Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

श्री वराहमुखी स्तवः

कुवलयनिभा कौशेयार्धोरुका मुकुटोज्ज्वला हलमुसलिनी सद्भक्तेभ्यो वराभयदायिनी कपिलनयना मध्ये क्षामा कठोरघनस्तनी जयति जगतां मातः सा ते वराहमुखी तनुः 1 तरति विपदो घोरा दूरात्परिह्रियते भयं स्खलितमतिभिर्भूतप्रेतैः स्वयं व्रियते श्रिया क्षपयति रिपूनीष्टे वाचां रणे लभते जयं वशयति जगत्सर्वं वाराहि यस्त्वयि भक्तिमान् 2 स्तिमितगतयः सीदद्वाचः परिच्युतहेतयः क्षुभितहृदयाः सद्यो नश्यद्दृशो गलितौजसः भयपरवशा भग्नोत्साहाः पराहतपौरुषाः भगवति पुरस्त्वद्भक्तानां भवन्ति विरोधिनः 3 किसलयमृदुर्हस्तः क्लिश्येत कन्दुकलीलया भगवति महाभारः क्रीडासरोरुहमेव ते तदपि मुसलं धत्से हस्ते हलं समयद्रुहां हरसि तदाघातैः प्राणानहो तव साहसम् 4 जननि नियतस्थाने त्वद्वामदक्षिणपार्श्वयो- -र्मृदुभुजलतामन्दोक्षेपप्रवातितचामरे सततमुदिते गुह्याचारद्रुहां रुधिरासवै- -रुपशमयतां शत्रून् सर्वानुभे मम दैवते 5 हरतु दुरितं क्षेत्राधीशः स्वशासनविद्विषां रुधिरमदिरामत्तः प्राणोपहारबलिप्रियः अविरतचटत्कुर्वद्दंष्ट्रास्थिकोटिरटन्मुखो भगवति ते चण्डोच्चण्डः सदा पुरतः स्थितः 6 क्षुभितमकरैर्वीचीहस्तोपरुद्धपरस्परै- -श्चतुरुदधिभिः क्रान्ता कल्पान्तदुर्ललितोदकैः जननि कथमुत्तिष्ठेत् पातालसर्पबिलादिला तव तु कुटिले दंष्ट्राकोटी चेदवलम्बनम् 7 तमसि बहुले शून्याटव्यां पिशाचनिशाचर- -प्रमथकलहे चोरव्याघ्रोरगद्विपसङ्कटे क्षुभितमनसः क्षुद्रस्यैकाकिनोऽपि कुतो भयं सकृदपि मुखे मातस्त्वन्नाम सन्निहितं यदि 8 विदितविभवं हृद्यैः पद्यैर्वराहमुखीस्तवं सकलफलदं पूर्णं मन्त्राक्षरैरिममेव यः पठति पटुः प्राप्नोत्यायुश्चिरं कवितां प्रियां सुतसुखधनारोग्यं कीर्तिं श्रियं जयमुर्वराम् 9 इति श्री वराहमुखी स्तवः

Recite with devotion and pure heart

Regular practice brings spiritual benefits