Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

सरस्वती सहस्रनामावलिः

ओं वाचे नमः । ओं वाण्यै नमः । ओं वरदायै नमः । ओं वन्द्यायै नमः । ओं वरारोहायै नमः । ओं वरप्रदायै नमः । ओं वृत्त्यै नमः । ओं वागीश्वर्यै नमः । ओं वार्तायै नमः । ओं वरायै नमः । ओं वागीशवल्लभायै नमः । ओं विश्वेश्वर्यै नमः । ओं विश्ववन्द्यायै नमः । ओं विश्वेशप्रियकारिण्यै नमः । ओं वाग्वादिन्यै नमः । ओं वाग्देव्यै नमः । ओं वृद्धिदायै नमः । ओं वृद्धिकारिण्यै नमः । ओं वृद्ध्यै नमः । ओं वृद्धायै नमः । 20 ओं विषघ्न्यै नमः । ओं वृष्ट्यै नमः । ओं वृष्टिप्रदायिन्यै नमः । ओं विश्वाराध्यायै नमः । ओं विश्वमात्रे नमः । ओं विश्वधात्र्यै नमः । ओं विनायकायै नमः । ओं विश्वशक्त्यै नमः । ओं विश्वसारायै नमः । ओं विश्वायै नमः । ओं विश्वविभावर्यै नमः । ओं वेदान्तवेदिन्यै नमः । ओं वेद्यायै नमः । ओं वित्तायै नमः । ओं वेदत्रयात्मिकायै नमः । ओं वेदज्ञायै नमः । ओं वेदजनन्यै नमः । ओं विश्वायै नमः । ओं विश्वविभावर्यै नमः । ओं वरेण्यायै नमः । 40 ओं वाङ्मय्यै नमः । ओं वृद्धायै नमः । ओं विशिष्टप्रियकारिण्यै नमः । ओं विश्वतोवदनायै नमः । ओं व्याप्तायै नमः । ओं व्यापिन्यै नमः । ओं व्यापकात्मिकायै नमः । ओं व्यालघ्न्यै नमः । ओं व्यालभूषाङ्ग्यै नमः । ओं विरजायै नमः । ओं वेदनायिकायै नमः । ओं वेदवेदान्तसंवेद्यायै नमः । ओं वेदान्तज्ञानरूपिण्यै नमः । ओं विभावर्यै नमः । ओं विक्रान्तायै नमः । ओं विश्वामित्रायै नमः । ओं विधिप्रियायै नमः । ओं वरिष्ठायै नमः । ओं विप्रकृष्टायै नमः । ओं विप्रवर्यप्रपूजितायै नमः । 60 ओं वेदरूपायै नमः । ओं वेदमय्यै नमः । ओं वेदमूर्त्यै नमः । ओं वल्लभायै नमः । ओं गौर्यै नमः । ओं गुणवत्यै नमः । ओं गोप्यायै नमः । ओं गन्धर्वनगरप्रियायै नमः । ओं गुणमात्रे नमः । ओं गुणान्तस्थायै नमः । ओं गुरुरूपायै नमः । ओं गुरुप्रियायै नमः । ओं गुरुविद्यायै नमः । ओं गानतुष्टायै नमः । ओं गायकप्रियकारिण्यै नमः । ओं गायत्र्यै नमः । ओं गिरीशाराध्यायै नमः । ओं गिरे नमः । ओं गिरीशप्रियङ्कर्यै नमः । ओं गिरिज्ञायै नमः । 80 ओं ज्ञानविद्यायै नमः । ओं गिरिरूपायै नमः । ओं गिरीश्वर्यै नमः । ओं गीर्मात्रे नमः । ओं गणसंस्तुत्यायै नमः । ओं गणनीयगुणान्वितायै नमः । ओं गूढरूपायै नमः । ओं गुहायै नमः । ओं गोप्यायै नमः । ओं गोरूपायै नमः । ओं गवे नमः । ओं गुणात्मिकायै नमः । ओं गुर्व्यै नमः । ओं गुर्वम्बिकायै नमः । ओं गुह्यायै नमः । ओं गेयजायै नमः । ओं गृहनाशिन्यै नमः । ओं गृहिण्यै नमः । ओं गृहदोषघ्न्यै नमः । ओं गवघ्न्यै नमः । 100 ओं गुरुवत्सलायै नमः । ओं गृहात्मिकायै नमः । ओं गृहाराध्यायै नमः । ओं गृहबाधाविनाशिन्यै नमः । ओं गङ्गायै नमः । ओं गिरिसुतायै नमः । ओं गम्यायै नमः । ओं गजयानायै नमः । ओं गुहस्तुतायै नमः । ओं गरुडासनसंसेव्यायै नमः । ओं गोमत्यै नमः । ओं गुणशालिन्यै नमः । ओं शारदायै नमः । ओं शाश्वत्यै नमः । ओं शैव्यै नमः । ओं शाङ्कर्यै नमः । ओं शङ्करात्मिकायै नमः । ओं श्रियै नमः । ओं शर्वाण्यै नमः । ओं शतघ्न्यै नमः । 120 ओं शरच्चन्द्रनिभाननायै नमः । ओं शर्मिष्ठायै नमः । ओं शमनघ्न्यै नमः । ओं शतसाहस्ररूपिण्यै नमः । ओं शिवायै नमः । ओं शम्भुप्रियायै नमः । ओं श्रद्धायै नमः । ओं श्रुतिरूपायै नमः । ओं श्रुतिप्रियायै नमः । ओं शुचिष्मत्यै नमः । ओं शर्मकर्यै नमः । ओं शुद्धिदायै नमः । ओं शुद्धिरूपिण्यै नमः । ओं शिवायै नमः । ओं शिवङ्कर्यै नमः । ओं शुद्धायै नमः । ओं शिवाराध्यायै नमः । ओं शिवात्मिकायै नमः । ओं श्रीमत्यै नमः । ओं श्रीमय्यै नमः । 140 ओं श्राव्यायै नमः । ओं श्रुत्यै नमः । ओं श्रवणगोचरायै नमः । ओं शान्त्यै नमः । ओं शान्तिकर्यै नमः । ओं शान्तायै नमः । ओं शान्ताचारप्रियङ्कर्यै नमः । ओं शीललभ्यायै नमः । ओं शीलवत्यै नमः । ओं श्रीमात्रे नमः । ओं शुभकारिण्यै नमः । ओं शुभवाण्यै नमः । ओं शुद्धविद्यायै नमः । ओं शुद्धचित्तप्रपूजितायै नमः । ओं श्रीकर्यै नमः । ओं श्रुतपापघ्न्यै नमः । ओं शुभाक्ष्यै नमः । ओं शुचिवल्लभायै नमः । ओं शिवेतरघ्न्यै नमः । ओं शबर्यै नमः । 160 [शर्वर्यै] ओं श्रवणीयगुणान्वितायै नमः । ओं शार्यै नमः । ओं शिरीषपुष्पाभायै नमः । ओं शमनिष्ठायै नमः । ओं शमात्मिकायै नमः । ओं शमान्वितायै नमः । ओं शमाराध्यायै नमः । ओं शितिकण्ठप्रपूजितायै नमः । ओं शुद्ध्यै नमः । ओं शुद्धिकर्यै नमः । ओं श्रेष्ठायै नमः । ओं श्रुतानन्तायै नमः । ओं शुभावहायै नमः । ओं सरस्वत्यै नमः । ओं सर्वज्ञायै नमः । ओं सर्वसिद्धिप्रदायिन्यै नमः । ओं सरस्वत्यै नमः । ओं सावित्र्यै नमः । ओं सन्ध्यायै नमः । ओं सर्वेप्सितप्रदायै नमः । 180 ओं सर्वार्तिघ्न्यै नमः । ओं सर्वमय्यै नमः । ओं सर्वविद्याप्रदायिन्यै नमः । ओं सर्वेश्वर्यै नमः । ओं सर्वपुण्यायै नमः । ओं सर्गस्थित्यन्तकारिण्यै नमः । ओं सर्वाराध्यायै नमः । ओं सर्वमात्रे नमः । ओं सर्वदेवनिषेवितायै नमः । ओं सर्वैश्वर्यप्रदायै नमः । ओं सत्यायै नमः । ओं सत्यै नमः । ओं सत्वगुणाश्रयायै नमः । ओं सर्वक्रमपदाकारायै नमः । ओं सर्वदोषनिषूदिन्यै नमः । ओं सहस्राक्ष्यै नमः । ओं सहस्रास्यायै नमः । ओं सहस्रपदसंयुतायै नमः । ओं सहस्रहस्तायै नमः । ओं सहस्रगुणालङ्कृतविग्रहायै नमः । 200 ओं सहस्रशीर्षायै नमः । ओं सद्रूपायै नमः । ओं स्वधायै नमः । ओं स्वाहायै नमः । ओं सुधामय्यै नमः । ओं षड्ग्रन्थिभेदिन्यै नमः । ओं सेव्यायै नमः । ओं सर्वलोकैकपूजितायै नमः । ओं स्तुत्यायै नमः । ओं स्तुतिमय्यै नमः । ओं साध्यायै नमः । ओं सवितृप्रियकारिण्यै नमः । ओं संशयच्छेदिन्यै नमः । ओं साङ्ख्यवेद्यायै नमः । ओं सङ्ख्यायै नमः । ओं सदीश्वर्यै नमः । ओं सिद्धिदायै नमः । ओं सिद्धसम्पूज्यायै नमः । ओं सर्वसिद्धिप्रदायिन्यै नमः । ओं सर्वज्ञायै नमः । 220 ओं सर्वशक्त्यै नमः । ओं सर्वसम्पत्प्रदायिन्यै नमः । ओं सर्वाऽशुभघ्न्यै नमः । ओं सुखदायै नमः । ओं सुखयै नमः । ओं संवित्स्वरूपिण्यै नमः । ओं सर्वसम्भाषण्यै नमः । ओं सर्वजगत्सम्मोहिन्यै नमः । ओं सर्वप्रियङ्कर्यै नमः । ओं सर्वशुभदायै नमः । ओं सर्वमङ्गलायै नमः । ओं सर्वमन्त्रमय्यै नमः । ओं सर्वतीर्थपुण्यफलप्रदायै नमः । ओं सर्वपुण्यमय्यै नमः । ओं सर्वव्याधिघ्न्यै नमः । ओं सर्वकामदायै नमः । ओं सर्वविघ्नहर्यै नमः । ओं सर्ववन्दितायै नमः । ओं सर्वमङ्गलायै नमः । ओं सर्वमन्त्रकर्यै नमः । 240 ओं सर्वलक्ष्म्यै नमः । ओं सर्वगुणान्वितायै नमः । ओं सर्वानन्दमय्यै नमः । ओं सर्वज्ञानदायै नमः । ओं सत्यनायिकायै नमः । ओं सर्वज्ञानमय्यै नमः । ओं सर्वराज्यदायै नमः । ओं सर्वमुक्तिदायै नमः । ओं सुप्रभायै नमः । ओं सर्वदायै नमः । ओं सर्वायै नमः । ओं सर्वलोकवशङ्कर्यै नमः । ओं सुभगायै नमः । ओं सुन्दर्यै नमः । ओं सिद्धायै नमः । ओं सिद्धाम्बायै नमः । ओं सिद्धमातृकायै नमः । ओं सिद्धमात्रे नमः । ओं सिद्धविद्यायै नमः । ओं सिद्धेश्यै नमः । 260 ओं सिद्धरूपिण्यै नमः । ओं सुरूपिण्यै नमः । ओं सुखमय्यै नमः । ओं सेवकप्रियकारिण्यै नमः । ओं स्वामिन्यै नमः । ओं सर्वदायै नमः । ओं सेव्यायै नमः । ओं स्थूलसूक्ष्मापराम्बिकायै नमः । ओं साररूपायै नमः । ओं सरोरूपायै नमः । ओं सत्यभूतायै नमः । ओं समाश्रयायै नमः । ओं सिताऽसितायै नमः । ओं सरोजाक्ष्यै नमः । ओं सरोजासनवल्लभायै नमः । ओं सरोरुहाभायै नमः । ओं सर्वाङ्ग्यै नमः । ओं सुरेन्द्रादिप्रपूजितायै नमः । ओं महादेव्यै नमः । ओं महेशान्यै नमः । 280 ओं महासारस्वतप्रदायै नमः । ओं महासरस्वत्यै नमः । ओं मुक्तायै नमः । ओं मुक्तिदायै नमः । ओं मोहनाशिन्यै नमः । ओं महेश्वर्यै नमः । ओं महानन्दायै नमः । ओं महामन्त्रमय्यै नमः । ओं मह्यै नमः । ओं महालक्ष्म्यै नमः । ओं महाविद्यायै नमः । ओं मात्रे नमः । ओं मन्दरवासिन्यै नमः । ओं मन्त्रगम्यायै नमः । ओं मन्त्रमात्रे नमः । ओं महामन्त्रफलप्रदायै नमः । ओं महामुक्त्यै नमः ओं महानित्यायै नमः । ओं महासिद्धिप्रदायिन्यै नमः । ओं महासिद्धायै नमः । 300 ओं महामात्रे नमः । ओं महदाकारसंयुतायै नमः । ओं मह्यै नमः । ओं महेश्वर्यै नमः । ओं मूर्त्यै नमः । ओं मोक्षदायै नमः । ओं मणिभूषणायै नमः । ओं मेनकायै नमः । ओं मानिन्यै नमः । ओं मान्यायै नमः । ओं मृत्युघ्न्यै नमः । ओं मेरुरूपिण्यै नमः । ओं मदिराक्ष्यै नमः । ओं मदावासायै नमः । ओं मखरूपायै नमः । ओं मखेश्वर्यै नमः । ओं महामोहायै नमः । ओं महामायायै नमः । ओं मातॄणां मूर्ध्निसंस्थितायै नमः । ओं महापुण्यायै नमः । 320 ओं मुदावासायै नमः । ओं महासम्पत्प्रदायिन्यै नमः । ओं मणिपूरैकनिलयायै नमः । ओं मधुरूपायै नमः । ओं मदोत्कटायै नमः । ओं महासूक्ष्मायै नमः । ओं महाशान्तायै नमः । ओं महाशान्तिप्रदायिन्यै नमः । ओं मुनिस्तुतायै नमः । ओं मोहहन्त्र्यै नमः । ओं माधव्यै नमः । ओं माधवप्रियायै नमः । ओं मायै नमः । ओं महादेवसंस्तुत्यायै नमः । ओं महिषीगणपूजितायै नमः । ओं मृष्टान्नदायै नमः । ओं माहेन्द्र्यै नमः । ओं महेन्द्रपददायिन्यै नमः । ओं मत्यै नमः । ओं मतिप्रदायै नमः । 340 ओं मेधायै नमः । ओं मर्त्यलोकनिवासिन्यै नमः । ओं मुख्यायै नमः । ओं महानिवासायै नमः । ओं महाभाग्यजनाश्रितायै नमः । ओं महिलायै नमः । ओं महिमायै नमः । ओं मृत्युहार्यै नमः । ओं मेधाप्रदायिन्यै नमः । ओं मेध्यायै नमः । ओं महावेगवत्यै नमः । ओं महामोक्षफलप्रदायै नमः । ओं महाप्रभाभायै नमः । ओं महत्यै नमः । ओं महादेवप्रियङ्कर्यै नमः । ओं महापोषायै नमः । ओं महर्थ्यै नमः । ओं मुक्ताहारविभूषणायै नमः । ओं माणिक्यभूषणायै नमः । ओं मन्त्रायै नमः । 360 ओं मुख्यचन्द्रार्धशेखरायै नमः । ओं मनोरूपायै नमः । ओं मनश्शुद्ध्यै नमः । ओं मनश्शुद्धिप्रदायिन्यै नमः । ओं महाकारुण्यसम्पूर्णायै नमः । ओं मनोनमनवन्दितायै नमः । ओं महापातकजालघ्न्यै नमः । ओं मुक्तिदायै नमः । ओं मुक्तभूषणायै नमः । ओं मनोन्मन्यै नमः । ओं महास्थूलायै नमः । ओं महाक्रतुफलप्रदायै नमः । ओं महापुण्यफलप्राप्यायै नमः । ओं मायात्रिपुरनाशिन्यै नमः । ओं महानसायै नमः । ओं महामेधायै नमः । ओं महामोदायै नमः । ओं महेश्वर्यै नमः । ओं मालाधर्यै नमः । ओं महोपायायै नमः । 380 ओं महातीर्थफलप्रदायै नमः । ओं महामङ्गलसम्पूर्णायै नमः । ओं महादारिद्र्यनाशिन्यै नमः । ओं महामखायै नमः । ओं महामेघायै नमः । ओं महाकाल्यै नमः । ओं महाप्रियायै नमः । ओं महाभूषायै नमः । ओं महादेहायै नमः । ओं महाराज्ञ्यै नमः । ओं मुदालयायै नमः । ओं भूरिदायै नमः । ओं भाग्यदायै नमः । ओं भोग्यायै नमः । ओं भोग्यदायै नमः । ओं भोगदायिन्यै नमः । ओं भवान्यै नमः । ओं भूतिदायै नमः । ओं भूत्यै नमः । ओं भूम्यै नमः । 400 ओं भूमिसुनायिकायै नमः । ओं भूतधात्र्यै नमः । ओं भयहर्यै नमः । ओं भक्तसारस्वतप्रदायै नमः । ओं भुक्त्यै नमः । ओं भुक्तिप्रदायै नमः । ओं भोक्त्र्यै नमः । ओं भक्त्यै नमः । ओं भक्तिप्रदायिन्यै नमः । ओं भक्तसायुज्यदायै नमः । ओं भक्तस्वर्गदायै नमः । ओं भक्तराज्यदायै नमः । ओं भागीरथ्यै नमः । ओं भवाराध्यायै नमः । ओं भाग्यासज्जनपूजितायै नमः । ओं भवस्तुत्यायै नमः । ओं भानुमत्यै नमः । ओं भवसागरतारिण्यै नमः । ओं भूत्यै नमः । ओं भूषायै नमः । 420 ओं भूतेश्यै नमः । ओं भाललोचनपूजितायै नमः । ओं भूतायै नमः । ओं भव्यायै नमः । ओं भविष्यायै नमः । ओं भवविद्यायै नमः । ओं भवात्मिकायै नमः । ओं बाधापहारिण्यै नमः । ओं बन्धुरूपायै नमः । ओं भुवनपूजितायै नमः । ओं भवघ्न्यै नमः । ओं भक्तिलभ्यायै नमः । ओं भक्तरक्षणतत्परायै नमः । ओं भक्तार्तिशमन्यै नमः । ओं भाग्यायै नमः । ओं भोगदानकृतोद्यमायै नमः । ओं भुजङ्गभूषणायै नमः । ओं भीमायै नमः । ओं भीमाक्ष्यै नमः । ओं भीमरूपिण्यै नमः । 440 ओं भाविन्यै नमः । ओं भ्रातृरूपायै नमः । ओं भारत्यै नमः । ओं भवनायिकायै नमः । ओं भाषायै नमः । ओं भाषावत्यै नमः । ओं भीष्मायै नमः । ओं भैरव्यै नमः । ओं भैरवप्रियायै नमः । ओं भूत्यै नमः । ओं भासितसर्वाङ्ग्यै नमः । ओं भूतिदायै नमः । ओं भूतिनायिकायै नमः । ओं भास्वत्यै नमः । ओं भगमालायै नमः । ओं भिक्षादानकृतोद्यमायै नमः । ओं भिक्षुरूपायै नमः । ओं भक्तिकर्यै नमः । ओं भक्तलक्ष्मीप्रदायिन्यै नमः । ओं भ्रान्तिघ्नायै नमः । 460 ओं भ्रान्तिरूपायै नमः । ओं भूतिदायै नमः । ओं भूतिकारिण्यै नमः । ओं भिक्षणीयायै नमः । ओं भिक्षुमात्रे नमः । ओं भाग्यवद्दृष्टिगोचरायै नमः । ओं भोगवत्यै नमः । ओं भोगरूपायै नमः । ओं भोगमोक्षफलप्रदायै नमः । ओं भोगश्रान्तायै नमः । ओं भाग्यवत्यै नमः । ओं भक्ताघौघविनाशिन्यै नमः । ओं ब्राह्म्यै नमः । ओं ब्रह्मस्वरूपायै नमः । ओं बृहत्यै नमः । ओं ब्रह्मवल्लभायै नमः । ओं ब्रह्मदायै नमः । ओं ब्रह्ममात्रे नमः । ओं ब्रह्माण्यै नमः । ओं ब्रह्मदायिन्यै नमः । 480 ओं ब्रह्मेश्यै नमः । ओं ब्रह्मसंस्तुत्यायै नमः । ओं ब्रह्मवेद्यायै नमः । ओं बुधप्रियायै नमः । ओं बालेन्दुशेखरायै नमः । ओं बालायै नमः । ओं बलिपूजाकरप्रियायै नमः । ओं बलदायै नमः । ओं बिन्दुरूपायै नमः । ओं बालसूर्यसमप्रभायै नमः । ओं ब्रह्मरूपायै नमः । ओं ब्रह्ममय्यै नमः । ओं ब्रध्नमण्डलमध्यगायै नमः । ओं ब्रह्माण्यै नमः । ओं बुद्धिदायै नमः । ओं बुद्ध्यै नमः । ओं बुद्धिरूपायै नमः । ओं बुधेश्वर्यै नमः । ओं बन्धक्षयकर्यै नमः । ओं बाधानाशिन्यै नमः । 500 ओं बन्धुरूपिण्यै नमः । ओं बिन्द्वालयायै नमः । ओं बिन्दुभूषायै नमः । ओं बिन्दुनादसमन्वितायै नमः । ओं बीजरूपायै नमः । ओं बीजमात्रे नमः । ओं ब्रह्मण्यायै नमः । ओं ब्रह्मकारिण्यै नमः । ओं बहुरूपायै नमः । ओं बलवत्यै नमः । ओं ब्रह्मज्ञायै नमः । ओं ब्रह्मचारिण्यै नमः । ओं ब्रह्मस्तुत्यायै नमः । ओं ब्रह्मविद्यायै नमः । ओं ब्रह्माण्डाधिपवल्लभायै नमः । ओं ब्रह्मेशविष्णुरूपायै नमः । ओं ब्रह्मविष्ण्वीशसंस्थितायै नमः । ओं बुद्धिरूपायै नमः । ओं बुधेशान्यै नमः । ओं बन्ध्यै नमः । 520 ओं बन्धविमोचन्यै नमः । ओं अक्षमालायै नमः । ओं अक्षराकारायै नमः । ओं अक्षरायै नमः । ओं अक्षरफलप्रदायै नमः । ओं अनन्तायै नमः । ओं आनन्दसुखदायै नमः । ओं अनन्तचन्द्रनिभाननायै नमः । ओं अनन्तमहिमायै नमः । ओं अघोरायै नमः । ओं अनन्तगम्भीरसम्मितायै नमः । ओं अदृष्टायै नमः । ओं अदृष्टदायै नमः । ओं अनन्तायै नमः । ओं अदृष्टभाग्यफलप्रदायै नमः । ओं अरुन्धत्यै नमः । ओं अव्ययीनाथायै नमः । ओं अनेकसद्गुणसंयुतायै नमः । ओं अनेकभूषणायै नमः । ओं अदृश्यायै नमः । 540 ओं अनेकलेखनिषेवितायै नमः । ओं अनन्तायै नमः । ओं अनन्तसुखदायै नमः । ओं अघोरायै नमः । ओं अघोरस्वरूपिण्यै नमः । ओं अशेषदेवतारूपायै नमः । ओं अमृतरूपायै नमः । ओं अमृतेश्वर्यै नमः । ओं अनवद्यायै नमः । ओं अनेकहस्तायै नमः । ओं अनेकमाणिक्यभूषणायै नमः । ओं अनेकविघ्नसंहर्त्र्यै नमः । ओं अनेकाभरणान्वितायै नमः । ओं अविद्याज्ञानसंहर्त्र्यै नमः । ओं अविद्याजालनाशिन्यै नमः । ओं अभिरूपायै नमः । ओं अनवद्याङ्ग्यै नमः । ओं अप्रतर्क्यगतिप्रदायै नमः । ओं अकलङ्करूपिण्यै नमः । ओं अनुग्रहपरायणायै नमः । 560 ओं अम्बरस्थायै नमः । ओं अम्बरमयायै नमः । ओं अम्बरमालायै नमः । ओं अम्बुजेक्षणायै नमः । ओं अम्बिकायै नमः । ओं अब्जकरायै नमः । ओं अब्जस्थायै नमः । ओं अंशुमत्यै नमः । ओं अंशुशतान्वितायै नमः । ओं अम्बुजायै नमः । ओं अनवरायै नमः । ओं अखण्डायै नमः । ओं अम्बुजासनमहाप्रियायै नमः । ओं अजरायै नमः । ओं अमरसंसेव्यायै नमः । ओं अजरसेवितपद्युगायै नमः । ओं अतुलार्थप्रदायै नमः । ओं अर्थैक्यायै नमः । ओं अत्युदारायै नमः । ओं अभयान्वितायै नमः । 580 ओं अनाथवत्सलायै नमः । ओं अनन्तप्रियायै नमः । ओं अनन्तेप्सितप्रदायै नमः । ओं अम्बुजाक्ष्यै नमः । ओं अम्बुरूपायै नमः । ओं अम्बुजातोद्भवमहाप्रियायै नमः । ओं अखण्डायै नमः । ओं अमरस्तुत्यायै नमः । ओं अमरनायकपूजितायै नमः । ओं अजेयायै नमः । ओं अजसङ्काशायै नमः । ओं अज्ञाननाशिन्यै नमः । ओं अभीष्टदायै नमः । ओं अक्तायै नमः । ओं अघनेनायै नमः । ओं अस्त्रेश्यै नमः । ओं अलक्ष्मीनाशिन्यै नमः । ओं अनन्तसारायै नमः । ओं अनन्तश्रियै नमः । ओं अनन्तविधिपूजितायै नमः । 600 ओं अभीष्टायै नमः । ओं अमर्त्यसम्पूज्यायै नमः । ओं अस्तोदयविवर्जितायै नमः । ओं आस्तिकस्वान्तनिलयायै नमः । ओं अस्त्ररूपायै नमः । ओं अस्त्रवत्यै नमः । ओं अस्खलत्यै नमः । ओं अस्खलद्रूपायै नमः । ओं अस्खलद्विद्याप्रदायिन्यै नमः । ओं अस्खलत्सिद्धिदायै नमः । ओं आनन्दायै नमः । ओं अम्बुजातायै नमः । ओं अमरनायिकायै नमः । ओं अमेयायै नमः । ओं अशेषपापघ्न्यै नमः । ओं अक्षयसारस्वतप्रदायै नमः । ओं जयायै नमः । ओं जयन्त्यै नमः । ओं जयदायै नमः । ओं जन्मकर्मविवर्जितायै नमः । 620 ओं जगत्प्रियायै नमः । ओं जगन्मात्रे नमः । ओं जगदीश्वरवल्लभायै नमः । ओं जात्यै नमः । ओं जयायै नमः । ओं जितामित्रायै नमः । ओं जप्यायै नमः । ओं जपनकारिण्यै नमः । ओं जीवन्यै नमः । ओं जीवनिलयायै नमः । ओं जीवाख्यायै नमः । ओं जीवधारिण्यै नमः । ओं जाह्नव्यै नमः । ओं ज्यायै नमः । ओं जपवत्यै नमः । ओं जातिरूपायै नमः । ओं जयप्रदायै नमः । ओं जनार्दनप्रियकर्यै नमः । ओं जोषनीयायै नमः । ओं जगत्स्थितायै नमः । 640 ओं जगज्ज्येष्ठायै नमः । ओं जगन्मायायै नमः । ओं जीवनत्राणकारिण्यै नमः । ओं जीवातुलतिकायै नमः । ओं जीवजन्म्यै नमः । ओं जन्मनिबर्हण्यै नमः । ओं जाड्यविध्वंसनकर्यै नमः । ओं जगद्योन्यै नमः । ओं जयात्मिकायै नमः । ओं जगदानन्दजनन्यै नमः । ओं जम्ब्व्यै नमः । ओं जलजेक्षणायै नमः । ओं जयन्त्यै नमः । ओं जङ्गपूगघ्न्यै नमः । ओं जनितज्ञानविग्रहायै नमः । ओं जटायै नमः । ओं जटावत्यै नमः । ओं जप्यायै नमः । ओं जपकर्तृप्रियङ्कर्यै नमः । ओं जपकृत्पापसंहर्त्र्यै नमः । 660 ओं जपकृत्फलदायिन्यै नमः । ओं जपापुष्पसमप्रख्यायै नमः । ओं जपाकुसुमधारिण्यै नमः । ओं जनन्यै नमः । ओं जन्मरहितायै नमः । ओं ज्योतिर्वृत्यभिदायिन्यै नमः । ओं जटाजूटनचन्द्रार्धायै नमः । ओं जगत्सृष्टिकर्यै नमः । ओं जगत्त्राणकर्यै नमः । ओं जाड्यध्वंसकर्त्र्यै नमः । ओं जयेश्वर्यै नमः । ओं जगद्बीजायै नमः । ओं जयावासायै नमः । ओं जन्मभुवे नमः । ओं जन्मनाशिन्यै नमः । ओं जन्मान्त्यरहितायै नमः । ओं जैत्र्यै नमः । ओं जगद्योन्यै नमः । ओं जपात्मिकायै नमः । ओं जयलक्षणसम्पूर्णायै नमः । 680 ओं जयदानकृतोद्यमायै नमः । ओं जम्भराद्यादिसंस्तुत्यायै नमः । ओं जम्भारिफलदायिन्यै नमः । ओं जगत्त्रयहितायै नमः । ओं ज्येष्ठायै नमः । ओं जगत्त्रयवशङ्कर्यै नमः । ओं जगत्त्रयाम्बायै नमः । ओं जगत्यै नमः । ओं ज्वालायै नमः । ओं ज्वालितलोचनायै नमः । ओं ज्वालिन्यै नमः । ओं ज्वलनाभासायै नमः । ओं ज्वलन्त्यै नमः । ओं ज्वलनात्मिकायै नमः । ओं जितारातिसुरस्तुत्यायै नमः । ओं जितक्रोधायै नमः । ओं जितेन्द्रियायै नमः । ओं जरामरणशून्यायै नमः । ओं जनित्र्यै नमः । ओं जन्मनाशिन्यै नमः । 700 ओं जलजाभायै नमः । ओं जलमय्यै नमः । ओं जलजासनवल्लभायै नमः । ओं जलजस्थायै नमः । ओं जपाराध्यायै नमः । ओं जनमङ्गलकारिण्यै नमः । ओं कामिन्यै नमः । ओं कामरूपायै नमः । ओं काम्यायै नमः । ओं काम्यप्रदायिन्यै नमः । ओं कमौल्यै नमः । ओं कामदायै नमः । ओं कर्त्र्यै नमः । ओं क्रतुकर्मफलप्रदायै नमः । ओं कृतघ्नघ्न्यै नमः । ओं क्रियारूपायै नमः । ओं कार्यकारणरूपिण्यै नमः । ओं कञ्जाक्ष्यै नमः । ओं करुणारूपायै नमः । ओं केवलामरसेवितायै नमः । 720 ओं कल्याणकारिण्यै नमः । ओं कान्तायै नमः । ओं कान्तिदायै नमः । ओं कान्तिरूपिण्यै नमः । ओं कमलायै नमः । ओं कमलावासायै नमः । ओं कमलोत्पलमालिन्यै नमः । ओं कुमुद्वत्यै नमः । ओं कल्याण्यै नमः । ओं कान्त्यै नमः । ओं कामेशवल्लभायै नमः । ओं कामेश्वर्यै नमः । ओं कमलिन्यै नमः । ओं कामदायै नमः । ओं कामबन्धिन्यै नमः । ओं कामधेनवे नमः । ओं काञ्चनाक्ष्यै नमः । ओं काञ्चनाभायै नमः । ओं कलानिधये नमः । ओं क्रियायै नमः । 740 ओं कीर्तिकर्यै नमः । ओं कीर्त्यै नमः । ओं क्रतुश्रेष्ठायै नमः । ओं कृतेश्वर्यै नमः । ओं क्रतुसर्वक्रियास्तुत्यायै नमः । ओं क्रतुकृत्प्रियकारिण्यै नमः । ओं क्लेशनाशकर्यै नमः । ओं कर्त्र्यै नमः । ओं कर्मदायै नमः । ओं कर्मबन्धिन्यै नमः । ओं कर्मबन्धहर्यै नमः । ओं कृष्टायै नमः । ओं क्लमघ्न्यै नमः । ओं कञ्जलोचनायै नमः । ओं कन्दर्पजनन्यै नमः । ओं कान्तायै नमः । ओं करुणायै नमः । ओं करुणावत्यै नमः । ओं क्लीङ्कारिण्यै नमः । ओं कृपाकारायै नमः । 760 ओं कृपासिन्धवे नमः । ओं कृपावत्यै नमः । ओं करुणार्द्रायै नमः । ओं कीर्तिकर्यै नमः । ओं कल्मषघ्न्यै नमः । ओं क्रियाकर्यै नमः । ओं क्रियाशक्त्यै नमः । ओं कामरूपायै नमः । ओं कमलोत्पलगन्धिन्यै नमः । ओं कलायै नमः । ओं कलावत्यै नमः । ओं कूर्म्यै नमः । ओं कूटस्थायै नमः । ओं कञ्जसंस्थितायै नमः । ओं कालिकायै नमः । ओं कल्मषघ्न्यै नमः । ओं कमनीयजटान्वितायै नमः । ओं करपद्मायै नमः । ओं कराभीष्टप्रदायै नमः । ओं क्रतुफलप्रदायै नमः । 780 ओं कौशिक्यै नमः । ओं कोशदायै नमः । ओं काव्यायै नमः । ओं कर्त्र्यै नमः । ओं कोशेश्वर्यै नमः । ओं कृशायै नमः । ओं कूर्मयानायै नमः । ओं कल्पलतायै नमः । ओं कालकूटविनाशिन्यै नमः । ओं कल्पोद्यानवत्यै नमः । ओं कल्पवनस्थायै नमः । ओं कल्पकारिण्यै नमः । ओं कदम्बकुसुमाभासायै नमः । ओं कदम्बकुसुमप्रियायै नमः । ओं कदम्बोद्यानमध्यस्थायै नमः । ओं कीर्तिदायै नमः । ओं कीर्तिभूषणायै नमः । ओं कुलमात्रे नमः । ओं कुलावासायै नमः । ओं कुलाचारप्रियङ्कर्यै नमः । 800 ओं कुलनाथायै नमः । ओं कामकलायै नमः । ओं कलानाथायै नमः । ओं कलेश्वर्यै नमः । ओं कुन्दमन्दारपुष्पाभायै नमः । ओं कपर्दस्थितचन्द्रिकायै नमः । ओं कवित्वदायै नमः । ओं काम्यमात्रे नमः । ओं कविमात्रे नमः । ओं कलाप्रदायै नमः । ओं तरुण्यै नमः । ओं तरुणीतातायै नमः । ओं ताराधिपसमाननायै नमः । ओं तृप्तये नमः । ओं तृप्तिप्रदायै नमः । ओं तर्क्यायै नमः । ओं तपन्यै नमः । ओं तापिन्यै नमः । ओं तर्पण्यै नमः । ओं तीर्थरूपायै नमः । 820 ओं त्रिपदायै नमः । ओं त्रिदशेश्वर्यै नमः । ओं त्रिदिवेश्यै नमः । ओं त्रिजनन्यै नमः । ओं त्रिमात्रे नमः । ओं त्र्यम्बकेश्वर्यै नमः । ओं त्रिपुरायै नमः । ओं त्रिपुरेशान्यै नमः । ओं त्र्यम्बकायै नमः । ओं त्रिपुराम्बिकायै नमः । ओं त्रिपुरश्रियै नमः । ओं त्रयीरूपायै नमः । ओं त्रयीवेद्यायै नमः । ओं त्रयीश्वर्यै नमः । ओं त्रय्यन्तवेदिन्यै नमः । ओं ताम्रायै नमः । ओं तापत्रितयहारिण्यै नमः । ओं तमालसदृश्यै नमः । ओं त्रात्रे नमः । ओं तरुणादित्यसन्निभायै नमः । 840 ओं त्रैलोक्यव्यापिन्यै नमः । ओं तृप्तायै नमः । ओं तृप्तिकृते नमः । ओं तत्त्वरूपिण्यै नमः । ओं तुर्यायै नमः । ओं त्रैलोक्यसंस्तुत्यायै नमः । ओं त्रिगुणायै नमः । ओं त्रिगुणेश्वर्यै नमः । ओं त्रिपुरघ्न्यै नमः । ओं त्रिमात्रे नमः । ओं त्र्यम्बकायै नमः । ओं त्रिगुणान्वितायै नमः । ओं तृष्णाच्छेदकर्यै नमः । ओं तृप्तायै नमः । ओं तीक्ष्णायै नमः । ओं तीक्ष्णस्वरूपिण्यै नमः । ओं तुलायै नमः । ओं तुलादिरहितायै नमः । ओं तत्तद्ब्रह्मस्वरूपिण्यै नमः । ओं त्राणकर्त्र्यै नमः । 860 ओं त्रिपापघ्न्यै नमः । ओं त्रिदशायै नमः । ओं त्रिदशान्वितायै नमः । ओं तथ्यायै नमः । ओं त्रिशक्त्यै नमः । ओं त्रिपदायै नमः । ओं तुर्यायै नमः । ओं त्रैलोक्यसुन्दर्यै नमः । ओं तेजस्कर्यै नमः । ओं त्रिमूर्त्याद्यायै नमः । ओं तेजोरूपायै नमः । ओं त्रिधामतायै नमः । ओं त्रिचक्रकर्त्र्यै नमः । ओं त्रिभगायै नमः । ओं तुर्यातीतफलप्रदायै नमः । ओं तेजस्विन्यै नमः । ओं तापहार्यै नमः । ओं तापोपप्लवनाशिन्यै नमः । ओं तेजोगर्भायै नमः । ओं तपस्सारायै नमः । 880 ओं त्रिपुरारिप्रियङ्कर्यै नमः । ओं तन्व्यै नमः । ओं तापससन्तुष्टायै नमः । ओं तपनाङ्गजभीतिनुते नमः । ओं त्रिलोचनायै नमः । ओं त्रिमार्गायै नमः । ओं तृतीयायै नमः । ओं त्रिदशस्तुतायै नमः । ओं त्रिसुन्दर्यै नमः । ओं त्रिपथगायै नमः । ओं तुरीयपददायिन्यै नमः । ओं शुभायै नमः । ओं शुभावत्यै नमः । ओं शान्तायै नमः । ओं शान्तिदायै नमः । ओं शुभदायिन्यै नमः । ओं शीतलायै नमः । ओं शूलिन्यै नमः । ओं शीतायै नमः । ओं श्रीमत्यै नमः । 900 ओं शुभान्वितायै नमः । ओं योगसिद्धिप्रदायै नमः । ओं योग्यायै नमः । ओं यज्ञेनपरिपूरितायै नमः । ओं यज्ञायै नमः । ओं यज्ञमय्यै नमः । ओं यक्ष्यै नमः । ओं यक्षिण्यै नमः । ओं यक्षिवल्लभायै नमः । ओं यज्ञप्रियायै नमः । ओं यज्ञपूज्यायै नमः । ओं यज्ञतुष्टायै नमः । ओं यमस्तुतायै नमः । ओं यामिनीयप्रभायै नमः । ओं याम्यायै नमः । ओं यजनीयायै नमः । ओं यशस्कर्यै नमः । ओं यज्ञकर्त्र्यै नमः । ओं यज्ञरूपायै नमः । ओं यशोदायै नमः । 920 ओं यज्ञसंस्तुतायै नमः । ओं यज्ञेश्यै नमः । ओं यज्ञफलदायै नमः । ओं योगयोन्यै नमः । ओं यजुस्स्तुतायै नमः । ओं यमिसेव्यायै नमः । ओं यमाराध्यायै नमः । ओं यमिपूज्यायै नमः । ओं यमीश्वर्यै नमः । ओं योगिन्यै नमः । ओं योगरूपायै नमः । ओं योगकर्तृप्रियङ्कर्यै नमः । ओं योगयुक्तायै नमः । ओं योगमय्यै नमः । ओं योगयोगीश्वराम्बिकायै नमः । ओं योगज्ञानमय्यै नमः । ओं योनये नमः । ओं यमाद्यष्टाङ्गयोगतायै नमः । ओं यन्त्रिताघौघसंहारायै नमः । ओं यमलोकनिवारिण्यै नमः । 940 ओं यष्टिव्यष्टीशसंस्तुत्यायै नमः । ओं यमाद्यष्टाङ्गयोगयुजे नमः ओं योगीश्वर्यै नमः । ओं योगमात्रे नमः । ओं योगसिद्धायै नमः । ओं योगदायै नमः । ओं योगारूढायै नमः । ओं योगमय्यै नमः । ओं योगरूपायै नमः । ओं यवीयस्यै नमः । ओं यन्त्ररूपायै नमः । ओं यन्त्रस्थायै नमः । ओं यन्त्रपूज्यायै नमः । ओं यन्त्रिकायै नमः । ओं युगकर्त्र्यै नमः । ओं युगमय्यै नमः । ओं युगधर्मविवर्जितायै नमः । ओं यमुनायै नमः । ओं यामिन्यै नमः । ओं याम्यायै नमः । 960 ओं यमुनाजलमध्यगायै नमः । ओं यातायातप्रशमन्यै नमः । ओं यातनानान्निकृन्तन्यै नमः । ओं योगावासायै नमः । ओं योगिवन्द्यायै नमः । ओं यत्तच्छब्दस्वरूपिण्यै नमः । ओं योगक्षेममय्यै नमः । ओं यन्त्रायै नमः । ओं यावदक्षरमातृकायै नमः । ओं यावत्पदमय्यै नमः । ओं यावच्छब्दरूपायै नमः । ओं यथेश्वर्यै नमः । ओं यत्तदीयायै नमः । ओं यक्षवन्द्यायै नमः । ओं यद्विद्यायै नमः । ओं यतिसंस्तुतायै नमः । ओं यावद्विद्यामय्यै नमः । ओं यावद्विद्याबृन्दसुवन्दितायै नमः । ओं योगिहृत्पद्मनिलयायै नमः । ओं योगिवर्यप्रियङ्कर्यै नमः । 980 ओं योगिवन्द्यायै नमः । ओं योगिमात्रे नमः । ओं योगीशफलदायिन्यै नमः । ओं यक्षवन्द्यायै नमः । ओं यक्षपूज्यायै नमः । ओं यक्षराजसुपूजितायै नमः । ओं यज्ञरूपायै नमः । ओं यज्ञतुष्टायै नमः । ओं यायजूकस्वरूपिण्यै नमः । ओं यन्त्राराध्यायै नमः । ओं यन्त्रमध्यायै नमः । ओं यन्त्रकर्तृप्रियङ्कर्यै नमः । ओं यन्त्रारूढायै नमः । ओं यन्त्रपूज्यायै नमः । ओं योगिध्यानपरायणायै नमः । ओं यजनीयायै नमः । ओं यमस्तुत्यायै नमः । ओं योगयुक्तायै नमः । ओं यशस्कर्यै नमः । ओं योगबद्धायै नमः । 1000 ओं यतिस्तुत्यायै नमः । ओं योगज्ञायै नमः । ओं योगनायक्यै नमः । ओं योगिज्ञानप्रदायै नमः । ओं यक्ष्यै नमः । ओं यमबाधाविनाशिन्यै नमः । ओं योगिकाम्यप्रदात्र्यै नमः । ओं योगिमोक्षप्रदायिन्यै नमः । 1008 इति श्री सरस्वती सहस्रनामावली ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits