Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

मंत्र पुष्पम्

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः स्थि॒रैरंगै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभिः॑ व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः स्व॑स्ति नः॑ पू॒षा वि॒श्ववे॑दाः स्व॒॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ओं शांतिः॒ शांतिः॒ शांतिः॑ यो॑ऽपां पुष्पं॒-वेँद॑ पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति चं॒द्रमा॒ वा अ॒पां पुष्पम्᳚ पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ए॒वं-वेँद॑ यो॑ऽपामा॒यत॑नं॒-वेँद॑ आ॒यत॑नवान् भवति अ॒ग्निर्वा अ॒पामा॒यत॑नम् आ॒यत॑नवान् भवति यो᳚ऽग्नेरा॒यत॑नं॒-वेँद॑ आ॒यत॑नवान् भवति आपो॒वा अ॒ग्नेरा॒यत॑नम् आ॒यत॑नवान् भवति ए॒वं-वेँद॑ यो॑ऽपामा॒यत॑नं॒-वेँद॑ आ॒यत॑नवान् भवति वा॒युर्वा अ॒पामा॒यत॑नम् आ॒यत॑नवान् भवति यो वा॒योरा॒यत॑नं॒-वेँद॑ आ॒यत॑नवान् भवति आपो॒ वै वा॒योरा॒यत॑नम् आ॒यत॑नवान् भवति ए॒वं-वेँद॑ यो॑ऽपामा॒यत॑नं॒-वेँद॑ आ॒यत॑नवान् भवति अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् आ॒यत॑नवान् भवति यो॑ऽमुष्य॒तप॑त आ॒यत॑नं॒-वेँद॑ आ॒यत॑नवान् भवति आपो॒ वा अ॒मुष्य॒तप॑त आ॒यत॑नम् आ॒यत॑नवान् भवति ए॒वं-वेँद॑ यो॑ऽपामा॒यत॑नं॒-वेँद॑ आ॒यत॑नवान् भवति चं॒द्रमा॒ वा अ॒पामा॒यत॑नम् आ॒यत॑नवान् भवति यश्चं॒द्रम॑स आ॒यत॑नं॒-वेँद॑ आ॒यत॑नवान् भवति आपो॒ वै चं॒द्रम॑स आ॒यत॑नम् आ॒यत॑नवान् भवति ए॒वं-वेँद॑ यो॑ऽपामा॒यत॑नं॒-वेँद॑ आ॒यत॑नवान् भवति नक्षत्र॑त्राणि॒ वा अ॒पामा॒यत॑नम् आ॒यत॑नवान् भवति यो नक्षत्र॑त्राणामा॒यत॑नं॒-वेँद॑ आ॒यत॑नवान् भवति आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् आ॒यत॑नवान् भवति ए॒वं-वेँद॑ यो॑ऽपामा॒यत॑नं॒-वेँद॑ आ॒यत॑नवान् भवति प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् आ॒यत॑नवान् भवति यः प॒र्जन्य॑स्या॒यत॑नं॒-वेँद॑ आ॒यत॑नवान् भवति आपो॒ वै प॒र्जन्य॑स्या॒यत॑नम् आ॒यत॑नवान् भवति ए॒वं-वेँद॑ यो॑ऽपामा॒यत॑नं॒-वेँद॑ आ॒यत॑नवान् भवति सं॒​वँ॒त्स॒रो वा अ॒पामा॒यत॑न॒म् आ॒यत॑नवान् भवति यः सं॑​वँत्स॒रस्या॒यत॑नं॒-वेँद॑ आ॒यत॑नवान् भवति आपो॒ वै सं॑​वँत्स॒रस्या॒यत॑नम् आ॒यत॑नवान् भवति एवं-वेँद॑ यो᳚ऽफ्सु नावं॒ प्रति॑ष्ठितां॒-वेँद॑ प्रत्ये॒व ति॑ष्ठति ओं रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ नमो॑ व॒यं-वैँ᳚श्रव॒णाय॑ कुर्महे मे॒ कामा॒न् काम॒ कामा॑य॒ मह्यम्᳚ का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु कु॒बे॒राय॑ वैश्रव॒णाय॑ म॒हा॒राजाय॒ नमः॑ ओं᳚ तद्ब्र॒ह्म ओं᳚ तद्वा॒युः ओं᳚ तदा॒त्मा ओं᳚ तथ्स॒त्यम् ओं᳚ तत्सर्वम्᳚ ओं᳚ तत्पुरो॒र्नमः अंतश्चरति॑ भूते॒षु गुहायां-विँ॑श्वमू॒र्तिषु त्वं-यँज्ञस्त्वं-वँषट्कारस्त्व-मिंद्रस्त्वग्ं रुद्रस्त्वं-विँष्णुस्त्वं ब्रह्मत्वं॑ प्रजा॒पतिः त्वं त॑दाप॒ आपो॒ ज्योती॒रसो॒ऽमृतं ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ईशानस्सर्व॑ विद्या॒नामीश्वरस्सर्व॑भूता॒नां ब्रह्माधि॑पति॒-र्ब्रह्म॒णोऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् तद्विष्णोः᳚ पर॒मं प॒दग्ं सदा॑ पश्यंति सू॒रयः॑ दि॒वीव॒ चक्षु॒रात॑तम् तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाग्ं सस्समिं॑धते विष्नो॒र्यत्प॑र॒मं प॒दम् ऋतग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिंग॑लम् ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ओं ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि तन्नो॑ विष्णुः प्रचो॒दया᳚त् ओं शांतिः॒ शांतिः॒ शांतिः॑