हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
काली कर्पूर स्तोत्रम्
कर्पूरं
मध्यमान्त्य
स्वरपररहितं
सेन्दुवामाक्षियुक्तं
बीजं
ते
मातरेतत्त्रिपुरहरवधु
त्रिःकृतं
ये
जपन्ति
।
तेषां
गद्यानि
पद्यानि
च
मुखकुहरादुल्लसन्त्येव
वाचः
स्वच्छन्दं
ध्वान्तधाराधररुचिरुचिरे
सर्वसिद्धिं
गतानाम्
॥
1
॥
ईशानः
सेन्दुवामश्रवणपरिगतो
बीजमन्यन्महेशि
द्वन्द्वं
ते
मन्दचेता
यदि
जपति
जनो
वारमेकं
कदाचित्
।
जित्वा
वाचामधीशं
धनदमपि
चिरं
मोहयन्नम्बुजाक्षि
वृन्दं
चन्द्रार्धचूडे
प्रभवति
स
महाघोरबाणावतंसे
॥
2
॥
ईशो
वैश्वानरस्थः
शशधरविलसद्वामनेत्रेण
युक्तो
बीजं
ते
द्वन्द्वमन्यद्विगलितचिकुरे
कालिके
ये
जपन्ति
।
द्वेष्टारं
घ्नन्ति
ते
च
त्रिभुवनमपि
ते
वश्यभावं
नयन्ति
सृक्कद्वन्द्वास्रधाराद्वयधरवदने
दक्षिणे
कालिकेति
॥
3
॥
ऊर्ध्वे
वामे
कृपाणं
करकमलतले
छिन्नमुण्डं
तथोऽधः
सव्येऽभीतिं
वरं
च
त्रिजगदघहरे
दक्षिणे
कालिके
च
।
जप्त्वैतन्नाम
ये
वा
तव
विमलतनुं
भावयन्त्येतदम्ब
तेषामष्टौ
करस्थाः
प्रकटितरदने
सिद्धयस्त्र्यम्बकस्य
॥
4
॥
वर्गाद्यं
वह्निसंस्थं
विधुरतिवलितं
तत्त्रयं
कूर्चयुग्मं
लज्जाद्वन्द्वं
च
पश्चात्
स्मितमुखितदधष्ठद्वयम्योजयित्वा
।
मातर्ये
त्वां
जपन्ति
स्मरहरमहिले
भावयन्तः
स्वरूपं
ते
लक्ष्मीलास्यलीलाकमलदलदृशः
कामरूपा
भवन्ति
॥
5
॥
प्रत्येकं
वा
द्वयं
वा
त्रयमपि
च
परं
बीजमत्यन्तगुह्यं
त्वन्नाम्ना
योजयित्वा
सकलमपि
सदा
भावयन्तो
जपन्ति
।
तेषां
नेत्रारविन्दे
विहरति
कमला
वक्त्रशुभ्रांशुबिम्बे
वाग्देवी
देवि
मुण्डस्रगतिशयलसत्कण्ठ
पीनस्तनाढ्ये
॥
6
॥
गतासूनां
बाहुप्रकरकृतकाञ्चीपरिलस-
-न्नितम्बां
दिग्वस्त्रां
त्रिभुवनविधात्रीं
त्रिनयनाम्
।
श्मशानस्थे
तल्पे
शवहृदि
महाकालसुरत-
-प्रसक्तां
त्वां
ध्यायन्
जननि
जडचेता
अपि
कविः
॥
7
॥
शिवाभिर्घोराभिः
शवनिवहमुण्डाऽस्थि
निकरैः
परं
सङ्कीर्णायां
प्रकटितचितायां
हरवधूम्
।
प्रविष्टां
सन्तुष्टामुपरिसुरतेनाति
युवती
सदा
त्वां
ध्यायन्ति
क्वचिदपि
न
तेषां
परिभवः
॥
8
॥
वदामस्ते
किं
वा
जननि
वयमुच्चैर्जडधियो
न
धाता
नापीशो
हरिरपि
न
ते
वेत्ति
परमम्
।
तथापि
त्वद्भक्तिर्मुखरयति
चास्माकमसिते
तदेतत्
क्षन्तव्यं
न
खलु
पशुरोषः
समुचितः
॥
9
॥
समन्तादापीनस्तनजघनदृग्यौवनवती
रतासक्तो
नक्तं
यदि
जपति
भक्तस्तव
मनुम्
।
विवासास्त्वां
ध्यायन्
गलितचिकुरस्तस्य
वशगाः
समस्ताः
सिद्धौघा
भुवि
चिरतरं
जीवति
कविः
॥
10
॥
समाः
स्वस्थीभूतां
जपति
विपरीतां
यदि
सदा
विचिन्त्य
त्वां
ध्यायन्नतिशयमहाकालसुरताम्
।
तदा
तस्य
क्षोणीतलविहरमाणस्य
विदुषः
कराम्भोजे
वश्या
हरवधु
महासिद्धि
निवहाः
॥
11
॥
प्रसूते
संसारं
जननि
जगतीं
पालयति
च
समस्तं
क्षित्यादि
प्रलयसमये
संहरति
च
।
अतस्त्वां
धाताऽपि
त्रिभुवनपतिः
श्रीपतिरपि
महेशोऽपि
प्रायः
सकलमपि
किं
स्तौमि
भवतीम्
॥
12
॥
अनेके
सेवन्ते
भवदधिकगीर्वाणनिवहान्
विमूढास्ते
मातः
किमपि
न
हि
जानन्ति
परमम्
।
समाराध्यामाद्यां
हरिहरविरिञ्च्यादिविबुधैः
प्रपन्नोऽस्मि
स्वैरं
रतिरसमहानन्दनिरताम्
॥
13
॥
धरित्री
कीलालं
शुचिरपि
समीरोऽपि
गगनं
त्वमेका
कल्याणी
गिरिशरमणी
कालि
सकलम्
।
स्तुतिः
का
ते
मातस्तव
करुणया
मामगतिकं
प्रसन्ना
त्वं
भूया
भवमननुभूयान्मम
जनुः
॥
14
॥
श्मशानस्थः
सुस्थो
गलितचिकुरो
दिक्पटधरः
सहस्रं
त्वर्काणां
निजगलितवीर्येण
कुसुमम्
।
जपंस्त्वत्
प्रत्येकं
मनुमपि
तव
ध्याननिरतो
महाकालि
स्वैरं
स
भवति
धरित्री
परिवृढः
॥
15
॥
गृहे
सम्मार्जन्या
परिगलित
वीर्यं
हि
चिकुरं
समूलं
मध्याह्ने
वितरति
चितायां
कुजदिने
।
समुच्चार्य
प्रेम्णा
मनुमपि
सकृत्
कालि
सततं
गजारूढो
याति
क्षितिपरिवृढः
सत्कविवरः
॥
16
॥
सुपुष्पैराकीर्णं
कुसुमधनुषोमन्दिरमहो
पुरो
ध्यायन्
ध्यायन्
यदि
जपति
भक्तस्तव
मनुम्
।
सगन्धर्वश्रेणीपतिरपि
कवित्वामृतनदी
नदीनः
पर्यन्ते
परमपदलीनः
प्रभवति
॥
17
॥
त्रिपञ्चारे
पीठे
शवशिवहृदि
स्मेरवदनां
महाकालेनोच्चैर्मदनरसलावण्यनिरताम्
।
समासक्तो
नक्तं
स्वयमपि
रतानन्दनिरतो
जनो
यो
ध्यायेत्त्वां
जननि
किल
सस्यात्
स्मरहरः
॥
18
॥
सलोमास्थि
स्वैरं
पललमपि
मार्जारमसिते
परं
चौष्ट्रं
मैषं
नरमहिषयोश्छागमपि
वा
।
बलिं
ते
पूजायामपि
वितरतां
मर्त्यवसतां
सतां
सिद्धिः
सर्वा
प्रतिपदमपूर्वा
प्रभवति
॥
19
॥
वशी
लक्षं
मन्त्रं
प्रजपति
हविष्याशनरतो
दिवा
मातर्युष्मच्चरणयुगल
ध्यान
निपुणः
।
परं
नक्तं
नग्नो
निधुवन
विनोदेन
च
मनुं
जपेल्लक्षं
सम्यक्
स्मरहरसमानः
क्षितितले
॥
20
॥
इदं
स्तोत्रं
मातस्तव
मनुसमुद्धारण
जनुः
स्वरूपाख्यं
पादाम्बुजयुगलपूजाविधियुतम्
।
निशार्धे
वा
पूजासमयमधि
वा
यस्तु
पठति
प्रलापस्तस्यापि
प्रसरति
कवित्वामृतरसः
॥
21
॥
कुरङ्गाक्षीबृन्दं
तमनुसरति
प्रेमतरलं
वशस्तस्य
क्षोणीपतिरपि
कुबेरप्रतिनिधिः
।
रिपुः
कारागारं
कलयति
च
तं
केलिकलया
चिरं
जीवन्मुक्तः
स
भवति
च
भक्तः
प्रतिजनुः
॥
22
॥
इति
श्री
महाकालविरचितं
श्री
काली
कर्पूर
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits