हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
वाराही कवचम्
अस्य
श्रीवाराहीकवचस्य
त्रिलोचन
ऋषिः,
अनुष्टुप्
छन्दः,
श्रीवाराही
देवता,
ओं
बीजं,
ग्लौं
शक्तिः,
स्वाहेति
कीलकं,
मम
सर्वशत्रुनाशनार्थे
जपे
विनियोगः
॥
ध्यानम्
।
ध्यात्वेन्द्रनीलवर्णाभां
चन्द्रसूर्याग्निलोचनाम्
।
विधिविष्णुहरेन्द्रादि
मातृभैरवसेविताम्
॥
1
॥
ज्वलन्मणिगणप्रोक्तमकुटामाविलम्बिताम्
।
अस्त्रशस्त्राणि
सर्वाणि
तत्तत्कार्योचितानि
च
॥
2
॥
एतैः
समस्तैर्विविधं
बिभ्रतीं
मुसलं
हलम्
।
पात्वा
हिंस्रान्
हि
कवचं
भुक्तिमुक्तिफलप्रदम्
॥
3
॥
पठेत्त्रिसन्ध्यं
रक्षार्थं
घोरशत्रुनिवृत्तिदम्
।
वार्ताली
मे
शिरः
पातु
घोराही
फालमुत्तमम्
॥
4
॥
नेत्रे
वराहवदना
पातु
कर्णौ
तथाञ्जनी
।
घ्राणं
मे
रुन्धिनी
पातु
मुखं
मे
पातु
जम्भिनी
॥
5
॥
पातु
मे
मोहिनी
जिह्वां
स्तम्भिनी
कण्ठमादरात्
।
स्कन्धौ
मे
पञ्चमी
पातु
भुजौ
महिषवाहना
॥
6
॥
सिंहारूढा
करौ
पातु
कुचौ
कृष्णमृगाञ्चिता
।
नाभिं
च
शङ्खिनी
पातु
पृष्ठदेशे
तु
चक्रिणि
॥
7
॥
खड्गं
पातु
च
कट्यां
मे
मेढ्रं
पातु
च
खेदिनी
।
गुदं
मे
क्रोधिनी
पातु
जघनं
स्तम्भिनी
तथा
॥
8
॥
चण्डोच्चण्डश्चोरुयुग्मं
जानुनी
शत्रुमर्दिनी
।
जङ्घाद्वयं
भद्रकाली
महाकाली
च
गुल्फयोः
॥
9
॥
पादाद्यङ्गुलिपर्यन्तं
पातु
चोन्मत्तभैरवी
।
सर्वाङ्गं
मे
सदा
पातु
कालसङ्कर्षणी
तथा
॥
10
॥
युक्तायुक्तस्थितं
नित्यं
सर्वपापात्प्रमुच्यते
।
सर्वे
समर्थ्य
संयुक्तं
भक्तरक्षणतत्परम्
॥
11
॥
समस्तदेवता
सर्वं
सव्यं
विष्णोः
पुरार्धने
।
सर्वशत्रुविनाशाय
शूलिना
निर्मितं
पुरा
॥
12
॥
सर्वभक्तजनाश्रित्य
सर्वविद्वेषसंहतिः
।
वाराही
कवचं
नित्यं
त्रिसन्ध्यं
यः
पठेन्नरः
॥
13
॥
तथा
विधं
भूतगणा
न
स्पृशन्ति
कदाचन
।
आपदः
शत्रुचोरादि
ग्रहदोषाश्च
सम्भवाः
॥
14
॥
माता
पुत्रं
यथा
वत्सं
धेनुः
पक्ष्मेव
लोचनम्
।
तथाङ्गमेव
वाराही
रक्षा
रक्षाति
सर्वदा
॥
15
॥
इति
श्रीरुद्रयामलतन्त्रे
श्री
वाराही
कवचम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits