हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
ओषधी सूक्तम् - कृष्ण यजुर्वेद
या
जा॒ता
ओष॑धयो
दे॒वेभ्य॑स्त्रियु॒गं
पु॒रा
।
मन्दा॑मि
ब॒भ्रूणा॑म॒हग्ं
श॒तं
धामा॑नि
स॒प्त
च॑
॥
1
श॒तं
वो॑
अंब॒
धामा॑नि
स॒हस्र॑मु॒त
वो॒
रुह॑:
।
अथा॑
शतक्रत्वो
यू॒यमि॒मं
मे॑
अग॒दं
कृ॑त
॥
2
पुष्पा॑वतीः
प्र॒सूव॑तीः
फ॒लिनी॑रफ॒ला
उ॒त
।
अश्वा॑
इव
स॒जित्व॑रीर्वी॒रुधः॑
पारयि॒ष्णव॑:
॥
3
ओष॑धी॒रिति॑
मातर॒स्तद्वो॑
देवी॒रुप॑
ब्रुवे
।
रपाग्ं॑सि
विघ्न॒तीरि॑त॒
रप॑श्चा॒तय॑मानाः
॥
4
अ॒श्व॒त्थे
वो॑
नि॒षद॑नं
प॒र्णे
वो॑
वस॒तिः
कृ॒ता
।
गो॒भाज॒
इत्किला॑सथ॒
यत्स॒नव॑थ॒
पूरु॑षम्
॥
5
यद॒हं
वा॒जय॑न्नि॒मा
ओष॑धी॒र्हस्त॑
आद॒धे
।
आ॒त्मा
यक्ष्म॑स्य
नश्यति
पु॒रा
जी॑व॒गृभो॑
यथा
॥
6
यदोष॑धयः
स॒ङ्गच्छ॑न्ते॒
राजा॑न॒:
समि॑ताविव
।
विप्र॒:
स
उ॑च्यते
भि॒षग्र॑क्षो॒हाऽमी॑व॒चात॑नः
॥
7
निष्कृ॑ति॒र्नाम॑
वो
मा॒ताऽथा॑
यू॒यग्ं
स्थ॒
सङ्कृ॑तीः
।
स॒राः
प॑त॒त्रिणी᳚:
स्थन॒
यदा॒मय॑ति॒
निष्कृ॑त
॥
8
अ॒न्या
वो॑
अ॒न्याम॑वत्व॒न्याऽन्यस्या॒
उपा॑वत
।
ताः
सर्वा॒
ओष॑धयः
संविदा॒ना
इ॒दं
मे॒
प्राव॑ता॒
वच॑:
॥
9
उच्छुष्मा॒
ओष॑धीनां॒
गावो॑
गो॒ष्ठादि॑वेरते
।
धनग्ं॑
सनि॒ष्यन्ती॑नामा॒त्मानं॒
तव॑
पूरुष
॥
10
अति॒
विश्वा᳚:
परि॒ष्ठाः
स्ते॒न
इ॑व
व्र॒जम॑क्रमुः
।
ओष॑धय॒:
प्राचु॑च्यवु॒र्यत्किं
च॑
त॒नुवा॒ग्ं॒
रप॑:
॥
11
यास्त॑
आत॒स्थुरा॒त्मानं॒
या
आ॑विवि॒शुः
परु॑:
परुः
।
तास्ते॒
यक्ष्मं॒
वि
बा॑धन्तामु॒ग्रो
म॑ध्यम॒शीरि॑व
॥
12
सा॒कं
य॑क्ष्म॒
प्र
प॑त
श्ये॒नेन॑
किकिदी॒विना᳚
।
सा॒कं
वात॑स्य॒
ध्राज्या॑
सा॒कं
न॑श्य
नि॒हाक॑या
॥
13
अ॒श्वा॒व॒तीग्ं
सो॑मव॒तीमू॒र्जय॑न्ती॒
मुदो॑जसम्
।
आ
वि॑त्सि॒
सर्वा॒
ओष॑धीर॒स्मा
अ॑रि॒ष्टता॑तये
॥
14
याः
फ॒लिनी॒र्या
अ॑फ॒ला
अ॑पु॒ष्पा
याश्च॑
पु॒ष्पिणी᳚:
।
बृह॒स्पति॑
प्रसूता॒स्ता
नो॑
मुञ्च॒न्त्वग्ंह॑सः
॥
15
या
ओष॑धय॒:
सोम॑राज्ञी॒:
प्रवि॑ष्टाः
पृथि॒वीमनु॑
।
तासां॒
त्वम॑स्युत्त॒मा
प्रणो॑
जी॒वात॑वे
सुव
॥
16
अ॒व॒पत॑न्तीरवदन्दि॒व
ओष॑धय॒:
परि॑
।
यं
जी॒वम॒श्नवा॑महै॒
न
स
रि॑ष्याति॒
पूरु॑षः
॥
17
याश्चे॒दमु॑पशृ॒ण्वन्ति॒
याश्च॑
दू॒रं
परा॑गताः
।
इ॒ह
सं॒गत्य॒
ताः
सर्वा॑
अ॒स्मै
सं
द॑त्त
भेष॒जम्
॥
18
मा
वो॑
रिषत्खनि॒ता
यस्मै॑
चा॒हं
खना॑मि
वः
।
द्वि॒पच्चतु॑ष्पद॒स्माक॒ग्ं॒
सर्व॑म॒स्त्वना॑तुरम्
॥
19
ओष॑धय॒:
सं
व॑दन्ते॒
सोमे॑न
स॒ह
राज्ञा᳚
।
यस्मै॑
क॒रोति॑
ब्राह्म॒णस्तग्ं
रा॑जन्
पारयामसि
॥
20
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
।