ओं कार्तवीर्यार्जुनाय नमः ।
ओं कामिने नमः ।
ओं कामदाय नमः ।
ओं कामसुन्दराय नमः ।
ओं कल्याणकृते नमः ।
ओं कलङ्कच्छिदे नमः ।
ओं कार्तस्वरविभूषणाय नमः ।
ओं कोटिसूर्यसमप्रभाय नमः ।
ओं कल्पाय नमः ।
ओं काश्यपवल्लभाय नमः । 10
ओं कलानाथमुखाय नमः ।
ओं कान्ताय नमः ।
ओं करुणामृतसागराय नमः ।
ओं कोणपातिर्निराकर्त्रे नमः ।
ओं कुलीनाय नमः ।
ओं कुलनायकाय नमः ।
ओं करदीकृतभूमीशाय नमः ।
ओं करसाहस्रसम्युताय नमः ।
ओं केशवाय नमः ।
ओं केशिमधनाय नमः । 20
ओं कोशाधीशाय नमः ।
ओं कृपानिधये नमः ।
ओं कुरङ्गलोचनाय नमः ।
ओं क्रूराय नमः ।
ओं कुटिलाय नमः ।
ओं कङ्कपत्रवते नमः ।
ओं कुन्ददन्ताय नमः ।
ओं कूटभेत्त्रे नमः ।
ओं काकोलभयभञ्जनाय नमः ।
ओं कृतविघ्नाय नमः । 30
ओं कल्मषारिणे नमः ।
ओं कल्याणगुणगह्वराय नमः ।
ओं कीर्तिविस्फारिताशेषाय नमः ।
ओं कृतवीर्यनृपात्मजाय नमः ।
ओं कलागर्भमणये नमः ।
ओं कौलाय नमः ।
ओं क्षपितारातिभूषिताय नमः ।
ओं कृतार्थीकृतभक्तौघाय नमः ।
ओं कान्तिविस्फारितस्रजाय नमः ।
ओं कामिनीकामिताय नमः । 40
ओं किञ्चित् स्मितहारिमुखाम्बुजाय नमः ।
ओं किङ्किणीभूषितकटये नमः ।
ओं कनकाङ्गदभूषणाय नमः ।
ओं काञ्चनाधिकलावण्याय नमः ।
ओं सदाकादिमतस्थिताय नमः ।
ओं कुन्तभृते नमः ।
ओं कृपणद्वेषिणे नमः ।
ओं कुन्तान्वितगजस्थिताय नमः ।
ओं कोकिलालापरसिकाय नमः ।
ओं कीराध्यापनकारताय नमः । 50
ओं कुशलाय नमः ।
ओं कुङ्कुमाभासाय नमः ।
ओं कन्याव्रतफलप्रदाय नमः ।
ओं काव्यकर्त्रे नमः ।
ओं कलङ्कारिणे नमः ।
ओं कोशवते नमः ।
ओं कपिमालिकाय नमः ।
ओं किरातकेशाय नमः ।
ओं भूतेशस्तुताय नमः ।
ओं कात्यायनीप्रियाय नमः । 60
ओं केलिघ्नाय नमः ।
ओं कलिदोषघ्नाय नमः ।
ओं कलापिने नमः ।
ओं करदाय नमः ।
ओं कृतिने नमः ।
ओं काश्मीरवाससे नमः ।
ओं किर्मीरिणे नमः ।
ओं कुमाराय नमः ।
ओं कुसुमार्चिताय नमः ।
ओं कोमलाङ्गाय नमः । 70
ओं क्रोधहीनाय नमः ।
ओं कालिन्दीतारसम्मदाय नमः ।
ओं कञ्चुकिने नमः ।
ओं कविराजाय नमः ।
ओं कङ्काय नमः ।
ओं कालकालाय नमः ।
ओं कटङ्कटाय नमः ।
ओं कमनीयाय नमः ।
ओं कञ्जनेत्राय नमः ।
ओं कमलेशाय नमः । 80
ओं कलानिधये नमः ।
ओं कामकल्लोलवरदाय नमः ।
ओं कवित्वामृतसागराय नमः ।
ओं कपर्दि हृदयावासाय नमः ।
ओं कस्तूरीरसचर्चिताय नमः ।
ओं कर्पूरामोदनिश्वासाय नमः ।
ओं कामिनीबृन्दवेष्टिताय नमः ।
ओं कदम्बवनमध्यस्थाय नमः ।
ओं काञ्चनादिसमाकृतये नमः ।
ओं कालचक्रभ्रमिहराय नमः । 90
ओं कालागरुसुधूपिताय नमः ।
ओं कामहीनाय नमः ।
ओं कमानघ्नाय नमः ।
ओं कूटकापट्यनाशनाय नमः ।
ओं केकिशब्दप्रियाय नमः ।
ओं कृष्णाय नमः ।
ओं केदाराश्रमभूषणाय नमः ।
ओं कौमुदीनायकाय नमः ।
ओं केकिरवासक्ताय नमः ।
ओं किरीटभृते नमः । 100
ओं कवचिने नमः ।
ओं कुण्डलिने नमः ।
ओं कोटिमन्त्रजाप्यप्रतोषिताय नमः ।
ओं क्लीं क्रों बीजप्रियाय नमः ।
ओं काङ्क्षाय नमः ।
ओं कालिकालालिताकृतये नमः ।
ओं कामदेवकृतोत्साहाय नमः ।
ओं कर्माकर्मफलप्रदाय नमः । 108