Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्री गायत्री कवचम्

याज्ञवल्क्य उवाच –
स्वामिन् सर्वजगन्नाथ संशयोऽस्ति महान्मम ।
चतुःषष्टिकलानां च पातकानां च तद्वद ॥ 1 ॥
मुच्यते केन पुण्येन ब्रह्मरूपं कथं भवेत् ।
देहश्च देवतारूपो मन्त्ररूपो विशेषतः ।
क्रमतः श्रोतुमिच्छामि कवचं विधिपूर्वकम् ॥ 2 ॥
ब्रह्मोवाच –
अस्य श्रीगायत्रीकवचस्य ब्रह्मविष्णुरुद्रा ऋषयः, ऋग्यजुःसामाथर्वाणि छन्दांसि, परब्रह्मस्वरूपिणी गायत्री देवता, भूर्बीजं, भुवः शक्तिः, स्वः कीलकं, श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः ॥
ऋष्यादिन्यासः –
ओं ब्रह्मविष्णुरुद्र ऋषिभ्यो नमः शिरसि ।
ऋग्यजुःसामाथर्वच्छन्दोभ्यो नमः मुखे ।
परब्रह्मस्वरूपिणी गायत्रीदेवतायै नमः हृदि ।
भूः बीजाय नमः गुह्ये ।
भुवः शक्तये नमः पादयोः ।
स्वः कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।
करन्यासः –
ओं भूर्भुवः स्वः तत्सवितुरिति अङ्गुष्ठाभ्यां नमः ।
ओं भूर्भुवः स्वः वरेण्यमिति तर्जनीभ्यां नमः ।
ओं भूर्भुवः स्वः भर्गो देवस्येति मध्यमाभ्यां नमः ।
ओं भूर्भुवः स्वः धीमहीति अनामिकाभ्यां नमः ।
ओं भूर्भुवः स्वः धियो यो नः इति कनिष्ठिकाभ्यां नमः ।
ओं भूर्भुवः स्वः प्रचोदयादिति करतल करपृष्ठाभ्यां नमः ॥
अङ्गन्यासः –
ओं भूर्भुवः स्वः तत्सवितुरिति हृदयाय नमः ।
ओं भूर्भुवः स्वः वरेण्यमिति शिरसे स्वाहा ।
ओं भूर्भुवः स्वः भर्गो देवस्येति शिखायै वषट् ।
ओं भूर्भुवः स्वः धीमहीति कवचाय हुम् ।
ओं भूर्भुवः स्वः धियो यो नः इति नेत्रत्रयाय वौषट् ।
ओं भूर्भुवः स्वः प्रचोदयादिति अस्त्राय फट् ॥
प्रार्थना –
वर्णास्त्रां कुण्डिकाहस्तां शुद्धनिर्मलज्योतिषीम् ।
सर्वतत्त्वमयीं वन्दे गायत्रीं वेदमातरम् ॥
अथ ध्यानम् –
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै-
-र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकशां शूलं कपालं गुणं
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥
अथ कवचम् –
ओं गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ।
ब्रह्मविद्या च मे पश्चादुत्तरे मां सरस्वती ॥ 1 ॥
पावकीं मे दिशं रक्षेत्पावकोज्ज्वलशालिनी ।
यातुधानीं दिशं रक्षेद्यातुधानगणार्दिनी ॥ 2 ॥
पावमानीं दिशं रक्षेत्पवमानविलासिनी ।
दिशं रौद्रीमवतु मे रुद्राणी रुद्ररूपिणी ॥ 3 ॥
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।
एवं दश दिशो रक्षेत् सर्वतो भुवनेश्वरी ॥ 4 ॥
ब्रह्मास्त्रस्मरणादेव वाचां सिद्धिः प्रजायते ।
ब्रह्मदण्डश्च मे पातु सर्वशस्त्रास्त्रभक्षकः ॥ 5 ॥
ब्रह्मशीर्षस्तथा पातु शत्रूणां वधकारकः ।
सप्त व्याहृतयः पान्तु सर्वदा बिन्दुसम्युतः ॥ 6 ॥
वेदमाता च मां पातु सरहस्या सदैवता ।
देवीसूक्तं सदा पातु सहस्राक्षरदेवता ॥ 7 ॥
चतुःषष्टिकला विद्या दिव्याद्या पातु देवता ।
बीजशक्तिश्च मे पातु पातु विक्रमदेवता ॥ 8 ॥
तत्पदं पातु मे पादौ जङ्घे मे सवितुः पदम् ।
वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च ॥ 9 ॥
देवस्य मे तु हृदयं धीमहीति गलं तथा ।
धियो मे पातु जिह्वायां यः पदं पातु लोचने ॥ 10 ॥
ललाटे नः पदं पातु मूर्धानं मे प्रचोदयात् ।
तद्वर्णः पातु मूर्धानं सकारः पातु फालकम् ॥ 11 ॥
चक्षुषी मे विकारस्तु श्रोत्रं रक्षेत्तु कारकः ।
नासापुटे वकारो मे रेकारस्तु कपोलयोः ॥ 12 ॥
णिकारस्त्वधरोष्ठे च यकारस्तूर्ध्व ओष्ठके ।
आस्यमध्ये भकारस्तु र्गोकारस्तु कपोलयोः ॥ 13 ॥
देकारः कण्ठदेशे च वकारः स्कन्धदेशयोः ।
स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम् ॥ 14 ॥
मकारो हृदयं रक्षेद्धिकारो जठरं तथा ।
धिकारो नाभिदेशं तु योकारस्तु कटिद्वयम् ॥ 15 ॥
गुह्यं रक्षतु योकार ऊरू मे नः पदाक्षरम् ।
प्रकारो जानुनी रक्षेच्चोकारो जङ्घदेशयोः ॥ 16 ॥
दकारो गुल्फदेशं तु यात्कारः पादयुग्मकम् ।
जातवेदेति गायत्री त्र्यम्बकेति दशाक्षरा ॥ 17 ॥
सर्वतः सर्वदा पातु आपोज्योतीति षोडशी ।
इदं तु कवचं दिव्यं बाधाशतविनाशकम् ॥ 18 ॥
चतुःषष्टिकलाविद्यासकलैश्वर्यसिद्धिदम् ।
जपारम्भे च हृदयं जपान्ते कवचं पठेत् ॥ 19 ॥
स्त्रीगोब्राह्मणमित्रादिद्रोहाद्यखिलपातकैः ।
मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति ॥ 20 ॥
पुष्पाञ्जलिं च गायत्र्या मूलेनैव पठेत्सकृत् ।
शतसाहस्रवर्षाणां पूजायाः फलमाप्नुयात् ॥ 21 ॥
भूर्जपत्रे लिखित्वैतत् स्वकण्ठे धारयेद्यदि ।
शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्बुधः ॥ 22 ॥
त्रैलोक्यं क्षोभयेत्सर्वं त्रैलोक्यं दहति क्षणात् ।
पुत्रवान् धनवान् श्रीमान् नानाविद्यानिधिर्भवेत् ॥ 23 ॥
ब्रह्मास्त्रादीनि सर्वाणि तदङ्गस्पर्शनात्ततः ।
भवन्ति तस्य तुल्यानि किमन्यत्कथयामि ते ॥ 24 ॥
अभिमन्त्रितगायत्रीकवचं मानसं पठेत् ।
तज्जलं पिबतो नित्यं पुरश्चर्याफलं भवेत् ॥ 25 ॥
लघुसामान्यकं मन्त्रं महामन्त्रं तथैव च ।
यो वेत्ति धारणां युञ्जन् जीवन्मुक्तः स उच्यते ॥ 26 ॥
सप्तव्याहृतयो विप्र सप्तावस्थाः प्रकीर्तिताः ।
सप्तजीवशता नित्यं व्याहृती अग्निरूपिणी ॥ 27 ॥
प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।
सर्वेषामेव पापानां सङ्करे समुपस्थिते ॥ 28 ॥
शतं सहस्रमभ्यर्च्य गायत्री पावनं महत् ।
दशशतमष्टोत्तरशतं गायत्री पावनं महत् ॥ 29 ॥
भक्तिमान्यो भवेद्विप्रः सन्ध्याकर्म समाचरेत् ।
काले काले तु कर्तव्यं सिद्धिर्भवति नान्यथा ॥ 30 ॥
प्रणवं पूर्वमुद्धृत्य भूर्भुवःस्वस्तथैव च ।
तुर्यं सहैव गायत्रीजप एवमुदाहृतम् ॥ 31 ॥
तुरीयपादमुत्सृज्य गायत्रीं च जपेद्द्विजः ।
स मूढो नरकं याति कालसूत्रमधोगतिः ॥ 32 ॥
मन्त्रादौ जननं प्रोक्तं मन्त्रान्ते मृतसूतकम् ।
उभयोर्दोषनिर्मुक्तं गायत्री सफला भवेत् ॥ 33 ॥
मन्त्रादौ पाशबीजं च मन्त्रान्ते कुशबीजकम् ।
मन्त्रमध्ये तु या माया गायत्री सफला भवेत् ॥ 34 ॥
वाचिकं त्वेकमेव स्यादुपांशु शतमुच्यते ।
सहस्रं मानसं प्रोक्तं त्रिविधं जपलक्षणम् ॥ 35 ॥
अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् ।
जपं चाक्षस्वरूपेणानामिकामध्यपर्वणि ॥ 36 ॥
अनामा मध्यया हीना कनिष्ठादिक्रमेण तु ।
तर्जनीमूलपर्यन्तं गायत्रीजपलक्षणम् ॥ 37 ॥
पर्वभिस्तु जपेदेवमन्यत्र नियमः स्मृतः ।
गायत्र्या वेदमूलत्वाद्वेदः पर्वसु गीयते ॥ 38 ॥
दशभिर्जन्मजनितं शतेनैव पुरा कृतम् ।
त्रियुगं तु सहस्राणि गायत्री हन्ति किल्बिषम् ॥ 39 ॥
प्रातः कालेषु कर्तव्यं सिद्धिं विप्रो य इच्छति ।
नादालये समाधिश्च सन्ध्यायां समुपासते ॥ 40 ॥
अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने ।
असङ्ख्यया च यज्जप्तं तज्जप्तं निष्फलं भवेत् ॥ 41 ॥
विना वस्त्रं प्रकुर्वीत गायत्री निष्फला भवेत् ।
वस्त्रपुच्छं न जानाति वृथा तस्य परिश्रमः ॥ 42 ॥
गायत्रीं तु परित्यज्य अन्यमन्त्रमुपासते ।
सिद्धान्नं च परित्यज्य भिक्षामटति दुर्मतिः ॥ 43 ॥
ऋषिश्छन्दो देवताख्या बीजशक्तिश्च कीलकम् ।
विनियोगं न जानाति गायत्री निष्फला भवेत् ॥ 44 ॥
वर्णमुद्रा ध्यानपदमावाहनविसर्जनम् ।
दीपं चक्रं न जानाति गायत्री निष्फला भवेत् ॥ 45 ॥
शक्तिन्यासस्तथा स्थानं मन्त्रसम्बोधनं परम् ।
त्रिविधं यो न जानाति गायत्री निष्फला भवेत् ॥ 46 ॥
पञ्चोपचारकांश्चैव होमद्रव्यं तथैव च ।
पञ्चाङ्गं च विना नित्यं गायत्री निष्फला भवेत् ॥ 47 ॥
मन्त्रसिद्धिर्भवेज्जातु विश्वामित्रेण भाषितम् ।
व्यासो वाचस्पतिं जीवस्तुता देवी तपः स्मृतौ ॥ 48 ॥
देवी जप्ता सहस्रं सा ह्युपपातकनाशिनी ।
लक्षजाप्ये तथा तच्च महापातकनाशिनी ॥ 49 ॥
कोटिजाप्येन राजेन्द्र यदिच्छति तदाप्नुयात् ।
न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ।
शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ॥ 50 ॥
इति श्री गायत्री कवचम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits