हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्रद्धा सूक्तम् - कृष्ण यजुर्वेद
श्र॒द्धया॒ऽग्निः
समि॑ध्यते
।
श्र॒द्धया॑
विंदते
ह॒विः
।
श्र॒द्धां
भग॑स्य
मू॒र्धनि॑
।
वच॒साऽऽवे॑दयामसि
।
प्रि॒यग्ग्
श्र॑द्धे॒
दद॑तः
।
प्रि॒यग्ग्
श्र॑द्धे॒
दिदा॑सतः
।
प्रि॒यं
भो॒जेषु॒
यज्व॑सु
॥
इ॒दं
म॑
उदि॒तं
कृ॑धि
।
यथा॑
दे॒वा
असु॑रेषु
।
श्र॒द्धामु॒ग्रेषु॑
चक्रि॒रे
।
ए॒वं
भो॒जेषु॒
यज्व॑सु
।
अ॒स्माक॑मुदि॒तं
कृ॑धि
।
श्र॒द्धां
दे॑वा॒
यज॑मानाः
।
वा॒युगो॑पा॒
उपा॑सते
।
श्र॒द्धाग्ं
हृ॑द॒य्य॑याऽऽकू᳚त्या
।
श्र॒द्धया॑
हूयते
ह॒विः
।
श्र॒द्धां
प्रा॒तर्ह॑वामहे
॥
श्र॒द्धां
म॒ध्यंदि॑नं॒
परि॑
।
श्र॒द्धाग्ं
सूर्य॑स्य
नि॒मृचि॑
।
श्रद्धे॒
श्रद्धा॑पये॒ह
मा᳚
।
श्र॒द्धा
दे॒वानधि॑वस्ते
।
श्र॒द्धा
विश्व॑मि॒दं
जग॑त्
।
श्र॒द्धां
काम॑स्य
मा॒तरम्᳚
।
ह॒विषा॑
वर्धयामसि
।