हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री गायत्री कवचम्
याज्ञवल्क्य
उवाच
–
स्वामिन्
सर्वजगन्नाथ
संशयोऽस्ति
महान्मम
।
चतुःषष्टिकलानां
च
पातकानां
च
तद्वद
॥
1
॥
मुच्यते
केन
पुण्येन
ब्रह्मरूपं
कथं
भवेत्
।
देहश्च
देवतारूपो
मन्त्ररूपो
विशेषतः
।
क्रमतः
श्रोतुमिच्छामि
कवचं
विधिपूर्वकम्
॥
2
॥
ब्रह्मोवाच
–
अस्य
श्रीगायत्रीकवचस्य
ब्रह्मविष्णुरुद्रा
ऋषयः,
ऋग्यजुःसामाथर्वाणि
छन्दांसि,
परब्रह्मस्वरूपिणी
गायत्री
देवता,
भूर्बीजं,
भुवः
शक्तिः,
स्वः
कीलकं,
श्रीगायत्रीप्रीत्यर्थे
जपे
विनियोगः
॥
ऋष्यादिन्यासः
–
ओं
ब्रह्मविष्णुरुद्र
ऋषिभ्यो
नमः
शिरसि
।
ऋग्यजुःसामाथर्वच्छन्दोभ्यो
नमः
मुखे
।
परब्रह्मस्वरूपिणी
गायत्रीदेवतायै
नमः
हृदि
।
भूः
बीजाय
नमः
गुह्ये
।
भुवः
शक्तये
नमः
पादयोः
।
स्वः
कीलकाय
नमः
नाभौ
।
विनियोगाय
नमः
सर्वाङ्गे
।
करन्यासः
–
ओं
भूर्भुवः
स्वः
तत्सवितुरिति
अङ्गुष्ठाभ्यां
नमः
।
ओं
भूर्भुवः
स्वः
वरेण्यमिति
तर्जनीभ्यां
नमः
।
ओं
भूर्भुवः
स्वः
भर्गो
देवस्येति
मध्यमाभ्यां
नमः
।
ओं
भूर्भुवः
स्वः
धीमहीति
अनामिकाभ्यां
नमः
।
ओं
भूर्भुवः
स्वः
धियो
यो
नः
इति
कनिष्ठिकाभ्यां
नमः
।
ओं
भूर्भुवः
स्वः
प्रचोदयादिति
करतल
करपृष्ठाभ्यां
नमः
॥
अङ्गन्यासः
–
ओं
भूर्भुवः
स्वः
तत्सवितुरिति
हृदयाय
नमः
।
ओं
भूर्भुवः
स्वः
वरेण्यमिति
शिरसे
स्वाहा
।
ओं
भूर्भुवः
स्वः
भर्गो
देवस्येति
शिखायै
वषट्
।
ओं
भूर्भुवः
स्वः
धीमहीति
कवचाय
हुम्
।
ओं
भूर्भुवः
स्वः
धियो
यो
नः
इति
नेत्रत्रयाय
वौषट्
।
ओं
भूर्भुवः
स्वः
प्रचोदयादिति
अस्त्राय
फट्
॥
प्रार्थना
–
वर्णास्त्रां
कुण्डिकाहस्तां
शुद्धनिर्मलज्योतिषीम्
।
सर्वतत्त्वमयीं
वन्दे
गायत्रीं
वेदमातरम्
॥
अथ
ध्यानम्
–
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै-
-र्युक्तामिन्दुनिबद्धरत्नमुकुटां
तत्त्वार्थवर्णात्मिकाम्
।
गायत्रीं
वरदाभयाङ्कुशकशां
शूलं
कपालं
गुणं
शङ्खं
चक्रमथारविन्दयुगलं
हस्तैर्वहन्तीं
भजे
॥
अथ
कवचम्
–
ओं
गायत्री
पूर्वतः
पातु
सावित्री
पातु
दक्षिणे
।
ब्रह्मविद्या
च
मे
पश्चादुत्तरे
मां
सरस्वती
॥
1
॥
पावकीं
मे
दिशं
रक्षेत्पावकोज्ज्वलशालिनी
।
यातुधानीं
दिशं
रक्षेद्यातुधानगणार्दिनी
॥
2
॥
पावमानीं
दिशं
रक्षेत्पवमानविलासिनी
।
दिशं
रौद्रीमवतु
मे
रुद्राणी
रुद्ररूपिणी
॥
3
॥
ऊर्ध्वं
ब्रह्माणी
मे
रक्षेदधस्ताद्वैष्णवी
तथा
।
एवं
दश
दिशो
रक्षेत्
सर्वतो
भुवनेश्वरी
॥
4
॥
ब्रह्मास्त्रस्मरणादेव
वाचां
सिद्धिः
प्रजायते
।
ब्रह्मदण्डश्च
मे
पातु
सर्वशस्त्रास्त्रभक्षकः
॥
5
॥
ब्रह्मशीर्षस्तथा
पातु
शत्रूणां
वधकारकः
।
सप्त
व्याहृतयः
पान्तु
सर्वदा
बिन्दुसम्युतः
॥
6
॥
वेदमाता
च
मां
पातु
सरहस्या
सदैवता
।
देवीसूक्तं
सदा
पातु
सहस्राक्षरदेवता
॥
7
॥
चतुःषष्टिकला
विद्या
दिव्याद्या
पातु
देवता
।
बीजशक्तिश्च
मे
पातु
पातु
विक्रमदेवता
॥
8
॥
तत्पदं
पातु
मे
पादौ
जङ्घे
मे
सवितुः
पदम्
।
वरेण्यं
कटिदेशं
तु
नाभिं
भर्गस्तथैव
च
॥
9
॥
देवस्य
मे
तु
हृदयं
धीमहीति
गलं
तथा
।
धियो
मे
पातु
जिह्वायां
यः
पदं
पातु
लोचने
॥
10
॥
ललाटे
नः
पदं
पातु
मूर्धानं
मे
प्रचोदयात्
।
तद्वर्णः
पातु
मूर्धानं
सकारः
पातु
फालकम्
॥
11
॥
चक्षुषी
मे
विकारस्तु
श्रोत्रं
रक्षेत्तु
कारकः
।
नासापुटे
वकारो
मे
रेकारस्तु
कपोलयोः
॥
12
॥
णिकारस्त्वधरोष्ठे
च
यकारस्तूर्ध्व
ओष्ठके
।
आस्यमध्ये
भकारस्तु
र्गोकारस्तु
कपोलयोः
॥
13
॥
देकारः
कण्ठदेशे
च
वकारः
स्कन्धदेशयोः
।
स्यकारो
दक्षिणं
हस्तं
धीकारो
वामहस्तकम्
॥
14
॥
मकारो
हृदयं
रक्षेद्धिकारो
जठरं
तथा
।
धिकारो
नाभिदेशं
तु
योकारस्तु
कटिद्वयम्
॥
15
॥
गुह्यं
रक्षतु
योकार
ऊरू
मे
नः
पदाक्षरम्
।
प्रकारो
जानुनी
रक्षेच्चोकारो
जङ्घदेशयोः
॥
16
॥
दकारो
गुल्फदेशं
तु
यात्कारः
पादयुग्मकम्
।
जातवेदेति
गायत्री
त्र्यम्बकेति
दशाक्षरा
॥
17
॥
सर्वतः
सर्वदा
पातु
आपोज्योतीति
षोडशी
।
इदं
तु
कवचं
दिव्यं
बाधाशतविनाशकम्
॥
18
॥
चतुःषष्टिकलाविद्यासकलैश्वर्यसिद्धिदम्
।
जपारम्भे
च
हृदयं
जपान्ते
कवचं
पठेत्
॥
19
॥
स्त्रीगोब्राह्मणमित्रादिद्रोहाद्यखिलपातकैः
।
मुच्यते
सर्वपापेभ्यः
परं
ब्रह्माधिगच्छति
॥
20
॥
पुष्पाञ्जलिं
च
गायत्र्या
मूलेनैव
पठेत्सकृत्
।
शतसाहस्रवर्षाणां
पूजायाः
फलमाप्नुयात्
॥
21
॥
भूर्जपत्रे
लिखित्वैतत्
स्वकण्ठे
धारयेद्यदि
।
शिखायां
दक्षिणे
बाहौ
कण्ठे
वा
धारयेद्बुधः
॥
22
॥
त्रैलोक्यं
क्षोभयेत्सर्वं
त्रैलोक्यं
दहति
क्षणात्
।
पुत्रवान्
धनवान्
श्रीमान्
नानाविद्यानिधिर्भवेत्
॥
23
॥
ब्रह्मास्त्रादीनि
सर्वाणि
तदङ्गस्पर्शनात्ततः
।
भवन्ति
तस्य
तुल्यानि
किमन्यत्कथयामि
ते
॥
24
॥
अभिमन्त्रितगायत्रीकवचं
मानसं
पठेत्
।
तज्जलं
पिबतो
नित्यं
पुरश्चर्याफलं
भवेत्
॥
25
॥
लघुसामान्यकं
मन्त्रं
महामन्त्रं
तथैव
च
।
यो
वेत्ति
धारणां
युञ्जन्
जीवन्मुक्तः
स
उच्यते
॥
26
॥
सप्तव्याहृतयो
विप्र
सप्तावस्थाः
प्रकीर्तिताः
।
सप्तजीवशता
नित्यं
व्याहृती
अग्निरूपिणी
॥
27
॥
प्रणवे
नित्ययुक्तस्य
व्याहृतीषु
च
सप्तसु
।
सर्वेषामेव
पापानां
सङ्करे
समुपस्थिते
॥
28
॥
शतं
सहस्रमभ्यर्च्य
गायत्री
पावनं
महत्
।
दशशतमष्टोत्तरशतं
गायत्री
पावनं
महत्
॥
29
॥
भक्तिमान्यो
भवेद्विप्रः
सन्ध्याकर्म
समाचरेत्
।
काले
काले
तु
कर्तव्यं
सिद्धिर्भवति
नान्यथा
॥
30
॥
प्रणवं
पूर्वमुद्धृत्य
भूर्भुवःस्वस्तथैव
च
।
तुर्यं
सहैव
गायत्रीजप
एवमुदाहृतम्
॥
31
॥
तुरीयपादमुत्सृज्य
गायत्रीं
च
जपेद्द्विजः
।
स
मूढो
नरकं
याति
कालसूत्रमधोगतिः
॥
32
॥
मन्त्रादौ
जननं
प्रोक्तं
मन्त्रान्ते
मृतसूतकम्
।
उभयोर्दोषनिर्मुक्तं
गायत्री
सफला
भवेत्
॥
33
॥
मन्त्रादौ
पाशबीजं
च
मन्त्रान्ते
कुशबीजकम्
।
मन्त्रमध्ये
तु
या
माया
गायत्री
सफला
भवेत्
॥
34
॥
वाचिकं
त्वेकमेव
स्यादुपांशु
शतमुच्यते
।
सहस्रं
मानसं
प्रोक्तं
त्रिविधं
जपलक्षणम्
॥
35
॥
अक्षमालां
च
मुद्रां
च
गुरोरपि
न
दर्शयेत्
।
जपं
चाक्षस्वरूपेणानामिकामध्यपर्वणि
॥
36
॥
अनामा
मध्यया
हीना
कनिष्ठादिक्रमेण
तु
।
तर्जनीमूलपर्यन्तं
गायत्रीजपलक्षणम्
॥
37
॥
पर्वभिस्तु
जपेदेवमन्यत्र
नियमः
स्मृतः
।
गायत्र्या
वेदमूलत्वाद्वेदः
पर्वसु
गीयते
॥
38
॥
दशभिर्जन्मजनितं
शतेनैव
पुरा
कृतम्
।
त्रियुगं
तु
सहस्राणि
गायत्री
हन्ति
किल्बिषम्
॥
39
॥
प्रातः
कालेषु
कर्तव्यं
सिद्धिं
विप्रो
य
इच्छति
।
नादालये
समाधिश्च
सन्ध्यायां
समुपासते
॥
40
॥
अङ्गुल्यग्रेण
यज्जप्तं
यज्जप्तं
मेरुलङ्घने
।
असङ्ख्यया
च
यज्जप्तं
तज्जप्तं
निष्फलं
भवेत्
॥
41
॥
विना
वस्त्रं
प्रकुर्वीत
गायत्री
निष्फला
भवेत्
।
वस्त्रपुच्छं
न
जानाति
वृथा
तस्य
परिश्रमः
॥
42
॥
गायत्रीं
तु
परित्यज्य
अन्यमन्त्रमुपासते
।
सिद्धान्नं
च
परित्यज्य
भिक्षामटति
दुर्मतिः
॥
43
॥
ऋषिश्छन्दो
देवताख्या
बीजशक्तिश्च
कीलकम्
।
विनियोगं
न
जानाति
गायत्री
निष्फला
भवेत्
॥
44
॥
वर्णमुद्रा
ध्यानपदमावाहनविसर्जनम्
।
दीपं
चक्रं
न
जानाति
गायत्री
निष्फला
भवेत्
॥
45
॥
शक्तिन्यासस्तथा
स्थानं
मन्त्रसम्बोधनं
परम्
।
त्रिविधं
यो
न
जानाति
गायत्री
निष्फला
भवेत्
॥
46
॥
पञ्चोपचारकांश्चैव
होमद्रव्यं
तथैव
च
।
पञ्चाङ्गं
च
विना
नित्यं
गायत्री
निष्फला
भवेत्
॥
47
॥
मन्त्रसिद्धिर्भवेज्जातु
विश्वामित्रेण
भाषितम्
।
व्यासो
वाचस्पतिं
जीवस्तुता
देवी
तपः
स्मृतौ
॥
48
॥
देवी
जप्ता
सहस्रं
सा
ह्युपपातकनाशिनी
।
लक्षजाप्ये
तथा
तच्च
महापातकनाशिनी
॥
49
॥
कोटिजाप्येन
राजेन्द्र
यदिच्छति
तदाप्नुयात्
।
न
देयं
परशिष्येभ्यो
ह्यभक्तेभ्यो
विशेषतः
।
शिष्येभ्यो
भक्तियुक्तेभ्यो
ह्यन्यथा
मृत्युमाप्नुयात्
॥
50
॥
इति
श्री
गायत्री
कवचम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits