हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
तैत्तिरीय उपनिषद् - आनन्दवल्ली
(तै.
आ.
8-1-1)
ओं
स॒ह
ना॑ववतु
।
स॒ह
नौ॑
भुनक्तु
।
स॒ह
वी॒र्य॑-ङ्करवावहै
।
ते॒ज॒स्विना॒वधी॑तमस्तु॒
मा
वि॑द्विषा॒वहै᳚
।
ओं
शान्ति॒-श्शान्ति॒-श्शान्तिः॑
॥
ब्र॒ह्म॒विदा᳚प्नोति॒
परम्᳚
।
तदे॒षा-ऽभ्यु॑क्ता
।
स॒त्य-ञ्ज्ञा॒नम॑न॒न्त-म्ब्रह्म॑
।
यो
वेद॒
निहि॑त॒-ङ्गुहा॑या-म्पर॒मे
व्यो॑मन्न्
।
सो᳚-ऽश्नु॒ते
सर्वा॒न्कामा᳚न्थ्स॒ह
।
ब्रह्म॑णा
विप॒श्चितेति॑
॥
तस्मा॒द्वा
ए॒तस्मा॑दा॒त्मन॑
आका॒शस्सम्भू॑तः
।
आ॒का॒शाद्वा॒युः
।
वा॒योर॒ग्निः
।
अ॒ग्नेरापः॑
।
अ॒द्भ्यः
पृ॑थि॒वी
।
पृ॒थि॒व्या
ओष॑धयः
।
ओष॑धी॒भ्यो-ऽन्नम्᳚
।
अन्ना॒त्पुरु॑षः
।
स
वा
एष
पुरुषो-ऽन्न॑रस॒मयः
।
तस्येद॑मेव॒
शिरः
।
अय-न्दक्षि॑णः
प॒क्षः
।
अयमुत्त॑रः
प॒क्षः
।
अयमात्मा᳚
।
इद-म्पुच्छ॑-म्प्रति॒ष्ठा
।
तदप्येष
श्लो॑को
भ॒वति
॥
1
॥
इति
प्रथमो-ऽनुवाकः
॥
अन्ना॒द्वै
प्र॒जाः
प्र॒जाय॑न्ते
।
याः
काश्च॑
पृथि॒वीग्
श्रि॒ताः
।
अथो॒
अन्ने॑नै॒व
जी॑वन्ति
।
अथै॑न॒दपि॑
यन्त्यन्त॒तः
।
अन्न॒ग्ं॒
हि
भू॒ताना॒-ञ्ज्येष्ठम्᳚
।
तस्मा᳚थ्सर्वौष॒धमु॑च्यते
।
सर्वं॒-वैँ
ते-ऽन्न॑माप्नुवन्ति
।
ये-ऽन्न॒-म्ब्रह्मो॒पास॑ते
।
अन्न॒ग्ं॒
हि
भू॒ताना॒-ञ्ज्येष्ठम्᳚
।
तस्मा᳚थ्सर्वौष॒धमु॑च्यते
।
अन्ना᳚द्भू॒तानि॒
जाय॑न्ते
।
जाता॒न्यन्ने॑न
वर्धन्ते
।
अद्यते-ऽत्ति
च॑
भूता॒नि
।
तस्मादन्न-न्तदुच्य॑त
इ॒ति
।
तस्माद्वा
एतस्मादन्न॑रस॒मयात्
।
अन्यो-ऽन्तर
आत्मा᳚
प्राण॒मयः
।
तेनै॑ष
पू॒र्णः
।
स
वा
एष
पुरुषवि॑ध
ए॒व
।
तस्य
पुरु॑षवि॒धताम्
।
अन्वय॑-म्पुरुष॒विधः
।
तस्य
प्राण॑
एव॒
शिरः
।
व्यानो
दक्षि॑णः
प॒क्षः
।
अपान
उत्त॑रः
प॒क्षः
।
आका॑श
आ॒त्मा
।
पृथिवी
पुच्छ॑-म्प्रति॒ष्ठा
।
तदप्येष
श्लो॑को
भ॒वति
॥
1
॥
इति
द्वितीयो-ऽनुवाकः
॥
प्रा॒ण-न्दे॒वा
अनु॒प्राण॑न्ति
।
म॒नु॒ष्याः᳚
प॒शव॑श्च॒
ये
।
प्रा॒णो
हि
भू॒ताना॒मायुः॑
।
तस्मा᳚थ्सर्वायु॒षमु॑च्यते
।
सर्व॑मे॒व
त॒
आयु॑र्यन्ति
।
ये
प्रा॒ण-म्ब्रह्मो॒पास॑ते
।
प्राणो
हि
भूता॑नामा॒युः
।
तस्माथ्सर्वायुषमुच्य॑त
इ॒ति
।
तस्यैष
एव
शारी॑र
आ॒त्मा
।
यः॑
पूर्व॒स्य
।
तस्माद्वा
एतस्मा᳚त्प्राण॒मयात्
।
अन्यो-ऽन्तर
आत्मा॑
मनो॒मयः
।
तेनै॑ष
पू॒र्णः
।
स
वा
एष
पुरुषवि॑ध
ए॒व
।
तस्य
पुरु॑षवि॒धताम्
।
अन्वय॑-म्पुरुष॒विधः
।
तस्य
यजु॑रेव॒
शिरः
।
ऋग्दक्षि॑णः
प॒क्षः
।
सामोत्त॑रः
प॒क्षः
।
आदे॑श
आ॒त्मा
।
अथर्वाङ्गिरसः
पुच्छ॑-म्प्रति॒ष्ठा
।
तदप्येष
श्लो॑को
भ॒वति
॥
1
॥
इति
तृतीयो-ऽनुवाकः
॥
यतो॒
वाचो॒
निव॑र्तन्ते
।
अप्रा᳚प्य॒
मन॑सा
स॒ह
।
आनन्द-म्ब्रह्म॑णो
वि॒द्वान्
।
न
बिभेति
कदा॑चने॒ति
।
तस्यैष
एव
शारी॑र
आ॒त्मा
।
यः॑
पूर्व॒स्य
।
तस्माद्वा
एतस्मा᳚न्मनो॒मयात्
।
अन्यो-ऽन्तर
आत्मा
वि॑ज्ञान॒मयः
।
तेनै॑ष
पू॒र्णः
।
स
वा
एष
पुरुषवि॑ध
ए॒व
।
तस्य
पुरु॑षवि॒धताम्
।
अन्वय॑-म्पुरुष॒विधः
।
तस्य
श्र॑द्धैव॒
शिरः
।
ऋत-न्दक्षि॑णः
प॒क्षः
।
सत्यमुत्त॑रः
प॒क्षः
।
यो॑ग
आ॒त्मा
।
महः
पुच्छ॑-म्प्रति॒ष्ठा
।
तदप्येष
श्लो॑को
भ॒वति
॥
1
॥
इति
चतुर्थो-ऽनुवाकः
॥
वि॒ज्ञानं॑-यँ॒ज्ञ-न्त॑नुते
।
कर्मा॑णि
तनु॒ते-ऽपि॑
च
।
वि॒ज्ञान॑-न्दे॒वास्सर्वे᳚
।
ब्रह्म॒
ज्येष्ठ॒मुपा॑सते
।
वि॒ज्ञान॒-म्ब्रह्म॒
चेद्वेद॑
।
तस्मा॒च्चेन्न
प्र॒माद्य॑ति
।
श॒रीरे॑
पाप्म॑नो
हि॒त्वा
।
सर्वान्कामान्थ्समश्नु॑त
इ॒ति
।
तस्यैष
एव
शारी॑र
आ॒त्मा
।
यः॑
पूर्व॒स्य
।
तस्माद्वा
एतस्माद्वि॑ज्ञान॒मयात्
।
अन्यो-ऽन्तर
आत्मा॑-ऽऽनन्द॒मयः
।
तेनै॑ष
पू॒र्णः
।
स
वा
एष
पुरुषवि॑ध
ए॒व
।
तस्य
पुरु॑षवि॒धताम्
।
अन्वय॑-म्पुरुष॒विधः
।
तस्य
प्रिय॑मेव॒
शिरः
।
मोदो
दक्षि॑णः
प॒क्षः
।
प्रमोद
उत्त॑रः
प॒क्षः
।
आन॑न्द
आ॒त्मा
।
ब्रह्म
पुच्छ॑-म्प्रति॒ष्ठा
।
तदप्येष
श्लो॑को
भ॒वति
॥
1
॥
इति
पञ्चमो-ऽनुवाकः
॥
अस॑न्ने॒व
स॑
भवति
।
अस॒द्ब्रह्मेति॒
वेद॒
चेत्
।
अस्ति
ब्रह्मेति॑
चेद्वे॒द
।
सन्तमेन-न्ततो
वि॑दुरि॒ति
।
तस्यैष
एव
शारी॑र
आ॒त्मा
।
यः॑
पूर्व॒स्य
।
अथातो॑-ऽनुप्र॒श्नाः
।
उ॒तावि॒द्वान॒मुं-लोँ॒क-म्प्रेत्य॑
।
कश्च॒न
ग॑च्छ॒ती(3)
।
आहो॑
वि॒द्वान॒मुं-लोँ॒क-म्प्रेत्य॑
।
कश्चि॒थ्सम॑श्नु॒ता(3)
उ॒
।
सो॑-ऽकामयत
।
ब॒हुस्या॒-म्प्रजा॑ये॒येति॑
।
स
तपो॑-ऽतप्यत
।
स
तप॑स्त॒प्त्वा
।
इ॒दग्ं
सर्व॑मसृजत
।
यदि॒द-ङ्किञ्च॑
।
तथ्सृ॒ष्ट्वा
।
तदे॒वानु॒प्रावि॑शत्
।
तद॑नु
प्र॒विश्य॑
।
सच्च॒
त्यच्चा॑भवत्
।
नि॒रुक्त॒-ञ्चानि॑रुक्त-ञ्च
।
नि॒लय॑न॒-ञ्चानि॑लयन-ञ्च
।
वि॒ज्ञान॒-ञ्चावि॑ज्ञान-ञ्च
।
सत्य-ञ्चानृत-ञ्च
स॑त्यम॒भवत्
।
यदि॑द-ङ्कि॒ञ्च
।
तत्सत्यमि॑त्याच॒क्षते
।
तदप्येष
श्लो॑को
भ॒वति
॥
1
॥
इति
षष्ठो-ऽनुवाकः
॥
अस॒द्वा
इ॒दमग्र॑
आसीत्
।
ततो॒
वै
सद॑जायत
।
तदात्मानग्ग्
स्वय॑मकु॒रुत
।
तस्मात्तथ्सुकृतमुच्य॑त
इ॒ति
।
यद्वै॑
तथ्सु॒कृतम्
।
र॑सो
वै॒
सः
।
रसग्ग्
ह्येवायं-लँब्ध्वा-ऽऽन॑न्दी
भ॒वति
।
को
ह्येवान्या᳚त्कः
प्रा॒ण्यात्
।
यदेष
आकाश
आन॑न्दो
न॒
स्यात्
।
एष
ह्येवा-ऽऽन॑न्दया॒ति
।
य॒दा
ह्ये॑वैष॒
एतस्मिन्नदृश्ये-ऽनात्म्ये-ऽनिरुक्ते-ऽनिलयने-ऽभयं
प्रति॑ष्ठां-विँ॒न्दते
।
अथ
सो-ऽभय-ङ्ग॑तो
भ॒वति
।
य॒दा
ह्ये॑वैष॒
एतस्मिन्नुदरमन्त॑र-ङ्कु॒रुते
।
अथ
तस्य
भ॑य-म्भ॒वति
।
तत्त्वेव
भयं-विँदुषो-ऽम॑न्वान॒स्य
।
तदप्येष
श्लो॑को
भ॒वति
॥
1
॥
इति
सप्तमो-ऽनुवाकः
॥
भी॒षा-ऽस्मा॒द्वातः॑
पवते
।
भी॒षोदे॑ति॒
सूर्यः॑
।
भीषा-ऽस्मादग्नि॑श्चेन्द्र॒श्च
।
मृत्युर्धावति
पञ्च॑म
इ॒ति
।
सैषा-ऽऽनन्दस्य
मीमाग्ं॑सा
भ॒वति
।
युवा
स्याथ्साधुयु॑वा-ऽध्या॒यकः
।
आशिष्ठो
दृढिष्ठो॑
बलि॒ष्ठः
।
तस्येय-म्पृथिवी
सर्वा
वित्तस्य॑
पूर्णा॒
स्यात्
।
स
एको
मानुष॑
आन॒न्दः
।
ते
ये
शत-म्मानुषा॑
आन॒न्दाः
॥
1
॥
स
एको
मनुष्यगन्धर्वाणा॑मान॒न्दः
।
श्रोत्रियस्य
चाकाम॑हत॒स्य
।
ते
ये
शत-म्मनुष्यगन्धर्वाणा॑मान॒न्दाः
।
स
एको
देवगन्धर्वाणा॑मान॒न्दः
।
श्रोत्रियस्य
चाकाम॑हत॒स्य
।
ते
ये
शत-न्देवगन्धर्वाणा॑मान॒न्दाः
।
स
एकः
पितृणा-ञ्चिरलोकलोकाना॑मान॒न्दः
।
श्रोत्रियस्य
चाकाम॑हत॒स्य
।
ते
ये
शत-म्पितृणा-ञ्चिरलोकलोकाना॑मान॒न्दाः
।
स
एक
आजानजाना-न्देवाना॑मान॒न्दः
॥
2
॥
श्रोत्रियस्य
चाकाम॑हत॒स्य
।
ते
ये
शतमाजानजाना-न्देवाना॑मान॒न्दाः
।
स
एकः
कर्मदेवाना-न्देवाना॑मान॒न्दः
।
ये
कर्मणा
देवान॑पिय॒न्ति
।
श्रोत्रियस्य
चाकाम॑हत॒स्य
।
ते
ये
शत-ङ्कर्मदेवाना-न्देवाना॑मान॒न्दाः
।
स
एको
देवाना॑मान॒न्दः
।
श्रोत्रियस्य
चाकाम॑हत॒स्य
।
ते
ये
शत-न्देवाना॑मान॒न्दाः
।
स
एक
इन्द्र॑स्या-ऽऽन॒न्दः
॥
3
॥
श्रोत्रियस्य
चाकाम॑हत॒स्य
।
ते
ये
शतमिन्द्र॑स्या-ऽऽन॒न्दाः
।
स
एको
बृहस्पते॑रान॒न्दः
।
श्रोत्रियस्य
चाकाम॑हत॒स्य
।
ते
ये
शत-म्बृहस्पते॑रान॒न्दाः
।
स
एकः
प्रजापते॑रान॒न्दः
।
श्रोत्रियस्य
चाकाम॑हत॒स्य
।
ते
ये
शत-म्प्रजापते॑रान॒न्दाः
।
स
एको
ब्रह्मण॑
आन॒न्दः
।
श्रोत्रियस्य
चाकाम॑हत॒स्य
॥
4
॥
स
यश्चा॑य-म्पु॒रुषे
।
यश्चासा॑वादि॒त्ये
।
स
एकः॑
।
स
य॑
एवं॒विँत्
।
अस्माल्लो॑कात्प्रे॒त्य
।
एतमन्नमयमात्मानमुप॑सङ्क्रा॒मति
।
एत-म्प्राणमयमात्मानमुप॑सङ्क्रा॒मति
।
एत-म्मनोमयमात्मानमुप॑सङ्क्रा॒मति
।
एतं-विँज्ञानमयमात्मानमुप॑सङ्क्रा॒मति
।
एतमानन्दमयमात्मानमुप॑सङ्क्रा॒मति
।
तदप्येष
श्लो॑को
भ॒वति
॥
5
॥
इत्यष्टमो-ऽनुवाकः
॥
यतो॒
वाचो॒
निव॑र्तन्ते
।
अप्रा᳚प्य॒
मन॑सा
स॒ह
।
आनन्द-म्ब्रह्म॑णो
वि॒द्वान्
।
न
बिभेति
कुत॑श्चने॒ति
।
एतग्ं
ह
वाव॑
न
त॒पति
।
किमहग्ं
साधु॑
नाक॒रवम्
।
किमह-म्पापमकर॑वमि॒ति
।
स
य
एवं-विँद्वानेते
आत्मा॑नग्ग्
स्पृ॒णुते
।
उ॒भे
ह्ये॑वैष॒
एते
आत्मा॑नग्ग्
स्पृ॒णुते
।
य
ए॒वं-वेँद॑
।
इत्यु॑प॒निष॑त्
॥
1
॥
इति
नवमो-ऽनुवाकः
॥
ओं
स॒ह
ना॑ववतु
।
स॒ह
नौ॑
भुनक्तु
।
स॒ह
वी॒र्य॑-ङ्करवावहै
।
ते॒ज॒स्विना॒वधी॑तमस्तु॒
मा
वि॑द्विषा॒वहै᳚
।
ओं
शान्ति॒-श्शान्ति॒-श्शान्तिः॑
॥ ॥
हरिः॑
ओम्
॥ ॥
श्री
कृष्णार्पणमस्तु
॥