Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

नक्षत्र सूक्तम्

नक्षत्रं - कृत्तिका, देवता - अग्निः ओं अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः नक्ष॑त्रं दे॒वमिं॑द्रि॒यम् इ॒दमा॑सां-विँचक्ष॒णम् ह॒विरा॒सं जु॑होतन यस्य॒ भांति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ कृत्ति॑काभि-र॒भिसं॒​वँसा॑नः अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु 1 नक्षत्रं - रोहिणी, देवता - प्रजापतिः प्र॒जाप॑ते रोहि॒णीवे॑तु॒ पत्नी᳚ वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु यथा॒ जीवे॑म श॒रद॒स्सवी॑राः रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्ता᳚त् विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना प्र॒जाप॑तिग्ं ह॒विषा॑ व॒र्धयं॑ती प्रि॒या दे॒वाना॒-मुप॑यातु य॒ज्ञम् 2 नक्षत्रं - मृगशीर्​षः, देवता - सोमः सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आगन्न्॑ शि॒वं नक्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ आ॒प्याय॑मानो बहु॒धा जने॑षु रेतः॑ प्र॒जां-यँज॑माने दधातु यत्ते॒ नक्ष॑त्रं मृगशी॒र्॒षमस्ति॑ प्रि॒यग्ं रा॑जन् प्रि॒यत॑मं प्रि॒याणा᳚म् तस्मै॑ ते सोम ह॒विषा॑ विधेम शन्न॑ एधि द्वि॒पदे॒ शंचतु॑ष्पदे 3 नक्षत्रं - आर्द्रा, देवता - रुद्रः आ॒र्द्रया॑ रु॒द्रः प्रथ॑मा एति श्रेष्ठो॑ दे॒वानां॒ पति॑रघ्नि॒याना᳚म् नक्ष॑त्रमस्य ह॒विषा॑ विधेम मा नः॑ प्र॒जाग्ं री॑रिष॒न्मोत वी॒रान् हे॒ती रु॒द्रस्य॒ परि॑णो वृणक्तु आ॒र्द्रा नक्ष॑त्रं जुषताग्ं ह॒विर्नः॑ प्र॒मुं॒चमा॑नौ दुरि॒तानि॒ विश्वा᳚ अपा॒घशग्ं॑ सन्नु-दता॒मरा॑तिम् 4 नक्षत्रं - पुनर्वसु, देवता - अदितिः पुन॑र्नो दे॒व्यदि॑ति-स्पृणोतु पुन॑र्वसू नः॒ पुन॒रेतां᳚-यँ॒ज्ञम् पुन॑र्नो दे॒वा अ॒भियं॑तु॒ सर्वे᳚ पुनः॑ पुनर्वो ह॒विषा॑ यजामः ए॒वा दे॒व्य-दि॑तिरन॒र्वा विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा पुन॑र्वसू ह॒विषा॑ व॒र्धयं॑ती प्रि॒यं दे॒वाना॒-मप्ये॑तु॒ पाथः॑ 5 नक्षत्रं - पुष्यः, देवता - बृहस्पतिः बृह॒स्पतिः॑ प्रथ॒मंजाय॑मानः ति॒ष्यं॑ नक्ष॑त्रम॒भि संब॑भूव श्रेष्ठो॑ दे॒वानां॒ पृत॑नासु जि॒ष्णुः दि॒शोऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु ति॒ष्यः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ बृह॒स्पति॑र्नः॒ परि॑पातु प॒श्चात् बाधे॑ तां॒द्वेषो॒ अभ॑यं कृणुताम् सु॒वीर्य॑स्य॒ पत॑यस्याम 6 नक्षत्रं -आश्रेषं, देवता - सर्पाः इ॒दग्ं स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्ट᳚म् आ॒श्रे॒षा येषा॑मनु॒यंति॒ चेतः॑ ये अं॒तरि॑क्षं पृथि॒वीं-क्षि॒यंति॑ तेन॑ स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः ये दिवं॑ दे॒वी-मनु॑सं॒चरं॑ति येषा॑माश्रे॒षा अ॑नु॒यंति॒ काम᳚म् तेभ्य॑-स्स॒र्पेभ्यो॒ मधु॑-मज्जुहोमि 7 नक्षत्रं - मघा, देवता - पितरः उप॑हूताः पि॒तरो॒ ये म॒घासु॑ मनो॑जवस-स्सु॒कृत॑-स्सुकृ॒त्याः ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मिष्ठाः स्व॒धाभि॑र्य॒ज्ञं प्रय॑तं जुषंताम् ये अ॑ग्निद॒ग्धा येऽन॑ग्नि-दग्धाः ये॑ऽमुल्लो॒कं पि॒तरः॑, क्षि॒यंति॑ याग्ग्​श्च॑ वि॒द्मयाग्ं उ॑ च॒ प्र॑वि॒द्म म॒घासु॑ य॒ज्ञग्ं सुकृ॑तं जुषंताम् 8 नक्षत्रं - पूर्वफल्गुनी, देवता - अर्यमा गवां॒ पतिः॒ फल्गु॑नी-नामसि॒ त्वम् तद॑र्यमन्वरुण मित्र॒ चारु॑ तं त्वा॑ व॒यग्ं स॑नि॒तारग्ं॑ सनी॒नाम् जी॒वा जीवं॑त॒मुप॒ सं​विँ॑शेम येने॒मा विश्वा॒ भुव॑नानि॒ संजि॑ता यस्य॑ दे॒वा अ॑नुसं॒​यंँति॒ चेतः॑ अ॒र्य॒मा राजा॒ऽजर॒स्तु वि॑ष्मान् फल्गु॑नीना-मृष॒भो रो॑रवीति 9 नक्षत्रं - उत्तर फल्गुनी, देवता - भगः श्रेष्ठो॑ दे॒वानां᳚ भगवो भगासि तत्त्वा॑ विदुः॒ फल्गु॑नी॒-स्तस्य॑ वित्तात् अ॒स्मभ्यं॑-क्ष॒त्रम॒जरग्ं॑ सु॒वीर्य᳚म् गोम॒दश्व॑-व॒दुप॒सन्नु॑-दे॒ह भगो॑ह दा॒ता भग॒ इत्प्र॑दा॒ता भगो॑ दे॒वीः फल्गु॑नी॒-रावि॑वेश भग॒स्येत्तं प्र॑स॒वं ग॑मेम यत्र॑ दे॒वै-स्स॑ध॒मादं॑ मदेम 10 नक्षत्रं - हस्तः, देवता - सविता आया॑तु दे॒व-स्स॑वि॒तो प॑यातु हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न वह॒न॒, हस्तग्ं॑ सु॒भगं॑-विँद्म॒नाप॑सम् प्र॒यच्छं॑तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑ हस्तः॒ प्रय॑च्छ त्व॒मृतं॒-वँसी॑यः दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् दा॒तार॑-म॒द्य स॑वि॒ता वि॑देय यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् 11 नक्षत्रं - चित्रा, देवता - त्वष्टा त्वष्टा॒ नक्ष॑त्र-म॒भ्ये॑ति चि॒त्राम् सु॒भग्ं स॑सं​युँव॒तिग्ं रोच॑मानाम् नि॒वे॒शय॑-न्न॒मृता॒-न्मर्त्याग्ग्॑श्च रू॒पाणि॑ पि॒ग्ं॒शन् भुव॑नानि॒ विश्वा᳚ तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्य᳚म् तन्नः॑ प्र॒जां-वीँ॒रव॑तीग्ं सनोतु गोभि॑र्नो॒ अश्वै॒-स्सम॑नक्तु य॒ज्ञम् 12 नक्षत्रं - स्वाती, देवता - वायुः वा॒यु-र्नक्ष॑त्र-म॒भ्ये॑ति॒ निष्ट्या᳚म् ति॒ग्मशृं॑गो वृष॒भो रोरु॑वाणः स॒मी॒रय॒न् भुव॑ना मात॒रिश्वा᳚ अप॒ द्वेषाग्ं॑सि नुदता॒मरा॑तीः तन्नो॑ वा॒यस्तदु॒ निष्ट्या॑ शृणोतु तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्य᳚म् तन्नो॑ दे॒वासो॒ अनु॑ जानंतु॒ काम᳚म् यथा॒ तरे॑म दुरि॒तानि॒ विश्वा᳚ 13 नक्षत्रं - विशाखा, देवता - इंद्राग्नी दू॒रम॒स्मच्छत्र॑वो यंतु भी॒ताः तदिं॑द्रा॒ग्नी कृ॑णुतां॒ तद्विशा॑खे तन्नो॑ दे॒वा अनु॑मदंतु य॒ज्ञम् प॒श्चात् पु॒रस्ता॒-दभ॑यन्नो अस्तु नक्ष॑त्राणा॒-मधि॑पत्नी॒ विशा॑खे श्रेष्ठा॑-विंद्रा॒ग्नी भुव॑नस्य गो॒पौ विषू॑च॒-श्शत्रू॑नप॒बाध॑मानौ अप॒क्षुध॑-न्नुदता॒मरा॑तिम् 14 पौर्णमासि पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता᳚त् उन्म॑ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय तस्यां᳚ दे॒वा अधि॑ सं॒-वँसं॑तः उ॒त्त॒मे नाक॑ इ॒ह मा॑दयंताम् पृ॒थ्वी सु॒वर्चा॑ युव॒ति-स्स॒जोषाः᳚ पौ॒र्ण॒मा॒स्युद॑गा॒-च्छोभ॑माना आ॒प्या॒ययं॑ती दुरि॒तानि॒ विश्वा᳚ उ॒रुं दुहां॒-यँज॑मानाय य॒ज्ञम् 15 नक्षत्रं - अनूराधा, देवता - मित्रः ऋ॒द्ध्यास्म॑ ह॒व्यै-र्नम॑सोप॒-सद्य॑ मि॒त्रं दे॒वं मि॑त्र॒धेय॑न्नो अस्तु अ॒नू॒रा॒धान्, ह॒विषा॑ व॒र्धयं॑तः श॒तं जी॑वेम श॒रद॒-स्सवी॑राः चि॒त्रं-नक्ष॑त्र॒-मुद॑गा-त्पु॒रस्ता᳚त् अ॒नू॒रा॒धा स॒ इति॒ यद्वदं॑ति तन्मि॒त्र ए॑ति प॒थिभि॑-र्देव॒यानैः᳚ हि॒र॒ण्ययै॒-र्वित॑तै-रं॒तरि॑क्षे 16 नक्षत्रं - ज्येष्ठा, देवता - इंद्रः इंद्रो᳚ ज्ये॒ष्ठा मनु॒ नक्ष॑त्रमेति यस्मि॑न् वृ॒त्रं-वृँ॑त्र॒ तूर्ये॑ त॒तार॑ तस्मि॑न्व॒य-म॒मृतं॒ दुहा॑नाः क्षुधं॑तरेम॒ दुरि॑तिं॒ दुरि॑ष्टिम् पु॒रं॒द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे᳚ अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ इंद्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना उ॒रुं कृ॑णोतु॒ यज॑मानाय लो॒कम् 17 नक्षत्रं - मूलं, देवता - प्रजापतिः मूलं॑ प्र॒जां-वीँ॒रव॑तीं-विँदेय परा᳚च्येतु॒ निर्​ऋ॑तिः परा॒चा गोभि॒-र्नक्ष॑त्रं प॒शुभि॒-स्सम॑क्तम् अह॑-र्भूया॒-द्यज॑मानाय॒ मह्य᳚म् अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु मूलं॒ नक्ष॑त्र॒मिति॒ यद्वदं॑ति परा॑चीं-वाँ॒चा निर्​ऋ॑तिं नुदामि शि॒वं प्र॒जायै॑ शि॒वम॑स्तु॒ मह्य᳚म् 18 नक्षत्रं - पूर्वाषाढा, देवता - आपः या दि॒व्या आपः॒ पय॑सा संबभू॒वुः या अं॒तरि॑क्ष उ॒त पार्थि॑वी॒र्याः यासा॑मषा॒ढा अ॑नु॒यंति॒ काम᳚म् ता न॒ आपः॒ शग्ग्​ स्यो॒ना भ॑वंतु याश्च॒ कूप्या॒ याश्च॑ ना॒द्या᳚-स्समु॒द्रियाः᳚ याश्च॑ वैशं॒तीरु॒त प्रा॑स॒चीर्याः यासा॑मषा॒ढा मधु॑ भ॒क्षयं॑ति ता न॒ आपः॒ शग्ग्​ स्यो॒ना भ॑वंतु 19 नक्षत्रं - उत्तराषाढा, देवता - विश्वेदेवः तन्नो॒ विश्वे॒ उप॑ शृण्वंतु दे॒वाः तद॑षा॒ढा अ॒भिसं​यँं॑तु य॒ज्ञम् तन्नक्ष॑त्रं प्रथतां प॒शुभ्यः॑ कृ॒षि-र्वृ॒ष्टि-र्यज॑मानाय कल्पताम् शु॒भ्राः क॒न्या॑ युव॒तय॑-स्सु॒पेश॑सः क॒र्म॒कृत॑-स्सु॒कृतो॑ वी॒र्या॑वतीः विश्वा᳚न् दे॒वान्, ह॒विषा॑ व॒र्धयं॑तीः अ॒षा॒ढाः काम॒ मुप॑यांतु य॒ज्ञम् 20 नक्षत्रं - अभिजित्, देवता - ब्रह्मा यस्मि॒न् ब्रह्मा॒भ्यज॑य॒थ् सर्व॑मे॒तत् अ॒मुंच॑ लो॒क मि॒दमू॑च॒ सर्व᳚म् तन्नो॒ नक्ष॑त्र-मभि॒जि-द्वि॒जित्य॑ श्रियं॑ दधा॒त्व-हृ॑णीयमानम् उ॒भौ लो॒कौ ब्रह्म॑णा॒ संजि॑ते॒मौ तन्नो॒ नक्ष॑त्र-मभि॒जि-द्विच॑ष्टाम् तस्मि॑न् व॒यं पृत॑ना॒ स्संज॑येम तन्नो॑ दे॒वासो॒ अनु॑जानंतु॒ काम᳚म् 21 नक्षत्रं - श्रवणं, देवता - विष्णुः शृ॒ण्वंति॑ श्रो॒णा-म॒मृत॑स्य गो॒पाम् पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् म॒हीं दे॒वीं-विँष्णु॑पत्नी मजू॒र्याम् प्र॒तीची॑ मेनाग्ं ह॒विषा॑ यजामः त्रे॒धा विष्णु॑-रुरुगा॒यो विच॑क्रमे म॒हीं दिवं॑ पृथि॒वी-मं॒तरि॑क्षम् तच्छ्रो॒णैति॒ श्रव॑-इ॒च्छमा॑ना पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती 22 नक्षत्रं - श्रविष्टा, देवता - वसवः अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ चत॑स्रो दे॒वी र॒जराः॒ श्रवि॑ष्ठाः ते य॒ज्ञं पां᳚तु॒ रज॑सः प॒रस्ता᳚त् सं॒​वँ॒थ्स॒रीण॑-म॒मृतग्ग्॑ स्व॒स्ति य॒ज्ञं नः॑ पांतु॒ वस॑वः पु॒रस्ता᳚त् द॒क्षि॒ण॒तो॑-ऽभियं॑तु॒ श्रवि॑ष्ठाः पुण्य॒न्नक्ष॑त्रम॒भि सं​विँ॑शाम मा नो॒ अरा॑ति-र॒घश॒ग्ं॒ सागन्न्॑ 23 नक्षत्रं - शतभिषक्, देवता - वरुणः क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः नक्ष॑त्राणाग्ं श॒तभि॑ष॒ग् वसि॑ष्ठः तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायः॑ श॒तग्ं स॒हस्रा॑ भेष॒जानि॑ धत्तः य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु तन्नो॒ विश्वे॑ अ॒भिसं​यँं॑तु दे॒वाः तन्नो॒ नक्ष॑त्रग्ं श॒तभि॑षग् जुषा॒णम् दी॒र्घमायुः॒ प्रति॑र-द्भेष॒जानि॑ 24 नक्षत्रं - पूर्वप्रोष्ठपदा, देवता - अजयेकपादः अ॒ज एक॑पा॒- दुद॑गात् पु॒रस्ता᳚त् विश्वा॑ भू॒तानि॑ प्रति॒ मोद॑मानः तस्य॑ दे॒वाः प्र॑स॒वं-यँं॑ति॒ सर्वे᳚ प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः वि॒भ्राज॑मान-स्समिधा॒न उ॒ग्रः आऽंतरि॑क्ष-मरुह॒द-द्गं॒द्याम् तग्ं सूर्यं॑ दे॒व-म॒जमेक॑पादम् प्रो॒ष्ठ॒प॒दासो॒ अनु॑यंति॒ सर्वे᳚ 25 नक्षत्रं - उत्तरप्रोष्ठपदा, देवता - अहिर्बुद्ध्नियः अहि॑-र्बु॒द्ध्नियः॒ प्रथ॑मान एति श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् तं ब्रा᳚ह्म॒णा-स्सो॑म॒पा-स्सो॒म्यासः॑ प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षंति॒ सर्वे᳚ च॒त्वार॒ एक॑म॒भि कर्म॑ दे॒वाः प्रो॒ष्ठ॒प॒दास॒ इति॒ यान्, वदं॑ति ते बु॒द्धनियं॑ परि॒षद्यग्ग्॑ स्तु॒वंतः॑ अहिग्ं॑ रक्षंति॒ नम॑सोप॒ सद्य॑ 26 नक्षत्रं - रेवती, देवता - पूषा पू॒षा रे॒वत्यन्वे॑ति॒ पंथा᳚म् पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा सु॒गैर्नो॒ यानै॒रुप॑यातां-यँ॒ज्ञम् क्षु॒द्रान् प॒शून् र॑क्षतु रे॒वती॑ नः गावो॑ नो॒ अश्वा॒ग्ं॒ अन्वे॑तु पू॒षा अन्न॒ग्ं॒ रक्षं॑तौ बहु॒धा विरू॑पम् वाजग्ं॑ सनुतां॒-यँज॑मानाय य॒ज्ञम् 27 नक्षत्रं - अश्विनी, देवता - अश्विनी देव तद॒श्विना॑-वश्व॒युजो-प॑याताम् शुभं॒गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ स्वन्नक्ष॑त्रग्ं ह॒विषा॒ यजं॑तौ मद्ध्वा॒-संपृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ यौ दे॒वानां᳚ भि॒षजौ॑ हव्यवा॒हौ विश्व॑स्य दू॒ता-व॒मृत॑स्य गो॒पौ तौ नक्ष॑त्रं-जुजुषा॒णो-प॑याताम् नमो॒ऽश्विभ्यां᳚ कृणुमो-ऽश्व॒ग्युभ्या᳚म् 28 नक्षत्रं - अपभरणी, देवता - यमः अप॑ पा॒प्मानं॒ भर॑णी-र्भरंतु तद्य॒मो राजा॒ भग॑वा॒न्॒, विच॑ष्टाम् लो॒कस्य॒ राजा॑ मह॒तो म॒हान्, हि सु॒गन्नः॒ पंथा॒मभ॑यं कृणोतु यस्मि॒-न्नक्ष॑त्रे य॒म एति॒ राजा᳚ यस्मि॑न्नेन-म॒भ्यषिं॑चंत दे॒वाः तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम अप॑ पा॒प्मानं॒ भर॑णी-र्भरंतु 29 अमावासि नि॒वेश॑नी सं॒गम॑नी॒ वसू॑नां॒-विँश्वा॑ रू॒पाणि॒ वसू᳚न्या-वे॒शयं॑ती स॒ह॒स्र॒-पो॒षग्ं सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न् वर्च॑सा सं​विँदा॒ना यत्ते॑ दे॒वा अद॑धु-र्भाग॒धेय॒-ममा॑वास्ये सं॒​वँसं॑तो महि॒त्वा सा नो॑ य॒ज्ञं पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीर᳚म् 30 ओं शांतिः॒ शांतिः॒ शांतिः॑