Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

वाराही सहस्रनामावलिः

॥ ओं ऐं ग्लौं ऐम् ॥ ओं वाराह्यै नमः । ओं वामन्यै नमः । ओं वामायै नमः । ओं बगलायै नमः । ओं वासव्यै नमः । ओं वसवे नमः । ओं वैदेह्यै नमः । ओं वीरसुवे नमः । ओं बालायै नमः । ओं वरदायै नमः । ओं विष्णुवल्लभायै नमः । ओं वन्दितायै नमः । ओं वसुदायै नमः । ओं वश्यायै नमः । ओं व्यात्तास्यायै नमः । ओं वञ्चिन्यै नमः । ओं बलायै नमः । ओं वसुन्धरायै नमः । ओं वीतिहोत्रायै नमः । ओं वीतरागायै नमः । 20 ओं विहायस्यै नमः । ओं सर्वायै नमः । ओं खनिप्रियायै नमः । ओं काम्यायै नमः । ओं कमलायै नमः । ओं काञ्चन्यै नमः । ओं रमायै नमः । ओं धूम्रायै नमः । ओं कपालिन्यै नमः । ओं वामायै नमः । ओं कुरुकुल्लायै नमः । ओं कलावत्यै नमः । ओं याम्यायै नमः । ओं आग्नेय्यै नमः । ओं धरायै नमः । ओं धन्यायै नमः । ओं धर्मिण्यै नमः । ओं ध्यानिन्यै नमः । ओं ध्रुवायै नमः । ओं धृत्यै नमः । 40 ओं लक्ष्म्यै नमः । ओं जयायै नमः । ओं तुष्ट्यै नमः । ओं शक्त्यै नमः । ओं मेधायै नमः । ओं तपस्विन्यै नमः । ओं वेधसे नमः । ओं जयायै नमः । ओं कृत्यै नमः । ओं कान्त्यै नमः । ओं स्वाहायै नमः । ओं शान्त्यै नमः । ओं दमायै नमः । ओं रत्यै नमः । ओं लज्जायै नमः । ओं मत्यै नमः । ओं स्मृत्यै नमः । ओं निद्रायै नमः । ओं तन्त्रायै नमः । ओं गौर्यै नमः । 60 ओं शिवायै नमः । ओं स्वधायै नमः । ओं चण्ड्यै नमः । ओं दुर्गायै नमः । ओं अभयायै नमः । ओं भीमायै नमः । ओं भाषायै नमः । ओं भामायै नमः । ओं भयानकायै नमः । ओं भूदारायै नमः । ओं भयहायै नमः । ओं भीरवे नमः । ओं भैरव्यै नमः । ओं भङ्गरायै नमः । ओं भट्यै नमः । ओं घुर्घुरायै नमः । ओं घोषणायै नमः । ओं घोरायै नमः । ओं घोषिण्यै नमः । ओं घोणसंयुतायै नमः । 80 ओं घनायै नमः । ओं अघनायै नमः । ओं घर्घरायै नमः । ओं घोणयुक्तायै नमः । ओं अघनाशिन्यै नमः । ओं पूर्वस्थितायै नमः । ओं आग्नेय्यस्थितायै नमः । ओं यातुस्थितायै नमः । ओं याम्यस्थितायै नमः । ओं वायव्यस्थितायै नमः । ओं उत्तरस्थितायै नमः । ओं वारुणस्थितायै नमः । ओं ऐशानस्थितायै नमः । ओं ऊर्ध्वस्थितायै नमः । ओं अधःस्थितायै नमः । ओं पृष्ठगायै नमः । ओं दक्षगायै नमः । ओं आग्रगायै नमः । ओं वामगायै नमः । ओं हृद्गायै नमः । 100 ओं नाभिगायै नमः । ओं ब्रह्मरन्ध्रगायै नमः । ओं अर्कगायै नमः । ओं स्वर्गगायै नमः । ओं पातालगायै नमः । ओं भूमिगायै नमः । ओं ऐं नमः । ओं श्रियै नमः । ओं ह्रियै नमः । ओं क्लीं नमः । ओं तीर्थगत्यै नमः । ओं प्रीत्यै नमः । ओं धियै नमः । ओं गिरे नमः । ओं कलायै नमः । ओं अव्ययायै नमः । ओं ऋग्रूपायै नमः । ओं यजुर्-रूपायै नमः । ओं सामरूपायै नमः । ओं परायै नमः । 120 ओं पोत्रिण्यै नमः । ओं उदुम्बरायै नमः । ओं गदाधारिण्यै नमः । ओं असिधारिण्यै नमः । ओं शक्तिधारिण्यै नमः । ओं चापधारिण्यै नमः । ओं इषुधारिण्यै नमः । ओं शूलधारिण्यै नमः । ओं चक्रधारिण्यै नमः । ओं अर्ष्टिधारिण्यै नमः । ओं जरत्यै नमः । ओं युवत्यै नमः । ओं बालायै नमः । ओं चतुरङ्गबलोत्कटायै नमः । ओं सत्यायै नमः । ओं अक्षरायै नमः । ओं निधये नमः । ओं नेत्रे नमः । ओं धात्र्यै नमः । ओं पोत्र्यै नमः । 140 ओं परायै नमः । ओं पटवे नमः । ओं क्षेत्रज्ञायै नमः । ओं कम्पिन्यै नमः । ओं ज्येष्ठायै नमः । ओं दुराधर्षायै नमः । ओं धुरन्धरायै नमः । ओं मालिन्यै नमः । ओं मानिन्यै नमः । ओं मात्रे नमः । ओं माननीयायै नमः । ओं मनस्विन्यै नमः । ओं मदोत्कटायै नमः । ओं मन्युकर्यै नमः । ओं मनुरूपायै नमः । ओं मनोजवायै नमः । ओं मेदस्विन्यै नमः । ओं मद्यरतायै नमः । ओं मधुपायै नमः । ओं मङ्गलायै नमः । 160 ओं अमरायै नमः । ओं मायायै नमः । ओं मात्रे नमः । ओं आमयहर्यै नमः । ओं मृडान्यै नमः । ओं महिलायै नमः । ओं मृत्यै नमः । ओं महादेव्यै नमः । ओं मोहहर्यै नमः । ओं मञ्जवे नमः । ओं मृत्युञ्जयायै नमः । ओं अमलायै नमः । ओं मांसलायै नमः । ओं मानवायै नमः । ओं मूलायै नमः । ओं महारात्र्यै नमः । ओं मदालसायै नमः । ओं मृगाङ्कायै नमः । ओं मेनकायै नमः । ओं मान्यायै नमः । 180 ओं महिषघ्न्यै नमः । ओं मदन्तिकायै नमः । ओं मूर्छापहायै नमः । ओं मोहापहायै नमः । ओं मृषापहायै नमः । ओं मोघापहायै नमः । ओं मदापहायै नमः । ओं मृत्य्वापहायै नमः । ओं मलापहायै नमः । ओं सिंहाननायै नमः । ओं ऋक्षाननायै नमः । ओं महिषाननायै नमः । ओं व्याघ्राननायै नमः । ओं मृगाननायै नमः । ओं क्रोडाननायै नमः । ओं धुन्यै नमः । ओं धरिण्यै नमः । ओं धारिण्यै नमः । ओं धेनवे नमः । ओं धरित्र्यै नमः । 200 ओं धावन्यै नमः । ओं धवायै नमः । ओं धर्मध्वनायै नमः । ओं ध्यानपरायै नमः । ओं धनप्रदायै नमः । ओं धान्यप्रदायै नमः । ओं धराप्रदायै नमः । ओं पापनाशिन्यै नमः । ओं दोषनाशिन्यै नमः । ओं रिपुनाशिन्यै नमः । ओं व्याधिनाशिन्यै नमः । ओं सिद्धिदायिन्यै नमः । ओं कलारूपिण्यै नमः । ओं काष्ठारूपिण्यै नमः । ओं क्षमारूपिण्यै नमः । ओं पक्षरूपिण्यै नमः । ओं अहरूपिण्यै नमः । ओं त्रुटिरूपिण्यै नमः । ओं श्वासरूपिण्यै नमः । ओं समृद्धायै नमः । 220 ओं सुभुजायै नमः । ओं रौद्र्यै नमः । ओं राधायै नमः । ओं रागायै नमः । ओं रमायै नमः । ओं अरण्यै नमः । ओं रामायै नमः । ओं रतिप्रियायै नमः । ओं रुष्टायै नमः । ओं रक्षिण्यै नमः । ओं रविमध्यगायै नमः । ओं रजन्यै नमः । ओं रमण्यै नमः । ओं रेवायै नमः । ओं रङ्किन्यै नमः । ओं रञ्जिन्यै नमः । ओं रमायै नमः । ओं रोषायै नमः । ओं रोषवत्यै नमः । ओं रूक्षायै नमः । 240 ओं करिराज्यप्रदायै नमः । ओं रतायै नमः । ओं रूक्षायै नमः । ओं रूपवत्यै नमः । ओं रास्यायै नमः । ओं रुद्राण्यै नमः । ओं रणपण्डितायै नमः । ओं गङ्गायै नमः । ओं यमुनायै नमः । ओं सरस्वत्यै नमः । ओं स्वसवे नमः । ओं मध्व्यै नमः । ओं गण्डक्यै नमः । ओं तुङ्गभद्रायै नमः । ओं कावेर्यै नमः । ओं कौशिक्यै नमः । ओं पटवे नमः । ओं कट्वायै नमः । ओं उरगवत्यै नमः । ओं चारायै नमः । 260 ओं सहस्राक्ष्यै नमः । ओं प्रतर्दनायै नमः । ओं सर्वज्ञायै नमः । ओं शाङ्कर्यै नमः । ओं शास्त्र्यै नमः । ओं जटाधारिण्यै नमः । ओं अयोरदायै नमः । ओं यावन्यै नमः । ओं सौरभ्यै नमः । ओं कुब्जायै नमः । ओं वक्रतुण्डायै नमः । ओं वधोद्यतायै नमः । ओं चन्द्रापीडायै नमः । ओं वेदवेद्यायै नमः । ओं शङ्खिन्यै नमः । ओं नीललोहितायै नमः । ओं ध्यानातीतायै नमः । ओं अपरिच्छेद्यायै नमः । ओं मृत्युरूपायै नमः । ओं त्रिवर्गदायै नमः । 280 ओं अरूपायै नमः । ओं बहुरूपायै नमः । ओं नानारूपायै नमः । ओं नताननायै नमः । ओं वृषाकपये नमः । ओं वृषारूढायै नमः । ओं वृषेश्यै नमः । ओं वृषवाहनायै नमः । ओं वृषप्रियायै नमः । ओं वृषावर्तायै नमः । ओं वृषपर्वायै नमः । ओं वृषाकृत्यै नमः । ओं कोदण्डिन्यै नमः । ओं नागचूडायै नमः । ओं चक्षुष्यै नमः । ओं परमार्थिकायै नमः । ओं दुर्वासायै नमः । ओं दुर्गहायै नमः । ओं देव्यै नमः । ओं दुरावासायै नमः । 300 ओं दुरारिहायै नमः । ओं दुर्गायै नमः । ओं राधायै नमः । ओं दुःखहन्त्र्यै नमः । ओं दुराराध्यायै नमः । ओं दवीयस्यै नमः । ओं दुरावासायै नमः । ओं दुष्प्रहस्तायै नमः । ओं दुष्प्रकम्पायै नमः । ओं दुरूहिण्यै नमः । ओं सुवेण्यै नमः । ओं रमण्यै नमः । ओं श्यामायै नमः । ओं मृगतापिन्यै नमः । ओं व्याधितापिन्यै नमः । ओं अर्घतापिन्यै नमः । ओं उग्रायै नमः । [दुर्गायै] ओं तार्क्ष्यै नमः । ओं पाशुपत्यै नमः । ओं कौणप्यै नमः । 320 ओं कुणपाशनायै नमः । ओं कपर्दिन्यै नमः । ओं कामकामायै नमः । ओं कमनीयायै नमः । ओं कलोज्ज्वलायै नमः । ओं कासावहृते नमः । ओं कारकान्यै नमः । ओं कम्बुकण्ठ्यै नमः । ओं कृतागमायै नमः । ओं कर्कशायै नमः । ओं कारणायै नमः । ओं कान्तायै नमः । ओं कल्पायै नमः । ओं अकल्पायै नमः । ओं कटङ्कटायै नमः । ओं श्मशाननिलयायै नमः । ओं भिन्नायै नमः । ओं गजारुढायै नमः । ओं गजापहायै नमः । ओं तत्प्रियायै नमः । 340 ओं तत्परायै नमः । ओं रायायै नमः । ओं स्वर्भानवे नमः । ओं कालवञ्चिन्यै नमः । ओं शाखायै नमः । ओं विशाखायै नमः । ओं गोशाखायै नमः । ओं सुशाखायै नमः । ओं शेषशाखिन्यै नमः । ओं व्यङ्गायै नमः । ओं शुभाङ्गायै नमः । ओं वामाङ्गायै नमः । ओं नीलाङ्गायै नमः । ओं अनङ्गरूपिण्यै नमः । ओं साङ्गोपाङ्गायै नमः । ओं सारङ्गायै नमः । ओं सुभाङ्गायै नमः । ओं रङ्गरूपिण्यै नमः । ओं भद्रायै नमः । ओं सुभद्रायै नमः । 360 ओं भद्राक्ष्यै नमः । ओं सिंहिकायै नमः । ओं विनतायै नमः । ओं अदित्यै नमः । ओं हृद्यायै नमः । ओं अवद्यायै नमः । ओं सुपद्यायै नमः । ओं गद्यप्रियायै नमः । ओं पद्यप्रियायै नमः । ओं प्रसवे नमः । ओं चर्चिकायै नमः । ओं भोगवत्यै नमः । ओं अम्बायै नमः । ओं सारस्यै नमः । ओं शबर्यै नमः । ओं नट्यै नमः । ओं योगिन्यै नमः । ओं पुष्कलायै नमः । ओं अनन्तायै नमः । ओं परायै नमः । 380 ओं साङ्ख्यायै नमः । ओं शच्यै नमः । ओं सत्यै नमः । ओं निम्नगायै नमः । ओं निम्ननाभ्यै नमः । ओं सहिष्णवे नमः । ओं जागृत्यै नमः । ओं लिप्यै नमः । ओं दमयन्त्यै नमः । ओं दमायै नमः । ओं दण्डायै नमः । ओं उद्दण्डिन्यै नमः । ओं दारदायिकायै नमः । ओं दीपिन्यै नमः । ओं दाविन्यै नमः । ओं धात्र्यै नमः । ओं दक्षकन्यायै नमः । ओं दम्यायै नमः । ओं दरदे नमः । ओं दाहिन्यै नमः । 400 ओं द्रविण्यै नमः । ओं दर्व्यै नमः । ओं दण्डिन्यै नमः । ओं दण्डनायिकायै नमः । ओं दानप्रियायै नमः । ओं दोषहन्त्र्यै नमः । ओं दुःखाशिन्यै नमः । ओं दारिद्र्यनाशिन्यै नमः । ओं दोषदायै नमः । ओं दोषकृते नमः । ओं दोग्ध्र्यै नमः । ओं दोहत्यै नमः । ओं देविकायै नमः । ओं अधनायै नमः । ओं दर्वीकर्यै नमः । ओं दुर्वलितायै नमः । ओं दुर्युगायै नमः । ओं अद्वयवादिन्यै नमः । ओं चरायै नमः । ओं अचरायै नमः । 420 ओं अनन्तायै नमः । ओं वृष्ट्यै नमः । ओं उन्मत्तायै नमः । ओं कमलायै नमः । ओं अलसायै नमः । ओं तारिण्यै नमः । ओं तारकान्तारायै नमः । ओं परमात्मने नमः । ओं अब्जलोचनायै नमः । ओं इन्दवे नमः । ओं हिरण्यकवचायै नमः । ओं व्यवस्थायै नमः । ओं व्यवसायिकायै नमः । ओं ईशनन्दायै नमः । ओं नद्यै नमः । ओं नाग्यै नमः । ओं यक्षिण्यै नमः । ओं सर्पिण्यै नमः । ओं वर्यै नमः । ओं सुधायै नमः । 440 ओं सुरायै नमः । ओं विश्वसहायै नमः । ओं सुवर्णायै नमः । ओं अङ्गदधारिण्यै नमः । ओं जनन्यै नमः । ओं प्रीतिभागेश्यै नमः । ओं साम्राज्ञ्यै नमः । ओं संविदे नमः । ओं उत्तमायै नमः । ओं अमेयायै नमः । ओं अरिष्टदमन्यै नमः । ओं पिङ्गलायै नमः । ओं लिङ्गधारिण्यै नमः । ओं चामुण्डायै नमः । ओं प्लाविन्यै नमः । ओं हालायै नमः । ओं बृहते नमः । ओं ज्योतिषे नमः । ओं उरुक्रमायै नमः । ओं सुप्रतीकायै नमः । 460 ओं सुग्रीवायै नमः । ओं हव्यवाहायै नमः । ओं प्रलापिन्यै नमः । ओं नभस्यायै नमः । ओं माधव्यै नमः । ओं ज्येष्ठायै नमः । ओं शिशिरायै नमः । ओं ज्वालिन्यै नमः । ओं रुच्यै नमः । ओं शुक्लायै नमः । ओं शुक्रायै नमः । ओं शुचायै नमः । ओं शोकायै नमः । ओं शुक्यै नमः । ओं भेक्यै नमः । ओं पिक्यै नमः । ओं बक्यै नमः । ओं पृषदश्वायै नमः । ओं नभोयोन्यै नमः । ओं सुप्रतीकायै नमः । 480 ओं विभावर्यै नमः । ओं गर्वितायै नमः । ओं गुर्विण्यै नमः । ओं गण्यायै नमः । ओं गुरुवे नमः । ओं गुरुधर्यै नमः । ओं गयायै नमः । ओं गन्धर्व्यै नमः । ओं गणिकायै नमः । ओं गुन्द्रायै नमः । ओं गारुड्यै नमः । ओं गोपिकायै नमः । ओं अग्रगायै नमः । ओं गणेश्यै नमः । ओं गामिन्यै नमः । ओं गन्तायै नमः । ओं गोपतये नमः । ओं गन्धिन्यै नमः । ओं गव्यै नमः । ओं गर्जितायै नमः । 500 ओं गानन्यै नमः । ओं गोनायै नमः । ओं गोरक्षायै नमः । ओं गोविदां गत्यै नमः । ओं ग्राथिक्यै नमः । ओं ग्रथिकृते नमः । ओं गोष्ठ्यै नमः । ओं गर्भरूपायै नमः । ओं गुणैषिण्यै नमः । ओं पारस्कर्यै नमः । ओं पाञ्चनदायै नमः । ओं बहुरूपायै नमः । ओं विरूपिकायै नमः । ओं ऊहायै नमः । ओं व्यूहायै नमः । ओं दुरूहायै नमः । ओं सम्मोहायै नमः । ओं मोहहारिण्यै नमः । ओं यज्ञविग्रहिण्यै नमः । ओं यज्ञायै नमः । 520 ओं यायजूकायै नमः । ओं यशस्विन्यै नमः । ओं अग्निष्टोमायै नमः । ओं अत्यग्निष्टोमायै नमः । ओं वाजपेयायै नमः । ओं षोडश्यै नमः । ओं पुण्डरीकायै नमः । ओं अश्वमेधायै नमः । ओं राजसूयायै नमः । ओं नाभसायै नमः । ओं स्विष्टकृते नमः । ओं बहवे नमः । ओं सौवर्णायै नमः । ओं गोसवायै नमः । ओं महाव्रतायै नमः । ओं विश्वजिते नमः । ओं ब्रह्मयज्ञायै नमः । ओं प्राजापत्यायै नमः । ओं शिलायवायै नमः । ओं अश्वक्रान्तायै नमः । 540 ओं रथक्रान्तायै नमः । ओं विष्णुक्रान्तायै नमः । ओं विभावसे नमः । ओं सूर्यक्रान्तायै नमः । ओं गजक्रान्तायै नमः । ओं बलिभिदे नमः । ओं नागयज्ञकायै नमः । ओं सावित्र्यै नमः । ओं अर्धसावित्र्यै नमः । ओं सर्वतोभद्रवारुणायै नमः । ओं आदित्यामयायै नमः । ओं गोदोहायै नमः । ओं गवामयायै नमः । ओं मृगामयायै नमः । ओं सर्पमयायै नमः । ओं कालपिञ्जायै नमः । ओं कौण्डिन्यायै नमः । ओं उपनागाहलायै नमः । ओं अग्निविदे नमः । ओं द्वादशाहस्वायै नमः । 560 ओं उपांशवे नमः । ओं सोमायै नमः । ओं विधायै नमः । ओं हनायै नमः । ओं अश्वप्रतिग्रहायै नमः । ओं बर्हिरथायै नमः । ओं अभ्युदयायै नमः । ओं ऋद्ध्यै नमः । ओं राजे नमः । ओं सर्वस्वदक्षिणायै नमः । ओं दीक्षायै नमः । ओं सोमाख्यायै नमः । ओं समिदाह्वयायै नमः । ओं कठायनायै नमः । ओं गोदोहायै नमः । ओं स्वाहाकारायै नमः । ओं तनूनपाते नमः । ओं दण्डायै नमः । ओं पुरुषायै नमः । ओं मेधायै नमः । 580 ओं श्येनायै नमः । ओं वज्रायै नमः । ओं इषवे नमः । ओं यमायै नमः । ओं अङ्गिरसे नमः । ओं कङ्कभेरुण्डायै नमः । ओं चान्द्रायणपरायणायै नमः । ओं ज्योतिष्टोमायै नमः । ओं गुदायै नमः । ओं दर्शायै नमः । ओं नन्द्याख्यायै नमः । ओं पौर्णमासिकायै नमः । ओं गजप्रतिग्रहायै नमः । ओं रात्र्यै नमः । ओं सौरभायै नमः । ओं शाङ्कलायनायै नमः । ओं सौभाग्यकृते नमः । ओं कारीषायै नमः । ओं बैदलायनायै नमः । ओं रामठायै नमः । 600 ओं शोचिष्कार्यै नमः । ओं नाचिकेतायै नमः । ओं शान्तिकृते नमः । ओं पुष्टिकृते नमः । ओं वैनतेयायै नमः । ओं उच्चाटनायै नमः । ओं वशीकरणायै नमः । ओं मारणायै नमः । ओं त्रैलोक्यमोहनायै नमः । ओं वीरायै नमः । ओं कन्दर्पबलशातनायै नमः । ओं शङ्खचूडायै नमः । ओं गजच्छायायै नमः । ओं रौद्राख्यायै नमः । ओं विष्णुविक्रमायै नमः । ओं भैरव्यै नमः । ओं कवहाख्यायै नमः । ओं अवभृथायै नमः । ओं अष्टकपालकायै नमः । ओं श्रौषट् नमः । 620 ओं वौषट् नमः । ओं वषट्कारायै नमः । ओं पाकसंस्थायै नमः । ओं परिश्रुत्यै नमः । ओं चयनायै नमः । ओं नरमेधायै नमः । ओं कारीर्यै नमः । ओं रत्नदानिकायै नमः । ओं सौत्रामण्यै नमः । ओं भारुन्दायै नमः । ओं बार्हस्पत्यायै नमः । ओं बलङ्गमायै नमः । ओं प्रचेतसे नमः । ओं सर्वसत्रायै नमः । ओं गजमेधायै नमः । ओं करम्भकायै नमः । ओं हविःसंस्थायै नमः । ओं सोमसंस्थायै नमः । ओं पाकसंस्थायै नमः । ओं गरुत्मत्यै नमः । 640 ओं सत्यायै नमः । ओं सूर्यायै नमः । ओं चमसायै नमः । ओं स्रुचे नमः । ओं स्रुवायै नमः । ओं उलूखलायै नमः । ओं मेक्षण्यै नमः । ओं चपलायै नमः । ओं मन्थन्यै नमः । ओं मेढ्यै नमः । ओं यूपायै नमः । ओं प्राग्वंशायै नमः । ओं कुञ्चिकायै नमः । ओं रश्मये नमः । ओं अंशवे नमः । ओं दोभ्यायै नमः । ओं वारुणोदायै नमः । ओं पव्यै नमः । ओं कुथायै नमः । ओं आप्तोर्यामायै नमः । 660 ओं द्रोणकलशायै नमः । ओं मैत्रावरुणायै नमः । ओं आश्विनायै नमः । ओं पात्नीवतायै नमः । ओं मन्थ्यै नमः । ओं हारियोजनायै नमः । ओं प्रतिप्रस्थानायै नमः । ओं शुक्रायै नमः । ओं सामिधेन्यै नमः । ओं समिधे नमः । ओं समायै नमः । ओं होत्रे नमः । ओं अध्वर्यवे नमः । ओं उद्गात्रे नमः । ओं नेत्रे नमः । ओं त्वष्ट्रे नमः । ओं योत्रिकायै नमः । ओं आग्नीध्रायै नमः । ओं अच्छावकायै नमः । ओं अष्टावचे नमः । 680 ओं ग्रावस्तुते नमः । ओं प्रतर्दकायै नमः । ओं सुब्रह्मण्यायै नमः । ओं ब्राह्मणायै नमः । ओं मैत्रावरुणायै नमः । ओं वारुणायै नमः । ओं प्रस्तोत्रे नमः । ओं प्रतिप्रस्थात्रे नमः । ओं यजमानायै नमः । ओं ध्रुवन्त्रिकायै नमः । ओं आमिक्षायै नमः । ओं पृषदाज्यायै नमः । ओं हव्यायै नमः । ओं कव्यायै नमः । ओं चरवे नमः । ओं पयसे नमः । ओं जुहुते नमः । ओं उपभृते नमः । ओं ब्रह्मणे नमः । ओं त्रय्यै नमः । 700 ओं त्रेतायै नमः । ओं तरस्विन्यै नमः । ओं पुरोडाशायै नमः । ओं पशूकर्षायै नमः । ओं प्रोक्षण्यै नमः । ओं ब्रह्मयज्ञिन्यै नमः । ओं अग्निजिह्वायै नमः । ओं दर्भरोमायै नमः । ओं ब्रह्मशीर्षायै नमः । ओं महोदर्यै नमः । ओं अमृतप्राशिकायै नमः । ओं नारायण्यै नमः । ओं नग्नायै नमः । ओं दिगम्बरायै नमः । ओं ओङ्कारिण्यै नमः । ओं चतुर्वेदरूपायै नमः । ओं श्रुत्यै नमः । ओं अनुल्बणायै नमः । ओं अष्टादशभुजायै नमः । ओं रम्भायै नमः । 720 ओं सत्यायै नमः । ओं गगनचारिण्यै नमः । ओं भीमवक्त्रायै नमः । ओं महावक्त्रायै नमः । ओं कीर्त्यै नमः । ओं आकृष्णपिङ्गलायै नमः । ओं कृष्णमूर्धायै नमः । ओं महामूर्धायै नमः । ओं घोरमूर्धायै नमः । ओं भयाननायै नमः । ओं घोराननायै नमः । ओं घोरजिह्वायै नमः । ओं घोररावायै नमः । ओं महाव्रतायै नमः । ओं दीप्तास्यायै नमः । ओं दीप्तनेत्रायै नमः । ओं चण्डप्रहरणायै नमः । ओं जट्यै नमः । ओं सुरभ्यै नमः । ओं सौलभ्यै नमः । 740 ओं वीच्यै नमः । ओं छायायै नमः । ओं सन्ध्यायै नमः । ओं मांसलायै नमः । ओं कृष्णायै नमः । ओं कृष्णाम्बरायै नमः । ओं कृष्णशार्ङ्गिण्यै नमः । ओं कृष्णवल्लभायै नमः । ओं त्रासिन्यै नमः । ओं मोहिन्यै नमः । ओं द्वेष्यायै नमः । ओं मृत्युरूपायै नमः । ओं भयापहायै नमः । ओं भीषणायै नमः । ओं दानवेन्द्रघ्न्यै नमः । ओं कल्पकर्त्र्यै नमः । ओं क्षयङ्कर्यै नमः । ओं अभयायै नमः । ओं पृथिव्यै नमः । ओं साध्व्यै नमः । 760 ओं केशिन्यै नमः । ओं व्याधिहायै नमः । ओं जन्महायै नमः । ओं अक्षोभ्यायै नमः । ओं आह्लादिन्यै नमः । ओं कन्यायै नमः । ओं पवित्रायै नमः । ओं रोपिण्यै नमः । ओं शुभायै नमः । ओं कन्यादेव्यै नमः । ओं सुरादेव्यै नमः । ओं भीमादेव्यै नमः । ओं मदन्तिकायै नमः । ओं शाकम्भर्यै नमः । ओं महाश्वेतायै नमः । ओं धूम्रायै नमः । ओं धूम्रेश्वर्यै नमः । ओं ईश्वर्यै नमः । ओं वीरभद्रायै नमः । ओं महाभद्रायै नमः । 780 ओं महादेव्यै नमः । ओं महासुर्यै नमः । ओं श्मशानवासिन्यै नमः । ओं दीप्तायै नमः । ओं चितिसंस्थायै नमः । ओं चितिप्रियायै नमः । ओं कपालहस्तायै नमः । ओं खट्वाङ्ग्यै नमः । ओं खड्गिन्यै नमः । ओं शूलिन्यै नमः । ओं हल्यै नमः । ओं कान्तारिण्यै नमः । ओं महायोग्यै नमः । ओं योगमार्गायै नमः । ओं युगग्रहायै नमः । ओं धूम्रकेतवे नमः । ओं महास्यायै नमः । ओं आयुषे नमः । ओं युगानां परिवर्तिन्यै नमः । ओं अङ्गारिण्यै नमः । 800 ओं अङ्कुशकरायै नमः । ओं घण्टावर्णायै नमः । ओं चक्रिण्यै नमः । ओं वेताल्यै नमः । ओं ब्रह्मवेताल्यै नमः । ओं महावेतालिकायै नमः । ओं विद्याराज्ञ्यै नमः । ओं मोहराज्ञ्यै नमः । ओं महाराज्ञ्यै नमः । ओं महोदर्यै नमः । ओं भूतायै नमः । ओं भव्यायै नमः । ओं भविष्यायै नमः । ओं साङ्ख्यायै नमः । ओं योगायै नमः । ओं तपसे नमः । ओं दमायै नमः । ओं अध्यात्मायै नमः । ओं अधिदेवायै नमः । ओं अधिभूतायै नमः । 820 ओं अंशायै नमः । ओं घण्टारवायै नमः । ओं विरूपाक्ष्यै नमः । ओं शिखिविदे नमः । ओं श्रीचयप्रियायै नमः । ओं खड्गहस्तायै नमः । ओं शूलहस्तायै नमः । ओं गदाहस्तायै नमः । ओं महिषासुरमर्दिन्यै नमः । ओं मातङ्ग्यै नमः । ओं मत्तमातङ्ग्यै नमः । ओं कौशिक्यै नमः । ओं ब्रह्मवादिन्यै नमः । ओं उग्रतेजसे नमः । ओं सिद्धसेनायै नमः । ओं जृम्भिण्यै नमः । ओं मोहिन्यै नमः । ओं जयायै नमः । ओं विजयायै नमः । ओं विनतायै नमः । 840 ओं कद्रवे नमः । ओं धात्र्यै नमः । ओं विधात्र्यै नमः । ओं विक्रान्तायै नमः । ओं ध्वस्तायै नमः । ओं मूर्छायै नमः । ओं मूर्छन्यै नमः । ओं दमन्यै नमः । ओं धर्मिण्यै नमः । ओं दम्यायै नमः । ओं छेदिन्यै नमः । ओं तापिन्यै नमः । ओं तप्यै नमः । ओं बन्धिन्यै नमः । ओं बाधिन्यै नमः । ओं बन्धायै नमः । ओं बोधातीतायै नमः । ओं बुधप्रियायै नमः । ओं हरिण्यै नमः । ओं हारिण्यै नमः । 860 ओं हन्त्र्यै नमः । ओं धरिण्यै नमः । ओं धारिण्यै नमः । ओं धरायै नमः । ओं विसाधिन्यै नमः । ओं साधिन्यै नमः । ओं सन्ध्यायै नमः । ओं सङ्गोपन्यै नमः । ओं प्रियायै नमः । ओं रेवत्यै नमः । ओं कालकर्ण्यै नमः । ओं सिद्ध्यै नमः । ओं लक्ष्म्यै नमः । ओं अरुन्धत्यै नमः । ओं धर्मप्रियायै नमः । ओं धर्मरत्यै नमः । ओं धर्मिष्ठायै नमः । ओं धर्मचारिण्यै नमः । ओं व्युष्ट्यै नमः । ओं ख्यात्यै नमः । 880 ओं सिनीवाल्यै नमः । ओं कुह्व्यै नमः । ओं ऋतुमत्यै नमः । ओं मृत्यै नमः । ओं त्वाष्ट्र्यै नमः । ओं वैरोचन्यै नमः । ओं मैत्र्यै नमः । ओं नीरजायै नमः । ओं कैटभेश्वर्यै नमः । ओं भ्रमण्यै नमः । ओं भ्रामण्यै नमः । ओं भ्रामायै नमः । ओं भ्रमर्यै नमः । ओं भ्रामर्यै नमः । ओं भ्रमायै नमः । ओं निष्कलायै नमः । ओं कलहायै नमः । ओं नीतायै नमः । ओं कौलाकारायै नमः । ओं कलेबरायै नमः । 900 ओं विद्युज्जिह्वायै नमः । ओं वर्षिण्यै नमः । ओं हिरण्याक्षनिपातिन्यै नमः । ओं जितकामायै नमः । ओं कामृगयायै नमः । ओं कोलायै नमः । ओं कल्पाङ्गिन्यै नमः । ओं कलायै नमः । ओं प्रधानायै नमः । ओं तारकायै नमः । ओं तारायै नमः । ओं हितात्मने नमः । ओं हितभेदिन्यै नमः । ओं दुरक्षरायै नमः । ओं परब्रह्मणे नमः । ओं महादानायै नमः । ओं महाहवायै नमः । ओं वारुण्यै नमः । ओं व्यरुण्यै नमः । ओं वाण्यै नमः । 920 ओं वीणायै नमः । ओं वेण्यै नमः । ओं विहङ्गमायै नमः । ओं मोदप्रियायै नमः । ओं मोदकिन्यै नमः । ओं प्लवन्यै नमः । ओं प्लाविन्यै नमः । ओं प्लुत्यै नमः । ओं अजरायै नमः । ओं लोहितायै नमः । ओं लाक्षायै नमः । ओं प्रतप्तायै नमः । ओं विश्वभोजिन्यै नमः । ओं मनसे नमः । ओं बुद्ध्यै नमः । ओं अहङ्कारायै नमः । ओं क्षेत्रज्ञायै नमः । ओं क्षेत्रपालिकायै नमः । ओं चतुर्वेदायै नमः । ओं चतुर्भारायै नमः । 940 ओं चतुरन्तायै नमः । ओं चरुप्रियायै नमः । ओं चर्विण्यै नमः । ओं चोरिण्यै नमः । ओं चार्यै नमः । ओं शाङ्कर्यै नमः । ओं चर्मभैरव्यै नमः । ओं निर्लेपायै नमः । ओं निष्प्रपञ्चायै नमः । ओं प्रशान्तायै नमः । ओं नित्यविग्रहायै नमः । ओं स्तव्यायै नमः । ओं स्तवप्रियायै नमः । ओं व्यालायै नमः । ओं गुरवे नमः । ओं आश्रितवत्सलायै नमः । ओं निष्कलङ्कायै नमः । ओं निरालम्बायै नमः । ओं निर्द्वन्द्वायै नमः । ओं निष्परिग्रहायै नमः । 960 ओं निर्गुणायै नमः । ओं निर्मलायै नमः । ओं नित्यायै नमः । ओं निरीहायै नमः । ओं निरघायै नमः । ओं नवायै नमः । ओं निरिन्द्रियायै नमः । ओं निराभासायै नमः । ओं निर्मोहायै नमः । ओं नीतिनायिकायै नमः । ओं निरिन्धनायै नमः । ओं निष्कलायै नमः । ओं लीलाकारायै नमः । ओं निरामयायै नमः । ओं मुण्डायै नमः । ओं विरूपायै नमः । ओं विकृतायै नमः । ओं पिङ्गलाक्ष्यै नमः । ओं गुणोत्तरायै नमः । ओं पद्मगर्भायै नमः । 980 ओं महागर्भायै नमः । ओं विश्वगर्भायै नमः । ओं विलक्षणायै नमः । ओं परमात्मने नमः । ओं परेशान्यै नमः । ओं परायै नमः । ओं पारायै नमः । ओं परन्तपायै नमः । ओं संसारसेतवे नमः । ओं क्रूराक्ष्यै नमः । ओं मूर्छामुक्तायै नमः । ओं मनुप्रियायै नमः । ओं विस्मयायै नमः । ओं दुर्जयायै नमः । ओं दक्षायै नमः । ओं दनुहन्त्र्यै नमः । ओं दयालयायै नमः । ओं परब्रह्मणे नमः । ओं आनन्दरूपायै नमः । ओं सर्वसिद्धिविधायिन्यै नमः । 1000 इति श्री वाराही सहस्रनामावलिः ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits