Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

कालिका अर्गल स्तोत्रम्

अस्य श्री कालिकार्गल स्तोत्रस्य भैरव ऋषिरनुष्टुप् छन्दः श्रीकालिका देवता मम सर्वसिद्धिसाधने विनियोगः ।
ओं नमस्ते कालिके देवि आद्यबीजत्रय प्रिये ।
वशमानय मे नित्यं सर्वेषां प्राणिनां सदा ॥ 1 ॥
कूर्चयुग्मं ललाटे च स्थातु मे शववाहिना ।
सर्वसौभाग्यसिद्धिं च देहि दक्षिण कालिके ॥ 2 ॥
भुवनेश्वरि बीजयुग्मं भ्रूयुगे मुण्डमालिनी ।
कन्दर्परूपं मे देहि महाकालस्य गेहिनि ॥ 3 ॥
दक्षिणे कालिके नित्ये पितृकाननवासिनि ।
नेत्रयुग्मं च मे देहि ज्योतिरालेपनं महत् ॥ 4 ॥
श्रवणे च पुनर्लज्जाबीजयुग्मं मनोहरम् ।
महाश्रुतिधरत्वं च मे देहि मुक्त कुन्तले ॥ 5 ॥
ह्रीं ह्रीं बीजद्वयं देवि पातु नासापुटे मम ।
देहि नानाविधि मह्यं सुगन्धिं त्वं दिगम्बरे ॥ 6 ॥
पुनस्त्रिबीजप्रथमं दन्तोष्ठरसनादिकम् ।
गद्यपद्यमयीं वाजीं काव्यशास्त्राद्यलङ्कृताम् ॥ 7 ॥
अष्टादशपुराणानां स्मृतीनां घोरचण्डिके ।
कविता सिद्धिलहरीं मम जिह्वां निवेशय ॥ 8 ॥
वह्निजाया महादेवि घण्टिकायां स्थिरा भव ।
देहि मे परमेशानि बुद्धिसिद्धिरसायकम् ॥ 9 ॥
तुर्याक्षरी चित्स्वरूपा कालिका मन्त्रसिद्धिदा ।
सा च तिष्ठतु हृत्पद्मे हृदयानन्दरूपिणी ॥ 10 ॥
षडक्षरी महाकाली चण्डकाली शुचिस्मिता ।
रक्तासिनी घोरदंष्ट्रा भुजयुग्मे सदाऽवतु ॥ 11 ॥
सप्ताक्षरी महाकाली महाकालरतोद्यता ।
स्तनयुग्मे सूर्यकर्णो नरमुण्डसुकुन्तला ॥ 12 ॥
तिष्ठ स्वजठरे देवि अष्टाक्षरी शुभप्रदा ।
पुत्रपौत्रकलत्रादि सुहृन्मित्राणि देहि मे ॥ 13 ॥
दशाक्षरी महाकाली महाकालप्रिया सदा ।
नाभौ तिष्ठतु कल्याणी श्मशानालयवासिनी ॥ 14 ॥
चतुर्दशार्णवा या च जयकाली सुलोचना ।
लिङ्गमध्ये च तिष्ठस्व रेतस्विनी ममाङ्गके ॥ 15 ॥
गुह्यमध्ये गुह्यकाली मम तिष्ठ कुलाङ्गने ।
सर्वाङ्गे भद्रकाली च तिष्ठ मे परमात्मिके ॥ 16 ॥
कालि पादयुगे तिष्ठ मम सर्वमुखे शिवे ।
कपालिनी च या शक्तिः खड्गमुण्डधरा शिवा ॥ 17 ॥
पादद्वयाङ्गुलिष्वङ्गे तिष्ठ स्वपापनाशिनि ।
कुल्लादेवी मुक्तकेशी रोमकूपेषु वै मम ॥ 18 ॥
तिष्ठतु उत्तमाङ्गे च कुरुकुल्ला महेश्वरी ।
विरोधिनी विरोधे च मम तिष्ठतु शङ्करी ॥ 19 ॥
विप्रचित्ते महेशानि मुण्डधारिणि तिष्ठ माम् ।
मार्गे दुर्मार्गगमने उग्रा तिष्ठतु सर्वदा ॥ 20 ॥
प्रभादिक्षु विदिक्षु माम् दीप्तां दीप्तं करोतु माम् ।
नीलाशक्तिश्च पाताले घना चाकाशमण्डले ॥ 21 ॥
पातु शक्तिर्बलाका मे भुवं मे भुवनेश्वरी ।
मात्रा मम कुले पातु मुद्रा तिष्ठतु मन्दिरे ॥ 22 ॥
मिता मे योगिनी या च तथा मित्रकुलप्रदा ।
सा मे तिष्ठतु देवेशि पृथिव्यां दैत्यदारिणी ॥ 23 ॥
ब्राह्मी ब्रह्मकुले तिष्ठ मम सर्वार्थदायिनी ।
नारायणी विष्णुमाया मोक्षद्वारे च तिष्ठ मे ॥ 24 ॥
माहेश्वरी वृषारूढा काशिकापुरवासिनी ।
शिवतां देहि चामुण्डे पुत्रपौत्रादि चानघे ॥ 25 ॥
कौमारी च कुमाराणां रक्षार्थं तिष्ठ मे सदा ।
अपराजिता विश्वरूपा जये तिष्ठ स्वभाविनी ॥ 26 ॥
वाराही वेदरूपा च सामवेदपरायणा ।
नारसिंही नृसिंहस्य वक्षःस्थलनिवासिनी ॥ 27 ॥
सा मे तिष्ठतु देवेशि पृथिव्यां दैत्यदारिणी ।
सर्वेषां स्थावरादीनां जङ्गमानां सुरेश्वरी ॥ 28 ॥
स्वेदजोद्भिजाण्डजानां चराणां च भयादिकम् ।
विनाश्याप्यभिमतिं च देहि दक्षिण कालिके ॥ 29 ॥
य इदं चार्गलं देवि यः पठेत्कालिकार्चने ।
सर्वसिद्धिमवाप्नोति खेचरो जायते तु सः ॥ 30 ॥
इति श्री काली अर्गल स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits