हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
काली ताण्डव स्तोत्रम्
हुंहुङ्कारे
शवारूढे
नीलनीरजलोचने
।
त्रैलोक्यैकमुखे
दिव्ये
कालिकायै
नमोऽस्तु
ते
॥
1
॥
प्रत्यालीढपदे
घोरे
मुण्डमालाप्रलम्बिते
।
खर्वे
लम्बोदरे
भीमे
कालिकायै
नमोऽस्तु
ते
॥
2
॥
नवयौवनसम्पन्ने
गजकुम्भोपमस्तनी
।
वागीश्वरी
शिवे
शान्ते
कालिकायै
नमोऽस्तु
ते
॥
3
॥
लोलजिह्वे
हरालोके
नेत्रत्रयविभूषिते
।
घोरहास्यत्कटा
कारे
कालिकायै
नमोऽस्तु
ते
॥
4
॥
व्याघ्रचर्माम्बरधरे
खड्गकर्तृकरे
धरे
।
कपालेन्दीवरे
वामे
कालिकायै
नमोऽस्तु
ते
॥
5
॥
नीलोत्पलजटाभारे
सिन्धूरेन्दुमुखोदरे
।
स्फुरद्वक्त्रोष्टदशने
कालिकायै
नमोऽस्तु
ते
॥
6
॥
प्रलयानलधूम्राभे
चन्द्रसूर्याग्निलोचने
।
शैलवासे
शुभे
मातः
कालिकायै
नमोऽस्तु
ते
॥
7
॥
ब्रह्मशम्भुजलौघे
च
शवमध्ये
प्रसंस्थिते
।
प्रेतकोटिसमायुक्ते
कालिकायै
नमोऽस्तु
ते
॥
8
॥
कृपामयि
हरे
मातः
सर्वाशापरिपुरिते
।
वरदे
भोगदे
मोक्षे
कालिकायै
नमोऽस्तु
ते
॥
9
॥
इत्युत्तरतन्त्रार्गतं
श्री
काली
ताण्डव
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits