Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

चतुर्वेदमन्त्राणि

ओं अ॒ग्निमी᳚ले पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजम्᳚ होता᳚रं रत्न॒धात॑मम् इ॒षे त्वो॒र्जेत्वा॑ वा॒यव॑स्थो पा॒यव॑स्थ दे॒वो व॑स्सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आप्या॑यध्वमघ्निया देवभा॒गमूर्ज॑स्वती॒: पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मामाव॑स्ते॒न ई॑शत॒ माऽघशग्ं॑ सो रु॒द्रस्य॑ हे॒तिः परि॑वो वृणक्तु ध्रु॒वा अ॒स्मिन्गोप॑तौ स्याम ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये नि होता॑ सथ्सि ब॒र्॒हिषि॑ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ शं योर॒भिस्र॑वन्तु नः