श्रीमत्पयोनिधिनिकेतनचक्रपाणे
भोगीन्द्रभोगमणिराजितपुण्यमूर्ते ।
योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 1 ॥
ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि-
-सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ।
लक्ष्मीलसत्कुचसरोरुहराजहंस
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 2 ॥
संसारदावदहनाकरभीकरोरु-
-ज्वालावलीभिरतिदग्धतनूरुहस्य ।
त्वत्पादपद्मसरसीरुहमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 3 ॥
संसारजालपतितस्य जगन्निवास
सर्वेन्द्रियार्थबडिशाग्रझषोपमस्य ।
प्रोत्कम्पितप्रचुरतालुकमस्तकस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 4 ॥
संसारकूपमतिघोरमगाधमूलं
सम्प्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य देव कृपया पदमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 5 ॥
संसारभीकरकरीन्द्रकराभिघात-
-निष्पीड्यमानवपुषः सकलार्तिनाश ।
प्राणप्रयाणभवभीतिसमाकुलस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 6 ॥
संसारसर्पविषदग्धमहोग्रतीव्र-
-दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः ।
नागारिवाहन सुधाब्धिनिवास शौरे
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 7 ॥
संसारवृक्षमघबीजमनन्तकर्म-
-शाखायुतं करणपत्रमनङ्गपुष्पम् ।
आरुह्य दुःखफलितं पततो दयालो [चकितं]
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 8 ॥
संसारसागरविशालकरालकाल-
-नक्रग्रहग्रसितनिग्रहविग्रहस्य ।
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 9 ॥
संसारसागरनिमज्जनमुह्यमानं
दीनं विलोकय विभो करुणानिधे माम् ।
प्रह्लादखेदपरिहारपरावतार
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 10 ॥
संसारघोरगहने चरतो मुरारे
मारोग्रभीकरमृगप्रचुरार्दितस्य ।
आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 11 ॥
बद्ध्वा गले यमभटा बहुतर्जयन्तः
कर्षन्ति यत्र भवपाशशतैर्युतं माम् ।
एकाकिनं परवशं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 12 ॥
लक्ष्मीपते कमलनाभ सुरेश विष्णो
यज्ञेश यज्ञ मधुसूदन विश्वरूप ।
ब्रह्मण्य केशव जनार्दन वासुदेव
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 13 ॥
एकेन चक्रमपरेण करेण शङ्ख-
-मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन् ।
वामेतरेण वरदाभयपद्मचिह्नं
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 14 ॥
अन्धस्य मे हृतविवेकमहाधनस्य
चोरैर्महाबलिभिरिन्द्रियनामधेयैः ।
मोहान्धकारकुहरे विनिपातितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 15 ॥
प्रह्लादनारदपराशरपुण्डरीक-
-व्यासादिभागवतपुङ्गवहृन्निवास ।
भक्तानुरक्तपरिपालनपारिजात
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 16 ॥
लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन
स्तोत्रं कृतं शुभकरं भुवि शङ्करेण ।
ये तत्पठन्ति मनुजा हरिभक्तियुक्ता-
-स्ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ 17 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छङ्कराचार्य विरचितं श्रीलक्ष्मीनृसिंह करावलम्ब स्तोत्रम् ।
— अधिकश्लोकाः —
संसारयोग सकलेप्सितनित्यकर्म
सम्प्राप्यदुःख सकलेन्द्रियमृत्युनाश ।
सङ्कल्प सिन्धुतनयाकुच कुङ्कुमाङ्क
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 18 ॥
आद्यन्तशून्यमजमव्ययमप्रमेयं
आदित्यरुद्रनिगमादिनुतप्रभावम् ।
अम्भोधिजास्य मधुलोलुप मत्तभृङ्ग
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 19 ॥
वाराह राम नरसिंह रमादिकान्ता
क्रीडाविलोल विधिशूलि सुरप्रवन्द्य ।
हंसात्मकं परमहंस विहारलीलं
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 20 ॥
माता नृसिंहश्च पिता नृसिंहः
भ्राता नृसिंहश्च सखा नृसिंहः ।
विद्या नृसिंहो द्रविणं नृसिंहः
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 21 ॥
प्रह्लाद मानस सरोज विहारभृङ्ग
गङ्गातरङ्ग धवलाङ्ग रमास्थिताङ्क ।
शृङ्गार सुन्दर किरीट लसद्वराङ्ग
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 22 ॥
श्रीशङ्करार्य रचितं सततं मनुष्यः
स्तोत्रं पठेदिहतु सत्वगुणप्रसन्नम् ।
सद्योविमुक्त कलुषो मुनिवर्य गण्यो
लक्ष्मी पदमुपैति सनिर्मलात्मा ॥ 23 ॥
यन्माययोर्जितः वपुः प्रचुर प्रवाह
मग्नार्थ मत्रनिवहोरु करावलम्बम् ।
लक्ष्मीनृसिंह चरणाब्ज मधुव्रतेन
स्तोत्रं कृतं शुभकरं भुवि शङ्करेण ॥ 24 ॥
श्रीमन्नृसिंह विभवे गरुडध्वजाय
तापत्रयोपशमनाय भवौषधाय ।
तृष्णादि वृश्चिक जलाग्नि भुजङ्ग रोग
क्लेशापहाय हरये गुरवे नमस्ते ॥ 25 ॥
इति श्री लक्ष्मीनृसिंह करावलम्ब स्तोत्रम् ।