Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

स्वस्तिवाचनम्

नो᳚ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धे अस॒न्नप्रा᳚युवो रक्षि॒तारो᳚ दि॒वेदि॑वे दे॒वानां᳚ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वानां᳚ रा॒तिर॒भि नो॒ नि व॑र्तताम् दे॒वानां᳚ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्रति॑रन्तु जी॒वसे॑ तान्पूर्व॑या नि॒विदा᳚ हूमहे व॒यं भगं᳚ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध᳚म् अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् तन्नो॒ वातो᳚ मयो॒भुवा᳚तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः तद् ग्रावा᳚णः सोम॒सुतो᳚ मयो॒भुव॒स्तद॑श्विना श‍ृणुतं धिष्ण्या यु॒वम् तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियंजि॒न्वमव॑से हूमहे व॒यम् पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ स्व॒स्ति न॒ इन्द्रो᳚ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे᳚दाः स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा᳚नो वि॒दथे᳚षु॒ जग्म॑यः अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे᳚ नो दे॒वा अव॒सा ग॑मन्नि॒ह भ॒द्रं कर्णे᳚भिः श‍ृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः स्थि॒रैरङ्गै᳚स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा᳚ नश्च॒क्रा ज॒रसं᳚ त॒नूना᳚म् पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव᳚न्ति॒ मा नो᳚ म॒ध्या री᳚रिष॒तायु॒र्गन्तोः᳚ अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता पि॒ता पु॒त्रः विश्वे᳚ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् (शुक्ल यजुर्वेद 25 14-23) द्यौः शान्ति॑र॒न्तरि॑क्ष॒ꣳ शान्तिः॑ पृथि॒वी शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्तिः॑ वन॒स्पत॑यः॒ शान्ति॒र्विश्वे᳚दे॒वाः शान्ति॒र्ब्रह्म॒ शान्तिः॒ सर्व॒ꣳ शान्तिः॒ शान्ति॑रे॒व शान्तिः॒ सा मा॒ शान्ति॑रेधि (शुक्ल यजुर्वेद 36 17) यतो᳚यतः स॒मीह॑से॒ ततो᳚ नो॒ऽभ॑यङ्कुरु शन्नः॑ कुरुप्र॒जाभ्योऽभ॑यन्नः प॒शुभ्यः॑ सुशान्तिर्भवतु (शुक्ल यजुर्वेद 36 22) गणानां᳚ त्वा ग॒णप॑तिꣳ हवामहे प्रि॒याणां᳚ त्वा प्रि॒यप॑तिꣳ हवामहे निधि॒नान्तवा᳚निधि॒पति॑ꣳ हवामहे वसोमम आहम॑जानिगर्भ॒धमात्वम॑जासिगर्भ॒धम् अम्बे॒ऽम्बि॒केऽम्बा᳚लिके॒नमा᳚नयति॒कश्च॒न सस॑स्त्यश्व॒कः सुभ॑द्रिकाङ्काम्पीलवा॒सिनी᳚म्