हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
नटेश्वर भुजङ्ग स्तुतिः
लोकानाहूय
सर्वान्
डमरुकनिनदैर्घोरसंसारमग्नान्
दत्वाभीतिं
दयालुः
प्रणतभयहरं
कुञ्चितं
वामपादम्
।
उद्धृत्येदं
विमुक्तेरयनमिति
कराद्दर्शयन्
प्रत्ययार्थं
बिभ्रद्वह्निं
सभायां
कलयति
नटनं
यः
स
पायान्नटेशः
॥
1
॥
दिगीशादि
वन्द्यं
गिरीशानचापं
मुराराति
बाणं
पुरत्रासहासम्
।
करीन्द्रादि
चर्माम्बरं
वेदवेद्यं
महेशं
सभेशं
भजेऽहं
नटेशम्
॥
2
॥
समस्तैश्च
भूतैः
सदा
नम्यमाद्यं
समस्तैकबन्धुं
मनोदूरमेकम्
।
अपस्मारनिघ्नं
परं
निर्विकारं
महेशं
सभेशं
भजेऽहं
नटेशम्
॥
3
॥
दयालुं
वरेण्यं
रमानाथवन्द्यं
महानन्दभूतं
सदानन्दनृत्तम्
।
सभामध्यवासं
चिदाकाशरूपं
महेशं
सभेशं
भजेऽहं
नटेशम्
॥
4
॥
सभानाथमाद्यं
निशानाथभूषं
शिवावामभागं
पदाम्भोज
लास्यम्
।
कृपापाङ्गवीक्षं
ह्युमापाङ्गदृश्यं
महेशं
सभेशं
भजेऽहं
नटेशम्
॥
5
॥
दिवानाथरात्रीशवैश्वानराक्षं
प्रजानाथपूज्यं
सदानन्दनृत्तम्
।
चिदानन्दगात्रं
परानन्दसौधं
महेशं
सभेशं
भजेऽहं
नटेशम्
॥
6
॥
करेकाहलीकं
पदेमौक्तिकालिं
गलेकालकूटं
तलेसर्वमन्त्रम्
।
मुखे
मन्दहासं
भुजे
नागराजं
महेशं
सभेशं
भजेऽहं
नटेशम्
॥
7
॥
त्वदन्यं
शरण्यं
न
पश्यामि
शम्भो
मदन्यः
प्रपन्नोस्ति
किन्तेतिदीनः
।
मदर्थेह्युपेक्षा
तवासीत्किमर्थं
महेशं
सभेशं
भजेऽहं
नटेशम्
॥
8
॥
भवत्पादयुग्मं
करेणावलम्बे
सदा
नृत्तकारिन्
सभामध्यदेशे
।
सदा
भावये
त्वां
तदा
दास्यसीष्टं
महेशं
सभेशं
भजेऽहं
नटेशम्
॥
9
॥
भूयः
स्वामिन्
जनिर्मे
मरणमपि
तथा
मास्तु
भूयः
सुराणां
साम्राज्यं
तच्छ
तावत्सुखलवरहितं
दुःखदं
नार्थये
त्वाम्
।
सन्तापघ्नं
पुरारे
धुरि
च
तवसभा
मन्दिरे
सर्वदा
त्व-
-न्नृत्तं
पश्यन्वसेयं
प्रमथगणवरैः
साकमेतद्विधेहि
॥
10
॥
इति
श्री
ज्ञानसम्बन्ध
कृत
श्री
नटेश्वर
भुजङ्ग
स्तुतिः
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits