हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
काली क्रम स्तवः
नमामि
कालिका
देवीं
कलिकल्मषनाशिनीम्
।
नमामि
शम्भुपत्नीं
च
नमामि
भवसुन्दरीम्
॥
1
॥
आद्यां
देवी
नमस्कृत्य
नमस्त्रैलोक्यमोहिनीम्
।
नमामि
सत्यसङ्कल्पां
सर्वपर्वतवासिनीम्
॥
2
॥
पार्वतीं
च
नमस्कृत्य
नमो
नित्यं
नगात्मजे
॥
3
॥
मातस्त्वदीय
चरणं
शरणं
सुराणां
ध्यानास्पदैर्दिशति
वाञ्छितवाञ्छनीयम्
।
येषां
हृदि
स्फुरति
तच्चरणारविन्दं
धन्यास्त
एव
नियतं
सुरलोकपूज्याः
॥
4
॥
गन्धैः
शुभैः
कुङ्कुम
पङ्कलेपै
मतिस्त्वदीयं
चरणं
हि
भक्ताः
।
स्मरन्ति
शृण्वन्ति
लुठन्तिधीरा-
-स्तेषां
जरानैव
भवेद्भवानि
॥
5
॥
तवाङ्घ्रि
पद्मं
शरणं
सुराणां
परापरा
त्वं
परमा
प्रकृष्टिः
।
दिने
दिने
देव
भवेत्
करस्थः
किमन्यमुच्चैः
कथयन्ति
सन्तः
॥
6
॥
कवीन्द्राणां
दर्पं
करकमलशोभा
परिचितम्
।
विधुन्वज्जङ्घा
मे
सकलगणमेतद्गिरिसुते
॥
7
॥
अतस्त्वत्पादाब्जं
जननि
सततं
चेतसि
मम
।
हितं
नारीभूतं
प्रणिहितपदं
शाङ्करमपि
॥
8
॥
ये
ते
दरिद्राः
सततं
हि
मात-
-स्त्वदीयपादं
मनसा
नमन्ति
।
देवासुराः
सिद्धवराश्च
सर्वे
तव
प्रसादात्
सततं
लुठन्ति
॥
9
॥
हरिस्त्वत्पादाब्जं
निखिलजगतां
भूतिरभवत्
।
शिवो
ध्यात्वा
ध्यात्वा
किमपि
परमं
तत्परतरम्
॥
10
॥
प्रजानां
नाथोऽयं
तदनु
जगतां
सृष्टिविहितम्
।
किमन्यत्ते
मातस्तव
चरणयुग्मस्य
फलता
॥
11
॥
इन्द्रः
सुराणां
शरणं
शरण्ये
प्रजापतिः
काश्यप
एव
नान्यः
।
वरः
पतिर्विष्णुभवः
परेशि
त्वदीयपादाब्जफलं
समस्तम्
॥
12
॥
त्वदीयनाभी
नव
पल्लवेवा
नवाङ्कुरैर्लोमवरैः
प्रफुल्लम्
।
सदा
वरेण्ये
शरणं
विधेहि
किं
वापरं
चित्तवरैर्विभाव्यम्
॥
13
॥
त्वदीय
पादार्चित
वस्तु
सम्भवः
सुरासुरैः
पूज्यमवाय
शम्भुः
।
त्वदीय
पादार्चन
तत्परे
हरिः
सुदर्शनाधीश्वरतामुपालभत्
॥
14
॥
धरित्री
गन्धरूपेण
रसेन
च
जलं
धृतम्
।
तेजो
वह्निस्वरूपेण
प्रणवे
ब्रह्मरूपधृक्
॥
15
॥
मुखं
चन्द्राकारं
त्रिभुवनपदे
यामसहितं
त्रिनेत्रं
मे
मातः
परिहरति
यः
स्यात्
स
तु
पशुः
।
न
सिद्धिस्तस्य
स्यात्
सुरतसततं
विश्वमखिलं
कटाक्षैस्ते
मातः
सफलपदपद्मं
स
लभते
॥
16
॥
ऋतुस्त्वं
हरिस्त्वं
शिवस्त्वं
मुरारेः
पुरा
त्वं
परा
त्वं
सदशीर्मुरारेः
।
हरस्त्वं
हरिस्त्वं
शिवस्त्वं
शिवानां
गतिस्त्वं
गतिस्त्वं
गतिस्त्वं
भवानि
॥
17
॥
नवाऽहं
नवा
त्वं
नवा
वा
क्रियाया
वरस्त्वं
चरुस्त्वं
शरण्यं
शरायाः
।
नदस्तवं
नदीं
त्वं
गतिस्त्वं
निधीनां
सुतस्त्वं
सुता
त्वं
पिता
त्वं
गृहीणाम्
॥
18
॥
त्वदीय
मुण्डाख्य
भवानि
मालां
विधाय
चित्ते
भव
पद्मजाप्यः
।
सुराधिपत्वं
लभते
मुनीन्द्रः
शरण्यमेतत्
किमयीह
चान्यत्
॥
19
॥
नरस्य
मुण्डं
च
तथा
हि
खड्गं
भुजद्वये
ये
मनसा
जपन्ति
।
सव्येतरे
देवि
वराभयं
च
भवन्ति
ते
सिद्धजना
मुनीन्द्राः
॥
20
॥
शिरोपरि
त्वां
हृदये
निधाय
जपन्ति
विद्यां
हृदये
कदाचित्
।
सदा
भवेत्काव्यरसस्य
वेत्ता
अन्ते
परद्वन्द्वमुपाश्रयेत
॥
21
॥
दिगम्बरा
त्वां
मनसा
विचिन्त्य
जपेत्पराख्यां
जगतां
जनीति
।
जपेत्पराख्यां
जगतां
मतिश्च
किंवा
पराख्यां
शरणं
भवामः
॥
22
॥
शिवाविरावैः
परिवेष्टितां
त्वां
निधाय
चित्ते
सततं
जपन्ति
।
भवेय
देवेशि
परापरादि
निरीशतां
देवि
परा
वदन्ति
॥
23
॥
त्वदीय
शृङ्गाररसं
निधाय
जपन्ति
मन्त्रं
यदि
वेदमुख्या
।
भवन्ति
ते
देवि
जनापवादं
कविः
कवीनामपि
चाग्रजन्मा
॥
24
॥
विकीर्णवेशां
मनसा
निधाय
जपन्ति
विद्यां
चकितं
कदाचित्
।
सुधाधिपत्यं
लभते
नरः
स
किमस्ति
भूम्यां
शृणु
कालकालि
॥
25
॥
त्वदीय
बीजत्रयमातरेत-
-ज्जपन्ति
सिद्धास्तु
विमुक्तिहेतोः
।
तदेव
मातस्तवपादपद्मा
भवन्ति
सिद्धिश्च
दिनत्रयेऽपि
॥
26
॥
त्वदीय
कूर्चद्वयजापकत्वा-
-त्सुरासुरेभ्योऽपि
भवेच्च
वर्णः
।
धनित्व
पाण्डित्यमयन्ति
सर्वे
किं
वा
परान्
देवि
परापराख्या
॥
27
॥
त्वदीय
लज्जाद्वय
जापकत्वा-
-द्भवेन्महेशानि
चतुर्थसिद्धिः
।
त्वदीय
सत्सिद्धि
वरप्रसादा-
-त्तवाधिपत्यं
लभते
नरेशः
॥
28
॥
ततः
स्वनाम्नः
शृणु
मातरेत-
-त्फलं
चतुर्वर्ग
वदन्ति
सन्तः
।
बीजत्रयं
वै
पुनरप्युपास्य
सुराधिपत्यं
लभते
मुनीन्द्रः
॥
29
॥
पुनस्तथा
कूर्चयुगं
जपन्ति
नमन्ति
सिद्धा
नरसिंहरूपा
।
ततोऽपि
लज्जाद्वयजापकत्वा
लभन्ति
सिद्धिं
मनसो
जनास्ते
॥
30
॥
त्रिपञ्चारे
चक्रे
जननि
सततं
सिद्धि
सहिताम्
।
विचिन्वन्
सञ्चिन्वन्
परमममृतं
दक्षिण
पदम्
॥
31
॥
सदाकाली
ध्यात्वा
विधि
विहित
पूजापरिकरा
।
न
तेषां
संसारे
विभवपरिभङ्गप्रमथने
॥
32
॥
त्वं
श्रीस्त्वमीश्वरी
काली
त्वं
ह्रीस्त्वं
च
करालिका
।
लज्जा
लक्ष्मीः
सती
गौरी
नित्याचिन्त्या
चितिः
क्रिया
॥
33
॥
अकुल्याद्यैश्चित्ते
प्रचयपदपद्यैः
पदयुतैः
सदा
जप्त्वा
स्तुत्वा
जपति
हृदि
मन्त्रं
मनुविदा
।
न
तेषां
संसारे
विभवपरिभङ्गप्रमथने
क्षणं
चित्तं
देवि
प्रभवति
विरुद्धे
परिकरम्
॥
34
॥
त्रयस्त्रिंशैः
श्लोकैर्यदि
जपति
मन्त्रं
स्तवति
च
नमच्चैतानेतान्
परममृतकल्पं
सुखकरम्
।
भवेत्
सिद्धि
शुद्धौ
जगति
शिरसा
त्वत्पदयुगम्
प्रणम्यं
प्रकाम्यं
वरसुरजनैः
पूज्यविततिम्
॥
35
॥
इति
श्री
काली
क्रम
स्तवः
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits