हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
ऋण विमोचन नृसिंह स्तोत्रम्
ध्यानम्
–
वागीशा
यस्य
वदने
लक्ष्मीर्यस्य
च
वक्षसि
।
यस्यास्ते
हृदये
संवित्तं
नृसिंहमहं
भजे
॥
अथ
स्तोत्रम्
–
देवताकार्यसिद्ध्यर्थं
सभास्तम्भसमुद्भवम्
।
श्रीनृसिंहं
महावीरं
नमामि
ऋणमुक्तये
॥
1
॥
लक्ष्म्यालिङ्गित
वामाङ्कं
भक्तानां
वरदायकम्
।
श्रीनृसिंहं
महावीरं
नमामि
ऋणमुक्तये
॥
2
॥
आन्त्रमालाधरं
शङ्खचक्राब्जायुधधारिणम्
।
श्रीनृसिंहं
महावीरं
नमामि
ऋणमुक्तये
॥
3
॥
स्मरणात्
सर्वपापघ्नं
कद्रूजविषनाशनम्
।
श्रीनृसिंहं
महावीरं
नमामि
ऋणमुक्तये
॥
4
॥
सिंहनादेन
महता
दिग्विदिग्भयनाशनम्
।
श्रीनृसिंहं
महावीरं
नमामि
ऋणमुक्तये
॥
5
॥
प्रह्लादवरद
श्रीशं
दैत्येश्वरविदारणम्
।
श्रीनृसिंहं
महावीरं
नमामि
ऋणमुक्तये
॥
6
॥
क्रूरग्रहैः
पीडितानां
भक्तानामभयप्रदम्
।
श्रीनृसिंहं
महावीरं
नमामि
ऋणमुक्तये
॥
7
॥
वेदवेदान्तयज्ञेशं
ब्रह्मरुद्रादिवन्दितम्
।
श्रीनृसिंहं
महावीरं
नमामि
ऋणमुक्तये
॥
8
॥
इत्थं
यः
पठते
नित्यं
ऋणमोचन
सिद्धये
।
अनृणो
जायते
शीघ्रं
धनं
विपुलमाप्नुयात्
॥
9
॥
सर्वसिद्धिप्रदं
नृणां
सर्वैश्वर्यप्रदायकम्
।
तस्मात्
सर्वप्रयत्नेन
पठेत्
स्तोत्रमिदं
सदा
॥
10
॥
इति
श्रीनृसिंहपुराणे
ऋणमोचन
श्री
नृसिंह
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits