हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
गोविंदाष्टकम्
सत्यं
ज्ञानमनंतं
नित्यमनाकाशं
परमाकाशम्
।
गोष्ठप्रांगणरिंखणलोलमनायासं
परमायासम्
।
मायाकल्पितनानाकारमनाकारं
भुवनाकारम्
।
क्ष्मामानाथमनाथं
प्रणमत
गोविंदं
परमानंदम्
॥
1
॥
मृत्स्नामत्सीहेति
यशोदाताडनशैशव
संत्रासम्
।
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्
।
लोकत्रयपुरमूलस्तंभं
लोकालोकमनालोकम्
।
लोकेशं
परमेशं
प्रणमत
गोविंदं
परमानंदम्
॥
2
॥
त्रैविष्टपरिपुवीरघ्नं
क्षितिभारघ्नं
भवरोगघ्नम्
।
कैवल्यं
नवनीताहारमनाहारं
भुवनाहारम्
।
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम्
।
शैवं
केवलशांतं
प्रणमत
गोविंदं
परमानंदम्
॥
3
॥
गोपालं
प्रभुलीलाविग्रहगोपालं
कुलगोपालम्
।
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम्
।
गोभिर्निगदित
गोविंदस्फुटनामानं
बहुनामानम्
।
गोपीगोचरदूरं
प्रणमत
गोविंदं
परमानंदम्
॥
4
॥
गोपीमंडलगोष्ठीभेदं
भेदावस्थमभेदाभम्
।
शश्वद्गोखुरनिर्धूतोद्गत
धूलीधूसरसौभाग्यम्
।
श्रद्धाभक्तिगृहीतानंदमचिंत्यं
चिंतितसद्भावम्
।
चिंतामणिमहिमानं
प्रणमत
गोविंदं
परमानंदम्
॥
5
॥
स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम्
।
व्यादित्संतीरथ
दिग्वस्त्रा
दातुमुपाकर्षंतं
ताः
निर्धूतद्वयशोकविमोहं
बुद्धं
बुद्धेरंतस्थम्
।
सत्तामात्रशरीरं
प्रणमत
गोविंदं
परमानंदम्
॥
6
॥
कांतं
कारणकारणमादिमनादिं
कालधनाभासम्
।
कालिंदीगतकालियशिरसि
सुनृत्यंतं
मुहुरत्यंतम्
।
कालं
कालकलातीतं
कलिताशेषं
कलिदोषघ्नम्
।
कालत्रयगतिहेतुं
प्रणमत
गोविंदं
परमानंदम्
॥
7
॥
बृंदावनभुवि
बृंदारकगणबृंदाराधितवंदेहम्
।
कुंदाभामलमंदस्मेरसुधानंदं
सुहृदानंदम्
।
वंद्याशेष
महामुनि
मानस
वंद्यानंदपदद्वंद्वम्
।
वंद्याशेषगुणाब्धिं
प्रणमत
गोविंदं
परमानंदम्
॥
8
॥
गोविंदाष्टकमेतदधीते
गोविंदार्पितचेता
यः
।
गोविंदाच्युत
माधव
विष्णो
गोकुलनायक
कृष्णेति
।
गोविंदांघ्रि
सरोजध्यानसुधाजलधौतसमस्ताघः
।
गोविंदं
परमानंदामृतमंतस्थं
स
तमभ्येति
॥
इति
श्री
शंकराचार्य
विरचित
श्रीगोविंदाष्टकं
समाप्तं
Recite with devotion and pure heart
Regular practice brings spiritual benefits