ठति
।
भुव॒
इति॑
वा॒यौ
॥
1
॥
सुव॒रित्या॑दि॒त्ये
।
मह॒
इति॒
ब्रह्म॑णि
।
आ॒प्नोति॒
स्वारा᳚ज्यम्
।
आ॒प्नोति॒
मन॑स॒स्पतिम्᳚
।
वाक्प॑ति॒श्चक्षु॑ष्पतिः
।
श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः
।
ए॒तत्ततो॑
भवति
।
आ॒का॒शश॑रीर॒-म्ब्रह्म॑
।
स॒त्यात्म॑
प्रा॒णारा॑म॒-म्मन॑
आनन्दम्
।
शान्ति॑समृद्धम॒मृतम्᳚
।
इति॑
प्राचीन
यो॒ग्योपा᳚स्स्व
॥
2
॥
इति
षष्ठो-ऽनुवाकः
॥
पृ॒थि॒व्य॑न्तरि॑क्ष॒-न्द्यौर्दिशो॑-ऽवान्तरदि॒शाः
।
अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमा॒
नक्ष॑त्राणि
।
आप॒
ओष॑धयो॒
वन॒स्पत॑य
आका॒श
आ॒त्मा
।
इत्य॑धिभू॒तम्
।
अथाध्या॒त्मम्
।
प्रा॒णो
व्या॒नो॑-ऽपा॒न
उ॑दा॒नस्स॑मा॒नः
।
चक्षु॒श्श्रोत्र॒-म्मनो॒
वाक्त्वक्
।
चर्म॑मा॒ग्ं॒सग्ग्
स्नावास्थि॑
म॒ज्जा
।
ए॒तद॑धिवि॒धाय॒
ऋषि॒रवो॑चत्
।
पाङ्क्तं॒-वाँ
इ॒दग्ं
सर्वम्᳚
।
पाङ्क्ते॑नै॒व
पाङ्क्तग्ग्॑
स्पृणो॒तीति॑
॥
1
॥
इति
सप्तमो-ऽनुवाकः
॥
ओमिति॒
ब्रह्म॑
।
ओमिती॒दग्ं
सर्वम्᳚
।
ओमित्ये॒तद॑नुकृति
ह
स्म॒
वा
अ॒प्यो
श्रा॑व॒येत्याश्रा॑वयन्ति
।
ओमिति॒
सामा॑नि
गायन्ति
।
ओग्ं
शोमिति॑
श॒स्त्राणि॑
शग्ंसन्ति
।
ओमित्य॑ध्व॒र्युः
प्र॑तिग॒र-म्प्रति॑गृणाति
।
ओमिति॒
ब्रह्मा॒
प्रसौ॑ति
।
ओमित्य॑ग्निहो॒त्रमनु॑जानाति
।
ओमिति॑
ब्राह्म॒णः
प्र॑व॒क्ष्यन्ना॑ह॒
ब्रह्मोपा᳚प्नवा॒नीति॑
।
ब्रह्मै॒वोपा᳚प्नोति
॥
1
॥
इत्यष्टमो-ऽनुवाकः
॥
ऋत-ञ्च
स्वाध्यायप्रव॑चने॒
च
।
सत्य-ञ्च
स्वाध्यायप्रव॑चने॒
च
।
तपश्च
स्वाध्यायप्रव॑चने॒
च
।
दमश्च
स्वाध्यायप्रव॑चने॒
च
।
शमश्च
स्वाध्यायप्रव॑चने॒
च
।
अग्नयश्च
स्वाध्यायप्रव॑चने॒
च
।
अग्निहोत्र-ञ्च
स्वाध्यायप्रव॑चने॒
च
।
अतिथयश्च
स्वाध्यायप्रव॑चने॒
च
।
मानुष-ञ्च
स्वाध्यायप्रव॑चने॒
च
।
प्रजा
च
स्वाध्यायप्रव॑चने॒
च
।
प्रजनश्च
स्वाध्यायप्रव॑चने॒
च
।
प्रजातिश्च
स्वाध्यायप्रव॑चने॒
च
।
सत्यमिति
सत्यवचा॑
राथी॒तरः
।
तप
इति
तपोनित्यः
पौ॑रुशि॒ष्टिः
।
स्वाध्यायप्रवचने
एवेति
नाको॑
मौद्ग॒ल्यः
।
तद्धि
तप॑स्तद्धि॒
तपः
॥
1
॥
इति
नवमो-ऽनुवाकः
॥
अ॒हं-वृँ॒क्षस्य॒
रेरि॑वा
।
की॒र्तिः
पृ॒ष्ठ-ङ्गि॒रेरि॑व
।
ऊ॒र्ध्वप॑वित्रो
वा॒जिनी॑व
स्व॒मृत॑मस्मि
।
द्रवि॑ण॒ग्ं॒
सव॑र्चसम्
।
सुमेधा
अ॑मृतो॒क्षितः
।
इति
त्रिशङ्कोर्वेदा॑नुव॒चनम्
॥
1
॥
इति
दशमो-ऽनुवाकः
॥
वेदमनूच्याचार्यो-ऽन्तेवासिनम॑नुशा॒स्ति
।
सत्यं॒-वँद
।
धर्म॒-ञ्चर
।
स्वाध्याया᳚न्मा
प्र॒मदः
।
आचार्याय
प्रिय-न्धनमाहृत्य
प्रजातन्तु-म्मा
व्य॑वच्छे॒त्सीः
।
सत्यान्न
प्रम॑दित॒व्यम्
।
धर्मान्न
प्रम॑दित॒व्यम्
।
कुशलान्न
प्रम॑दित॒व्यम्
।
भूत्यै
न
प्रम॑दित॒व्यम्
।
स्वाध्यायप्रवचनाभ्या-न्न
प्रम॑दित॒व्यम्
॥
1
॥
देवपितृकार्याभ्या-न्न
प्रम॑दित॒व्यम्
।
मातृ॑देवो॒
भव
।
पितृ॑देवो॒
भव
।
आचार्य॑देवो॒
भव
।
अतिथि॑देवो॒
भव
।
यान्यनवद्यानि॑
कर्मा॒णि
।
तानि
सेवि॑तव्या॒नि
।
नो
इ॑तरा॒णि
।
यान्यस्माकग्ं
सुच॑रिता॒नि
।
तानि
त्वयो॑पास्या॒नि
॥
2
॥
नो
इ॑तरा॒णि
।
ये
के
चारुमच्छ्रेयाग्ं॑सो
ब्रा॒ह्मणाः
।
तेषा-न्त्वया-ऽऽसने
न
प्रश्व॑सित॒व्यम्
।
श्रद्ध॑या
दे॒यम्
।
अश्रद्ध॑या-ऽदे॒यम्
।
श्रि॑या
दे॒यम्
।
ह्रि॑या
दे॒यम्
।
भि॑या
दे॒यम्
।
संविँ॑दा
दे॒यम्
।
अथ
यदि
ते
कर्मविचिकिथ्सा
वा
वृत्तविचिकि॑थ्सा
वा॒
स्यात्
॥
3
॥
ये
तत्र
ब्राह्मणा᳚स्सम्म॒र्शिनः
।
युक्ता॑
आयु॒क्ताः
।
अलूक्षा॑
धर्म॑कामा॒स्स्युः
।
यथा
ते॑
तत्र॑
वर्ते॒रन्न्
।
तथा
तत्र॑
वर्ते॒थाः
।
अथाभ्या᳚ख्या॒तेषु
।
ये
तत्र
ब्राह्मणा᳚स्सम्म॒र्शिनः
।
युक्ता॑
आयु॒क्ताः
।
अलूक्षा॑
धर्मकामा॒स्स्युः
।
यथा
ते॑
तेषु॑
वर्ते॒रन्न्
।
तथा
तेषु॑
वर्ते॒थाः
।
एष॑
आदे॒शः
।
एष
उ॑पदे॒शः
।
एषा
वे॑दोप॒निषत्
।
एतद॑नुशा॒सनम्
।
एवमुपा॑सित॒व्यम्
।
एवमु
चैत॑दुपा॒स्यम्
॥
4
॥
इत्येकादश-ऽनुवाकः
॥
श-न्नो॑
मि॒त्रश्शं-वँरु॑णः
।
श-न्नो॑
भवत्वर्य॒मा
।
श-न्न॒
इन्द्रो॒
बृह॒स्पतिः॑
।
श-न्नो॒
विष्णु॑रुरुक्र॒मः
।
नमो॒
ब्रह्म॑णे
।
नम॑स्ते
वायो
।
त्वमे॒व
प्र॒त्यक्ष॒-म्ब्रह्मा॑सि
।
त्वामे॒व
प्र॒त्यक्ष॒-म्ब्रह्मावा॑दिषम्
।
ऋ॒तम॑वादिषम्
।
स॒त्यम॑वादिषम्
।
तन्मामा॑वीत्
।
तद्व॒क्तार॑मावीत्
।
आवी॒न्माम्
।
आवी᳚द्व॒क्तारम्᳚
।
ओं
शान्ति॒-श्शान्ति॒-श्शान्तिः॑
॥
1
॥
इति
द्वादशो-ऽनुवाकः
॥ ॥
हरिः॑
ओम्
॥ ॥
श्री
कृष्णार्पणमस्तु
॥