Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

कार्तवीर्यार्जुन स्तोत्रम्

स्मरण –
अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।
दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञदानतपोयोगैः श्रुतवीर्यदयादिभिः ॥
पञ्चाशीतिसहस्राणि ह्यव्याहतबलः समाः ।
अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥
ध्यानम् –
सहस्रबाहुं महितं सशरं सचापं
रक्ताम्बरं विविध रक्तकिरीटभूषम् ।
चोरादिदुष्टभयनाशनमिष्टदं तं
ध्यायेन्महाबलविजृम्भितकार्तवीर्यम् ॥
मन्त्रं –
ओं कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
तस्य संस्मरणादेव हृतं नष्टं च लभ्यते ॥
द्वादशनामानि –
कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली ।
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ 2 ॥
रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः ।
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ 3 ॥
सम्पदस्तस्य जायन्ते जनास्तस्य वशं गतः ।
आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥ 4 ॥
यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् ।
यन्नामानि महावीर्यश्चार्जुनः कृतवीर्यवान् ॥ 6 ॥
हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् ।
वाञ्चितार्थप्रदं नॄणां स्वराज्यं सुकृतं यदि ॥ 7 ॥
इति कार्तवीर्यार्जुन स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits