Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

केन उपनिषद् - प्रथमः खंडः

अथ केनोपनिषत् ओं स॒ह ना॑ववतु स॒ह नौ॑ भुनक्तु स॒ह वी॒र्यं॑ करवावहै ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ओं शांतिः॒ शांतिः॒ शांतिः॑ ओं आप्यायंतु ममांगानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिंद्रियाणि सर्वाणि सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते उपनिषत्सु धर्मास्ते मयि संतु ते मयि संतु ओं शांतिः॒ शांतिः॒ शांतिः॑ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः केनेषितां-वाँचमिमां-वँदंति चक्षुः श्रोत्रं देवो युनक्ति 1 श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो वाचं प्राणस्य प्राणः चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवंति 2 तत्र चक्षुर्गच्छति वाग्गच्छति नो मनः विद्मो विजानीमो यथैतदनुशिष्यात् 3 अन्यदेव तद्विदितादथो अविदितादधि इति शुश्रुम पूर्वेषां-येँ नस्तद्व्याचचक्षिरे 4 यद्वाचाऽनभ्युदितं-येँन वागभ्युद्यते तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते 5 यन्मनसा मनुते येनाहुर्मनो मतम् तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते 6 यच्चक्षुषा पश्यति येन चक्षूंषि पश्यति तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते 7 यच्छ्रोत्रेण श‍ऋणोति येन श्रोत्रमिदं श्रुतम् तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते 8 यत्प्राणेन प्राणिति येन प्राणः प्रणीयते तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते 9 इति केनोपनिषदि प्रथमः खंडः