Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

नटेश स्तवः

ह्रीमत्या शिवया विराण्मयमजं हृत्पङ्कजस्थं सदा ह्रीणाना शिवकीर्तने हितकरं हेलाहृदा मानिनाम् होबेरादिसुगन्धवस्तुरुचिरं हेमाद्रिबाणासनं ह्रीङ्कारादिकपादपीठममलं हृद्यं नटेशं भजे 1 श्रीमज्ज्ञानसभान्तरे प्रविलसच्छ्रीपञ्चवर्णाकृतिं श्रीवाणीविनुतापदाननिचयं श्रीवल्लभेनार्चितम् श्रीविद्यामनुमोदिनं श्रितजनश्रीदायकं श्रीधरं श्रीचक्रान्तरवासिनं शिवमहं श्रीमन्नटेशं भजे 2 नव्याम्भोजमुखं नमज्जननिधिं नारायणेनार्चितं नाकौकोनगरीनटीलसितकं नागादिनालङ्कृतम् नानारूपकनर्तनादिचतुरं नालीकजान्वेषितं नादात्मानमहं नगेन्द्रतनयानाथं नटेशं भजे 3 मध्यस्थं मधुवैरिमार्गितपदं मद्वंशनाथं प्रभुं मारातीतमतीव मञ्जुवपुषं मन्दारगौरप्रभम् मायातीतमशेषमङ्गलनिधिं मद्भावनाभावितं मध्येव्योमसभागुहान्तमखिलाकाशं नटेशं भजे 4 शिष्टैः पूजितपादुकं शिवकरं शीतांशुरेखाधरं शिल्पं भक्तजनावने शिथिलिताघौघं शिवायाः प्रियम् शिक्षारक्षणमम्बुजासनशिरः संहारशीलप्रभुं शीतापाङ्गविलोचनं शिवमहं श्रीमन्नटेशं भजे 5 वाणीवल्लभवन्द्यवैभवयुतं वन्दारुचिन्तामणिं वाताशाधिपभूषणं परकृपावारान्निधिं योगिनाम् वाञ्छापूर्तिकरं वलारिविनुतं वाहीकृताम्नायकं वामङ्गात्तवराङ्गनं मम हृदावासं नटेशं भजे 6 यक्षाधीशसखं यमप्रमथनं यामिन्यधीशासनं यज्ञध्वंसकरं यतीन्द्रविनुतं यज्ञक्रियादीश्वरम् याज्यं याजकरूपिणं यमधनैर्यत्नोपलभ्याङ्घ्रिकं वाजीभूतवृषं सदा हृदि ममायत्तं नटेशं भजे 7 मायाश्रीविलसच्चिदम्बरमहापञ्चाक्षरैरङ्कितान् श्लोकान् सप्त पठन्ति येऽनुदिवसं चिन्तामणीनामकान् तेषां भाग्यमनेकमायुरधिकान् विद्वद्वरान् सत्सुतान् सर्वाभीष्टमसौ ददाति सहसा श्रीमत्सभाधीश्वरः 8 इति श्री नटेश स्तवः

Recite with devotion and pure heart

Regular practice brings spiritual benefits