Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

वाराही अष्टोत्तर शतनामावलिः

ओं वराहवदनायै नमः । ओं वाराह्यै नमः । ओं वररूपिण्यै नमः । ओं क्रोडाननायै नमः । ओं कोलमुख्यै नमः । ओं जगदम्बायै नमः । ओं तारुण्यै नमः । ओं विश्वेश्वर्यै नमः । ओं शङ्खिन्यै नमः । ओं चक्रिण्यै नमः । 10 ओं खड्गशूलगदाहस्तायै नमः । ओं मुसलधारिण्यै नमः । ओं हलसकादि समायुक्तायै नमः । ओं भक्तानां अभयप्रदायै नमः । ओं इष्टार्थदायिन्यै नमः । ओं घोरायै नमः । ओं महाघोरायै नमः । ओं महामायायै नमः । ओं वार्ताल्यै नमः । ओं जगदीश्वर्यै नमः । 20 ओं अन्धे अन्धिन्यै नमः । ओं रुन्धे रुन्धिन्यै नमः । ओं जम्भे जम्भिन्यै नमः । ओं मोहे मोहिन्यै नमः । ओं स्तम्भे स्तम्भिन्यै नमः । ओं देवेश्यै नमः । ओं शत्रुनाशिन्यै नमः । ओं अष्टभुजायै नमः । ओं चतुर्हस्तायै नमः । ओं उन्मत्तभैरवाङ्कस्थायै नमः । 30 ओं कपिललोचनायै नमः । ओं पञ्चम्यै नमः । ओं लोकेश्यै नमः । ओं नीलमणिप्रभायै नमः । ओं अञ्जनाद्रिप्रतीकाशायै नमः । ओं सिंहारुढायै नमः । ओं त्रिलोचनायै नमः । ओं श्यामलायै नमः । ओं परमायै नमः । ओं ईशान्यै नमः । 40 ओं नीलायै नमः । ओं इन्दीवरसन्निभायै नमः । ओं घनस्तनसमोपेतायै नमः । ओं कपिलायै नमः । ओं कलात्मिकायै नमः । ओं अम्बिकायै नमः । ओं जगद्धारिण्यै नमः । ओं भक्तोपद्रवनाशिन्यै नमः । ओं सगुणायै नमः । ओं निष्कलायै नमः । 50 ओं विद्यायै नमः । ओं नित्यायै नमः । ओं विश्ववशङ्कर्यै नमः । ओं महारूपायै नमः । ओं महेश्वर्यै नमः । ओं महेन्द्रितायै नमः । ओं विश्वव्यापिन्यै नमः । ओं देव्यै नमः । ओं पशूनां अभयङ्कर्यै नमः । ओं कालिकायै नमः । 60 ओं भयदायै नमः । [भवदायै] ओं बलिमांसमहाप्रियायै नमः । ओं जयभैरव्यै नमः । ओं कृष्णाङ्गायै नमः । ओं परमेश्वरवल्लभायै नमः । ओं सुधायै नमः । ओं स्तुत्यै नमः । ओं सुरेशान्यै नमः । ओं ब्रह्मादिवरदायिन्यै नमः । ओं स्वरूपिण्यै नमः । 70 ओं सुराणां अभयप्रदायै नमः । ओं वराहदेहसम्भूतायै नमः । ओं श्रोणी वारालसे नमः । ओं क्रोधिन्यै नमः । ओं नीलास्यायै नमः । ओं शुभदायै नमः । ओं अशुभवारिण्यै नमः । ओं शत्रूणां वाक्‍स्तम्भनकारिण्यै नमः । ओं शत्रूणां गतिस्तम्भनकारिण्यै नमः । ओं शत्रूणां मतिस्तम्भनकारिण्यै नमः । 80 ओं शत्रूणां अक्षिस्तम्भनकारिण्यै नमः । ओं शत्रूणां मुखस्तम्भिन्यै नमः । ओं शत्रूणां जिह्वास्तम्भिन्यै नमः । ओं शत्रूणां निग्रहकारिण्यै नमः । ओं शिष्टानुग्रहकारिण्यै नमः । ओं सर्वशत्रुक्षयङ्कर्यै नमः । ओं सर्वशत्रुसादनकारिण्यै नमः । ओं सर्वशत्रुविद्वेषणकारिण्यै नमः । ओं भैरवीप्रियायै नमः । ओं मन्त्रात्मिकायै नमः । 90 ओं यन्त्ररूपायै नमः । ओं तन्त्ररूपिण्यै नमः । ओं पीठात्मिकायै नमः । ओं देवदेव्यै नमः । ओं श्रेयस्कर्यै नमः । ओं चिन्तितार्थप्रदायिन्यै नमः । ओं भक्तालक्ष्मीविनाशिन्यै नमः । ओं सम्पत्प्रदायै नमः । ओं सौख्यकारिण्यै नमः । ओं बाहुवाराह्यै नमः । 100 ओं स्वप्नवाराह्यै नमः । ओं भगवत्यै नमः । ओं ईश्वर्यै नमः । ओं सर्वाराध्यायै नमः । ओं सर्वमयायै नमः । ओं सर्वलोकात्मिकायै नमः । ओं महिषासनायै नमः । ओं बृहद्वाराह्यै नमः । 108 इति श्रीवाराह्यष्टोत्तरशतनामावलिः ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits