हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
नटराजाष्टकम्
कुञ्जरचर्मकृताम्बरमम्बुरुहासनमाधवगेयगुणं
शङ्करमन्तकमानहरं
स्मरदाहकलोचनमेणधरम्
।
साञ्जलियोगिपतञ्जलिसन्नुतमिन्दुकलाधरमब्जमुखं
मञ्जुलशिञ्जितरञ्जितकुञ्चितवामपदं
भज
नृत्यपतिम्
॥
1
॥
पिङ्गलतुङ्गजटावलिभासुरगङ्गममङ्गलनाशकरं
पुङ्गववाहमुमाङ्गधरं
रिपुभङ्गकरं
सुरलोकनतम्
।
भृङ्गविनीलगलं
गणनाथसुतं
भज
मानस
पापहरं
मङ्गलदं
वररङ्गपतिं
भवसङ्गहरं
धनराजसखम्
॥
2
॥
पाणिनिसूत्रविनिर्मितिकारणपाणिलसड्डमरूत्थरवं
माधवनादितमर्दलनिर्गतनादलयोद्धृतवामपदम्
।
सर्वजगत्प्रलयप्रभुवह्निविराजितपाणिमुमालसितं
पन्नगभूषणमुन्नतसन्नुतमानम
मानस
साम्बशिवम्
॥
3
॥
चण्डगुणान्वितमण्डलखण्डनपण्डितमिन्दुकलाकलितं
दण्डधरान्तकदण्डकरं
वरताण्डवमण्डितहेमसभम्
।
अण्डकराण्डजवाहसखं
नम
पाण्डवमध्यममोदकरं
कुण्डलशोभितगण्डतलं
मुनिवृन्दनुतं
सकलाण्डधरम्
॥
4
॥
व्याघ्रपदानतमुग्रतरासुरविग्रहमर्दिपदाम्बुरुहं
शक्रमुखामरवर्गमनोहरनृत्यकरं
श्रुतिनुत्यगुणम्
।
व्यग्रतरङ्गितदेवधुनीधृतगर्वहरायतकेशचयं
भार्गवरावणपूजितमीशमुमारमणं
भज
शूलधरम्
॥
5
॥
आसुरशक्तिविनाशकरं
बहुभासुरकायमनङ्गरिपुं
भूसुरसेवितपादसरोरुहमीश्वरमक्षरमुक्षधृतम्
।
भास्करशीतकराक्षमनातुरमाश्वरविन्दपदं
भज
तं
नश्वरसंसृतिमोहविनाशमहस्करदन्तनिपातकरम्
॥
6
॥
भूतिकरं
सितभूतिधरं
गतनीतिहरं
वरगीतिनुतं
भक्तियुतोत्तममुक्तिकरं
समशक्तियुतं
शुभभुक्तिकरम्
।
भद्रकरोत्तमनामयुतं
श्रुतिसामनुतं
नम
सोमधरं
स्तुत्यगुणं
भज
नित्यमगाधभवाम्बुधितारकनृत्यपतिम्
॥
7
॥
शूलधरं
भवजालहरं
निटिलाग्निधरं
जटिलं
धवलं
नीलगलोज्ज्वलमङ्गलसद्गिरिराजसुतामृदुपाणितलम्
।
शैलकुलाधिपमौलिनतं
छलहीनमुपैमि
कपालधरं
कालविषाशमनन्तमिलानुतमद्भुतलास्यकरं
गिरिशम्
॥
8
॥
चित्तहरातुलनृत्तपतिप्रियवृत्तकृतोत्तमगीतिमिमां
प्रातरुमापतिसन्निधिगो
यदि
गायति
भक्तियुतो
मनसि
।
सर्वसुखं
भुवि
तस्य
भवत्यमराधिपदुर्लभमत्यधिकं
नास्ति
पुनर्जनिरेति
च
धाम
स
शाम्भवमुत्तममोदकरम्
॥
9
॥
इति
श्री
नटराजाष्टकम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits