Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

नागेश्वर स्तुतिः

यो देवः सर्वभूतानामात्मा ह्याराध्य एव च ।
गुणातीतो गुणात्मा च स मे नागः प्रसीदतु ॥ 1 ॥
हृदयस्थोऽपि दूरस्थः मायावी सर्वदेहिनाम् ।
योगिनां चित्तगम्यस्तु स मे नागः प्रसीदतु ॥ 2 ॥
सहस्रशीर्षः सर्वात्मा सर्वाधारः परः शिवः ।
महाविषस्यजनकः स मे नागः प्रसीदतु ॥ 3 ॥
काद्रवेयोमहासत्त्वः कालकूटमुखाम्बुजः ।
सर्वाभीष्टप्रदो देवः स मे नागः प्रसीदतु ॥ 4 ॥
पातालनिलयो देवः पद्मनाभसुखप्रदः ।
सर्वाभीष्टप्रदो यस्तु स मे नागः प्रसीदतु ॥ 5 ॥
नागनारीरतो दक्षो नारदादि सुपूजितः ।
सर्वारिष्टहरो यस्तु स मे नागः प्रसीदतु ॥ 6 ॥
पृदाकुदेवः सर्वात्मा सर्वशास्त्रार्थपारगः ।
प्रारब्धपापहन्ता च स मे नागः प्रसीदतु ॥ 7 ॥
लक्ष्मीपतेः सपर्यङ्कः शम्भोः सर्वाङ्गभूषणः ।
यो देवः पुत्रदो नित्यं स मे नागः प्रसीदतु ॥ 8 ॥
फणीशः परमोदारः शापपापनिवारकः ।
सर्वपापहरो यस्तु स मे नागः प्रसीदतु ॥ 9 ॥
सर्वमङ्गलदो नित्यं सुखदो भुजगेश्वरः ।
यशः कीर्तिं च विपुलां श्रियमायुः प्रयच्छतु ॥ 10 ॥
मनोवाक्कायजनितं जन्मजन्मान्तरार्जितम् ।
यत्पापं नागदेवेश विलयं यातु सम्प्रति ॥ 11 ॥
नीरोगं देहपुष्टिं च सर्ववश्यं धनागमम् ।
पशुधान्याभिवृद्धिं च यशोवृद्धिं च शाश्वतम् ॥ 12 ॥
परवाक् स्तम्भिनीं विद्यां वाग्मित्वं सूक्ष्मबुद्धिताम् ।
पुत्रं वंशकरं श्रेष्ठं देहि मे भक्तवत्सल ॥ 13 ॥
इति श्री नागेश्वर स्तुतिः ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits