Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

महागणपति सहस्रनामावली

ओं गणेश्वराय नमः ओं गणक्रीडाय नमः ओं गणनाथाय नमः ओं गणाधिपाय नमः ओं एकदंष्ट्राय नमः ओं वक्रतुण्डाय नमः ओं गजवक्त्राय नमः ओं महोदराय नमः ओं लम्बोदराय नमः ओं धूम्रवर्णाय नमः ओं विकटाय नमः ओं विघ्ननायकाय नमः ओं सुमुखाय नमः ओं दुर्मुखाय नमः ओं बुद्धाय नमः ओं विघ्नराजाय नमः ओं गजाननाय नमः ओं भीमाय नमः ओं प्रमोदाय नमः ओं आमोदाय नमः ओं सुरानन्दाय नमः 20 ओं मदोत्कटाय नमः ओं हेरम्बाय नमः ओं शम्बराय नमः ओं शम्भवे नमः ओं लम्बकर्णाय नमः ओं महाबलाय नमः ओं नन्दनाय नमः ओं अलम्पटाय नमः ओं अभीरवे नमः ओं मेघनादाय नमः ओं गणञ्जयाय नमः ओं विनायकाय नमः ओं विरूपाक्षाय नमः ओं धीरशूराय नमः ओं वरप्रदाय नमः ओं महागणपतये नमः ओं बुद्धिप्रियाय नमः ओं क्षिप्रप्रसादनाय नमः ओं रुद्रप्रियाय नमः 40 ओं गणाध्यक्षाय नमः ओं उमापुत्राय नमः ओं अघनाशनाय नमः ओं कुमारगुरवे नमः ओं ईशानपुत्राय नमः ओं मूषकवाहनाय नमः ओं सिद्धिप्रियाय नमः ओं सिद्धिपतये नमः ओं सिद्धाय नमः ओं सिद्धिविनायकाय नमः ओं अविघ्नाय नमः ओं तुम्बुरवे नमः ओं सिंहवाहनाय नमः ओं मोहिनीप्रियाय नमः ओं कटङ्कटाय नमः ओं राजपुत्राय नमः ओं शालकाय नमः ओं सम्मिताय नमः ओं अमिताय नमः ओं कूष्माण्डसामसम्भूतये नमः 60 ओं दुर्जयाय नमः ओं धूर्जयाय नमः ओं जयाय नमः ओं भूपतये नमः ओं भुवनपतये नमः ओं भूतानां पतये नमः ओं अव्ययाय नमः ओं विश्वकर्त्रे नमः ओं विश्वमुखाय नमः ओं विश्वरूपाय नमः ओं निधये नमः ओं घृणये नमः ओं कवये नमः ओं कवीनामृषभाय नमः ओं ब्रह्मण्याय नमः ओं ब्रह्मणस्पतये नमः ओं ज्येष्ठराजाय नमः ओं निधिपतये नमः ओं निधिप्रियपतिप्रियाय नमः ओं हिरण्मयपुरान्तःस्थाय नमः 80 ओं सूर्यमण्डलमध्यगाय नमः ओं कराहतिविध्वस्तसिन्धुसलिलाय नमः ओं पूषदन्तभिदे नमः ओं उमाङ्ककेलिकुतुकिने नमः ओं मुक्तिदाय नमः ओं कुलपालनाय नमः ओं किरीटिने नमः ओं कुण्डलिने नमः ओं हारिणे नमः ओं वनमालिने नमः ओं मनोमयाय नमः ओं वैमुख्यहतदैत्यश्रिये नमः ओं पादाहतिजितक्षितये नमः ओं सद्योजातस्वर्णमुञ्जमेखलिने नमः ओं दुर्निमित्तहृते नमः ओं दुःस्वप्नहृते नमः ओं प्रसहनाय नमः ओं गुणिने नमः ओं नादप्रतिष्ठिताय नमः ओं सुरूपाय नमः 100 ओं सर्वनेत्राधिवासाय नमः ओं वीरासनाश्रयाय नमः ओं पीताम्बराय नमः ओं खण्डरदाय नमः ओं खण्डेन्दुकृतशेखराय नमः ओं चित्राङ्कश्यामदशनाय नमः ओं फालचन्द्राय नमः ओं चतुर्भुजाय नमः ओं योगाधिपाय नमः ओं तारकस्थाय नमः ओं पुरुषाय नमः ओं गजकर्णकाय नमः ओं गणाधिराजाय नमः ओं विजयस्थिराय नमः ओं गजपतिध्वजिने नमः ओं देवदेवाय नमः ओं स्मरप्राणदीपकाय नमः ओं वायुकीलकाय नमः ओं विपश्चिद्वरदाय नमः ओं नादोन्नादभिन्नबलाहकाय नमः 120 ओं वराहरदनाय नमः ओं मृत्युञ्जयाय नमः ओं व्याघ्राजिनाम्बराय नमः ओं इच्छाशक्तिधराय नमः ओं देवत्रात्रे नमः ओं दैत्यविमर्दनाय नमः ओं शम्भुवक्त्रोद्भवाय नमः ओं शम्भुकोपघ्ने नमः ओं शम्भुहास्यभुवे नमः ओं शम्भुतेजसे नमः ओं शिवाशोकहारिणे नमः ओं गौरीसुखावहाय नमः ओं उमाङ्गमलजाय नमः ओं गौरीतेजोभुवे नमः ओं स्वर्धुनीभवाय नमः ओं यज्ञकायाय नमः ओं महानादाय नमः ओं गिरिवर्ष्मणे नमः ओं शुभाननाय नमः ओं सर्वात्मने नमः 140 ओं सर्वदेवात्मने नमः ओं ब्रह्ममूर्ध्ने नमः ओं ककुप्छ्रुतये नमः ओं ब्रह्माण्डकुम्भाय नमः ओं चिद्व्योमफालाय नमः ओं सत्यशिरोरुहाय नमः ओं जगज्जन्मलयोन्मेषनिमेषाय नमः ओं अग्न्यर्कसोमदृशे नमः ओं गिरीन्द्रैकरदाय नमः ओं धर्माधर्मोष्ठाय नमः ओं सामबृंहिताय नमः ओं ग्रहर्क्षदशनाय नमः ओं वाणीजिह्वाय नमः ओं वासवनासिकाय नमः ओं कुलाचलांसाय नमः ओं सोमार्कघण्टाय नमः ओं रुद्रशिरोधराय नमः ओं नदीनदभुजाय नमः ओं सर्पाङ्गुलीकाय नमः ओं तारकानखाय नमः 160 ओं भ्रूमध्यसंस्थितकराय नमः ओं ब्रह्मविद्यामदोत्कटाय नमः ओं व्योमनाभये नमः ओं श्रीहृदयाय नमः ओं मेरुपृष्ठाय नमः ओं अर्णवोदराय नमः ओं कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषाय नमः ओं पृथ्विकटये नमः ओं सृष्टिलिङ्गाय नमः ओं शैलोरवे नमः ओं दस्रजानुकाय नमः ओं पातालजङ्घाय नमः ओं मुनिपदे नमः ओं कालाङ्गुष्ठाय नमः ओं त्रयीतनवे नमः ओं ज्योतिर्मण्डललाङ्गूलाय नमः ओं हृदयालाननिश्चलाय नमः ओं हृत्पद्मकर्णिकाशालिवियत्केलिसरोवराय नमः ओं सद्भक्तध्याननिगडाय नमः ओं पूजावारीनिवारिताय नमः 180 ओं प्रतापिने नमः ओं कश्यपसुताय नमः ओं गणपाय नमः ओं विष्टपिने नमः ओं बलिने नमः ओं यशस्विने नमः ओं धार्मिकाय नमः ओं स्वोजसे नमः ओं प्रथमाय नमः ओं प्रथमेश्वराय नमः ओं चिन्तामणिद्वीपपतये नमः ओं कल्पद्रुमवनालयाय नमः ओं रत्नमण्डपमध्यस्थाय नमः ओं रत्नसिंहासनाश्रयाय नमः ओं तीव्राशिरोधृतपदाय नमः ओं ज्वालिनीमौलिलालिताय नमः ओं नन्दानन्दितपीठश्रिये नमः ओं भोगदाभूषितासनाय नमः ओं सकामदायिनीपीठाय नमः ओं स्फुरदुग्रासनाश्रयाय नमः 200 ओं तेजोवतीशिरोरत्नाय नमः ओं सत्यानित्यावतंसिताय नमः ओं सविघ्ननाशिनीपीठाय नमः ओं सर्वशक्त्यम्बुजाश्रयाय नमः ओं लिपिपद्मासनाधाराय नमः ओं वह्निधामत्रयाश्रयाय नमः ओं उन्नतप्रपदाय नमः ओं गूढगुल्फाय नमः ओं संवृत्तपार्ष्णिकाय नमः ओं पीनजङ्घाय नमः ओं श्लिष्टजानवे नमः ओं स्थूलोरवे नमः ओं प्रोन्नमत्कटये नमः ओं निम्ननाभये नमः ओं स्थूलकुक्षये नमः ओं पीनवक्षसे नमः ओं बृहद्भुजाय नमः ओं पीनस्कन्धाय नमः ओं कम्बुकण्ठाय नमः ओं लम्बोष्ठाय नमः 220 ओं लम्बनासिकाय नमः ओं भग्नवामरदाय नमः ओं तुङ्गाय सव्यदन्ताय नमः ओं महाहनवे नमः ओं ह्रस्वनेत्रत्रयाय नमः ओं शूर्पकर्णाय नमः ओं निबिडमस्तकाय नमः ओं स्तबकाकारकुम्भाग्राय नमः ओं रत्नमौलये नमः ओं निरङ्कुशाय नमः ओं सर्पहारकटीसूत्राय नमः ओं सर्पयज्ञोपवीतये नमः ओं सर्पकोटीरकटकाय नमः ओं सर्पग्रैवेयकाङ्गदाय नमः ओं सर्पकक्ष्योदराबन्धाय नमः ओं सर्पराजोत्तरीयकाय नमः ओं रक्ताय नमः ओं रक्ताम्बरधराय नमः ओं रक्तमाल्यविभूषणाय नमः ओं रक्तेक्षणाय नमः 240 ओं रक्तकराय नमः ओं रक्तताल्वोष्ठपल्लवाय नमः ओं श्वेताय नमः ओं श्वेताम्बरधराय नमः ओं श्वेतमाल्यविभूषणाय नमः ओं श्वेतातपत्ररुचिराय नमः ओं श्वेतचामरवीजिताय नमः ओं सर्वावयवसम्पूर्णसर्वलक्षणलक्षिताय नमः ओं सर्वाभरणशोभाढ्याय नमः ओं सर्वशोभासमन्विताय नमः ओं सर्वमङ्गलमाङ्गल्याय नमः ओं सर्वकारणकारणाय नमः ओं सर्वदैककराय नमः ओं शार्‍ङ्गिणे नमः ओं बीजापूरिणे नमः ओं गदाधराय नमः ओं इक्षुचापधराय नमः ओं शूलिने नमः ओं चक्रपाणये नमः ओं सरोजभृते नमः 260 ओं पाशिने नमः ओं धृतोत्पलाय नमः ओं शालीमञ्जरीभृते नमः ओं स्वदन्तभृते नमः ओं कल्पवल्लीधराय नमः ओं विश्वाभयदैककराय नमः ओं वशिने नमः ओं अक्षमालाधराय नमः ओं ज्ञानमुद्रावते नमः ओं मुद्गरायुधाय नमः ओं पूर्णपात्रिणे नमः ओं कम्बुधराय नमः ओं विधृतालिसमुद्गकाय नमः ओं मातुलुङ्गधराय नमः ओं चूतकलिकाभृते नमः ओं कुठारवते नमः ओं पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकाय नमः ओं भारतीसुन्दरीनाथाय नमः ओं विनायकरतिप्रियाय नमः ओं महालक्ष्मीप्रियतमाय नमः 280 ओं सिद्धलक्ष्मीमनोरमाय नमः ओं रमारमेशपूर्वाङ्गाय नमः ओं दक्षिणोमामहेश्वराय नमः ओं महीवराहवामाङ्गाय नमः ओं रतिकन्दर्पपश्चिमाय नमः ओं आमोदमोदजननाय नमः ओं सप्रमोदप्रमोदनाय नमः ओं समेधितसमृद्धश्रिये नमः ओं ऋद्धिसिद्धिप्रवर्तकाय नमः ओं दत्तसौमुख्यसुमुखाय नमः ओं कान्तिकन्दलिताश्रयाय नमः ओं मदनावत्याश्रिताङ्घ्रये नमः ओं कृत्तदौर्मुख्यदुर्मुखाय नमः ओं विघ्नसम्पल्लवोपघ्नसेवाय नमः ओं उन्निद्रमदद्रवाय नमः ओं विघ्नकृन्निघ्नचरणाय नमः ओं द्राविणीशक्तिसत्कृताय नमः ओं तीव्राप्रसन्ननयनाय नमः ओं ज्वालिनीपालितैकदृशे नमः ओं मोहिनीमोहनाय नमः 300 ओं भोगदायिनीकान्तिमण्डिताय नमः ओं कामिनीकान्तवक्त्रश्रिये नमः ओं अधिष्ठितवसुन्धराय नमः ओं वसुन्धरामदोन्नद्धमहाशङ्खनिधिप्रभवे नमः ओं नमद्वसुमतीमौलिमहापद्मनिधिप्रभवे नमः ओं सर्वसद्गुरुसंसेव्याय नमः ओं शोचिष्केशहृदाश्रयाय नमः ओं ईशानमूर्ध्ने नमः ओं देवेन्द्रशिखायै नमः ओं पवननन्दनाय नमः ओं अग्रप्रत्यग्रनयनाय नमः ओं दिव्यास्त्राणां प्रयोगविदे नमः ओं ऐरावतादिसर्वाशावारणावरणप्रियाय नमः ओं वज्राद्यस्त्रपरीवाराय नमः ओं गणचण्डसमाश्रयाय नमः ओं जयाजयपरीवाराय नमः ओं विजयाविजयावहाय नमः ओं अजितार्चितपादाब्जाय नमः ओं नित्यानित्यावतंसिताय नमः ओं विलासिनीकृतोल्लासाय नमः 320 ओं शौण्डीसौन्दर्यमण्डिताय नमः ओं अनन्तानन्तसुखदाय नमः ओं सुमङ्गलसुमङ्गलाय नमः ओं इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेविताय नमः ओं सुभगासंश्रितपदाय नमः ओं ललिताललिताश्रयाय नमः ओं कामिनीकामनाय नमः ओं काममालिनीकेलिलालिताय नमः ओं सरस्वत्याश्रयाय नमः ओं गौरीनन्दनाय नमः ओं श्रीनिकेतनाय नमः ओं गुरुगुप्तपदाय नमः ओं वाचासिद्धाय नमः ओं वागीश्वरीपतये नमः ओं नलिनीकामुकाय नमः ओं वामारामाय नमः ओं ज्येष्ठामनोरमाय नमः ओं रौद्रीमुद्रितपादाब्जाय नमः ओं हुम्बीजाय नमः ओं तुङ्गशक्तिकाय नमः 340 ओं विश्वादिजननत्राणाय नमः ओं स्वाहाशक्तये नमः ओं सकीलकाय नमः ओं अमृताब्धिकृतावासाय नमः ओं मदघूर्णितलोचनाय नमः ओं उच्छिष्टगणाय नमः ओं उच्छिष्टगणेशाय नमः ओं गणनायकाय नमः ओं सार्वकालिकसंसिद्धये नमः ओं नित्यशैवाय नमः ओं दिगम्बराय नमः ओं अनपायाय नमः ओं अनन्तदृष्टये नमः ओं अप्रमेयाय नमः ओं अजरामराय नमः ओं अनाविलाय नमः ओं अप्रतिरथाय नमः ओं अच्युताय नमः ओं अमृताय नमः ओं अक्षराय नमः 360 ओं अप्रतर्क्याय नमः ओं अक्षयाय नमः ओं अजय्याय नमः ओं अनाधाराय नमः ओं अनामयाय नमः ओं अमलाय नमः ओं अमोघसिद्धये नमः ओं अद्वैताय नमः ओं अघोराय नमः ओं अप्रमिताननाय नमः ओं अनाकाराय नमः ओं अब्धिभूम्यग्निबलघ्नाय नमः ओं अव्यक्तलक्षणाय नमः ओं आधारपीठाय नमः ओं आधाराय नमः ओं आधाराधेयवर्जिताय नमः ओं आखुकेतनाय नमः ओं आशापूरकाय नमः ओं आखुमहारथाय नमः ओं इक्षुसागरमध्यस्थाय नमः 380 ओं इक्षुभक्षणलालसाय नमः ओं इक्षुचापातिरेकश्रिये नमः ओं इक्षुचापनिषेविताय नमः ओं इन्द्रगोपसमानश्रिये नमः ओं इन्द्रनीलसमद्युतये नमः ओं इन्दीवरदलश्यामाय नमः ओं इन्दुमण्डलनिर्मलाय नमः ओं इध्मप्रियाय नमः ओं इडाभागाय नमः ओं इडाधाम्ने नमः ओं इन्दिराप्रियाय नमः ओं इक्ष्वाकुविघ्नविध्वंसिने नमः ओं इतिकर्तव्यतेप्सिताय नमः ओं ईशानमौलये नमः ओं ईशानाय नमः ओं ईशानसुताय नमः ओं ईतिघ्ने नमः ओं ईषणात्रयकल्पान्ताय नमः ओं ईहामात्रविवर्जिताय नमः ओं उपेन्द्राय नमः 400 ओं उडुभृन्मौलये नमः ओं उण्डेरकबलिप्रियाय नमः ओं उन्नताननाय नमः ओं उत्तुङ्गाय नमः ओं उदारत्रिदशाग्रण्ये नमः ओं ऊर्जस्वते नमः ओं ऊष्मलमदाय नमः ओं ऊहापोहदुरासदाय नमः ओं ऋग्यजुःसामसम्भूतये नमः ओं ऋद्धिसिद्धिप्रवर्तकाय नमः ओं ऋजुचित्तैकसुलभाय नमः ओं ऋणत्रयविमोचकाय नमः ओं स्वभक्तानां लुप्तविघ्नाय नमः ओं सुरद्विषां लुप्तशक्तये नमः ओं विमुखार्चानां लुप्तश्रिये नमः ओं लूताविस्फोटनाशनाय नमः ओं एकारपीठमध्यस्थाय नमः ओं एकपादकृतासनाय नमः ओं एजिताखिलदैत्यश्रिये नमः ओं एधिताखिलसंश्रयाय नमः 420 ओं ऐश्वर्यनिधये नमः ओं ऐश्वर्याय नमः ओं ऐहिकामुष्मिकप्रदाय नमः ओं ऐरम्मदसमोन्मेषाय नमः ओं ऐरावतनिभाननाय नमः ओं ओङ्कारवाच्याय नमः ओं ओङ्काराय नमः ओं ओजस्वते नमः ओं ओषधीपतये नमः ओं औदार्यनिधये नमः ओं औद्धत्यधुर्याय नमः ओं औन्नत्यनिस्वनाय नमः ओं सुरनागानामङ्कुशाय नमः ओं सुरविद्विषामङ्कुशाय नमः ओं अःसमस्तविसर्गान्तपदेषुपरिकीर्तिताय नमः ओं कमण्डलुधराय नमः ओं कल्पाय नमः ओं कपर्दिने नमः ओं कलभाननाय नमः ओं कर्मसाक्षिणे नमः 440 ओं कर्मकर्त्रे नमः ओं कर्माकर्मफलप्रदाय नमः ओं कदम्बगोलकाकाराय नमः ओं कूष्माण्डगणनायकाय नमः ओं कारुण्यदेहाय नमः ओं कपिलाय नमः ओं कथकाय नमः ओं कटिसूत्रभृते नमः ओं खर्वाय नमः ओं खड्गप्रियाय नमः ओं खड्गखातान्तःस्थाय नमः ओं खनिर्मलाय नमः ओं खल्वाटशृङ्गनिलयाय नमः ओं खट्वाङ्गिने नमः ओं खदुरासदाय नमः ओं गुणाढ्याय नमः ओं गहनाय नमः ओं गस्थाय नमः ओं गद्यपद्यसुधार्णवाय नमः ओं गद्यगानप्रियाय नमः 460 ओं गर्जाय नमः ओं गीतगीर्वाणपूर्वजाय नमः ओं गुह्याचाररताय नमः ओं गुह्याय नमः ओं गुह्यागमनिरूपिताय नमः ओं गुहाशयाय नमः ओं गुहाब्धिस्थाय नमः ओं गुरुगम्याय नमः ओं गुरोर्गुरवे नमः ओं घण्टाघर्घरिकामालिने नमः ओं घटकुम्भाय नमः ओं घटोदराय नमः ओं चण्डाय नमः ओं चण्डेश्वरसुहृदे नमः ओं चण्डीशाय नमः ओं चण्डविक्रमाय नमः ओं चराचरपतये नमः ओं चिन्तामणिचर्वणलालसाय नमः ओं छन्दसे नमः ओं छन्दोवपुषे नमः 480 ओं छन्दोदुर्लक्ष्याय नमः ओं छन्दविग्रहाय नमः ओं जगद्योनये नमः ओं जगत्साक्षिणे नमः ओं जगदीशाय नमः ओं जगन्मयाय नमः ओं जपाय नमः ओं जपपराय नमः ओं जप्याय नमः ओं जिह्वासिंहासनप्रभवे नमः ओं झलज्झलोल्लसद्दानझङ्कारिभ्रमराकुलाय नमः ओं टङ्कारस्फारसंरावाय नमः ओं टङ्कारिमणिनूपुराय नमः ओं ठद्वयीपल्लवान्तःस्थसर्वमन्त्रैकसिद्धिदाय नमः ओं डिण्डिमुण्डाय नमः ओं डाकिनीशाय नमः ओं डामराय नमः ओं डिण्डिमप्रियाय नमः ओं ढक्कानिनादमुदिताय नमः ओं ढौकाय नमः 500 ओं ढुण्ढिविनायकाय नमः ओं तत्वानां परमाय तत्त्वाय नमः ओं तत्त्वम्पदनिरूपिताय नमः ओं तारकान्तरसंस्थानाय नमः ओं तारकाय नमः ओं तारकान्तकाय नमः ओं स्थाणवे नमः ओं स्थाणुप्रियाय नमः ओं स्थात्रे नमः ओं स्थावराय जङ्गमाय जगते नमः ओं दक्षयज्ञप्रमथनाय नमः ओं दात्रे नमः ओं दानवमोहनाय नमः ओं दयावते नमः ओं दिव्यविभवाय नमः ओं दण्डभृते नमः ओं दण्डनायकाय नमः ओं दन्तप्रभिन्नाभ्रमालाय नमः ओं दैत्यवारणदारणाय नमः ओं दंष्ट्रालग्नद्विपघटाय नमः 520 ओं देवार्थनृगजाकृतये नमः ओं धनधान्यपतये नमः ओं धन्याय नमः ओं धनदाय नमः ओं धरणीधराय नमः ओं ध्यानैकप्रकटाय नमः ओं ध्येयाय नमः ओं ध्यानाय नमः ओं ध्यानपरायणाय नमः ओं नन्द्याय नमः ओं नन्दिप्रियाय नमः ओं नादाय नमः ओं नादमध्यप्रतिष्ठिताय नमः ओं निष्कलाय नमः ओं निर्मलाय नमः ओं नित्याय नमः ओं नित्यानित्याय नमः ओं निरामयाय नमः ओं परस्मै व्योम्ने नमः ओं परस्मै धाम्मे नमः 540 ओं परमात्मने नमः ओं परस्मै पदाय नमः ओं परात्पराय नमः ओं पशुपतये नमः ओं पशुपाशविमोचकाय नमः ओं पूर्णानन्दाय नमः ओं परानन्दाय नमः ओं पुराणपुरुषोत्तमाय नमः ओं पद्मप्रसन्ननयनाय नमः ओं प्रणताज्ञानमोचनाय नमः ओं प्रमाणप्रत्यायातीताय नमः ओं प्रणतार्तिनिवारणाय नमः ओं फलहस्ताय नमः ओं फणिपतये नमः ओं फेत्काराय नमः ओं फाणितप्रियाय नमः ओं बाणार्चिताङ्घ्रियुगलाय नमः ओं बालकेलिकुतूहलिने नमः ओं ब्रह्मणे नमः ओं ब्रह्मार्चितपदाय नमः 560 ओं ब्रह्मचारिणे नमः ओं बृहस्पतये नमः ओं बृहत्तमाय नमः ओं ब्रह्मपराय नमः ओं ब्रह्मण्याय नमः ओं ब्रह्मवित्प्रियाय नमः ओं बृहन्नादाग्र्यचीत्काराय नमः ओं ब्रह्माण्डावलिमेखलाय नमः ओं भ्रूक्षेपदत्तलक्ष्मीकाय नमः ओं भर्गाय नमः ओं भद्राय नमः ओं भयापहाय नमः ओं भगवते नमः ओं भक्तिसुलभाय नमः ओं भूतिदाय नमः ओं भूतिभूषणाय नमः ओं भव्याय नमः ओं भूतालयाय नमः ओं भोगदात्रे नमः ओं भ्रूमध्यगोचराय नमः 580 ओं मन्त्राय नमः ओं मन्त्रपतये नमः ओं मन्त्रिणे नमः ओं मदमत्तमनोरमाय नमः ओं मेखलावते नमः ओं मन्दगतये नमः ओं मतिमत्कमलेक्षणाय नमः ओं महाबलाय नमः ओं महावीर्याय नमः ओं महाप्राणाय नमः ओं महामनसे नमः ओं यज्ञाय नमः ओं यज्ञपतये नमः ओं यज्ञगोप्त्रे नमः ओं यज्ञफलप्रदाय नमः ओं यशस्कराय नमः ओं योगगम्याय नमः ओं याज्ञिकाय नमः ओं याजकप्रियाय नमः ओं रसाय नमः 600 ओं रसप्रियाय नमः ओं रस्याय नमः ओं रञ्जकाय नमः ओं रावणार्चिताय नमः ओं रक्षोरक्षाकराय नमः ओं रत्नगर्भाय नमः ओं राज्यसुखप्रदाय नमः ओं लक्ष्यालक्ष्यप्रदाय नमः ओं लक्ष्याय नमः ओं लयस्थाय नमः ओं लड्डुकप्रियाय नमः ओं लानप्रियाय नमः ओं लास्यपराय नमः ओं लाभकृते नमः ओं लोकविश्रुताय नमः ओं वरेण्याय नमः ओं वह्निवदनाय नमः ओं वन्द्याय नमः ओं वेदान्तगोचराय नमः ओं विकर्त्रे नमः 620 ओं विश्वतश्चक्षुषे नमः ओं विधात्रे नमः ओं विश्वतोमुखाय नमः ओं वामदेवाय नमः ओं विश्वनेत्रे नमः ओं वज्रिवज्रनिवारणाय नमः ओं विश्वबन्धनविष्कम्भाधाराय नमः ओं विश्वेश्वरप्रभवे नमः ओं शब्दब्रह्मणे नमः ओं शमप्राप्याय नमः ओं शम्भुशक्तिगणेश्वराय नमः ओं शास्त्रे नमः ओं शिखाग्रनिलयाय नमः ओं शरण्याय नमः ओं शिखरीश्वराय नमः ओं षडृतुकुसुमस्रग्विणे नमः ओं षडाधाराय नमः ओं षडक्षराय नमः ओं संसारवैद्याय नमः ओं सर्वज्ञाय नमः 640 ओं सर्वभेषजभेषजाय नमः ओं सृष्टिस्थितिलयक्रीडाय नमः ओं सुरकुञ्जरभेदनाय नमः ओं सिन्दूरितमहाकुम्भाय नमः ओं सदसद्व्यक्तिदायकाय नमः ओं साक्षिणे नमः ओं समुद्रमथनाय नमः ओं स्वसंवेद्याय नमः ओं स्वदक्षिणाय नमः ओं स्वतन्त्राय नमः ओं सत्यसङ्कल्पाय नमः ओं सामगानरताय नमः ओं सुखिने नमः ओं हंसाय नमः ओं हस्तिपिशाचीशाय नमः ओं हवनाय नमः ओं हव्यकव्यभुजे नमः ओं हव्याय नमः ओं हुतप्रियाय नमः ओं हर्षाय नमः 660 ओं हृल्लेखामन्त्रमध्यगाय नमः ओं क्षेत्राधिपाय नमः ओं क्षमाभर्त्रे नमः ओं क्षमापरपरायणाय नमः ओं क्षिप्रक्षेमकराय नमः ओं क्षेमानन्दाय नमः ओं क्षोणीसुरद्रुमाय नमः ओं धर्मप्रदाय नमः ओं अर्थदाय नमः ओं कामदात्रे नमः ओं सौभाग्यवर्धनाय नमः ओं विद्याप्रदाय नमः ओं विभवदाय नमः ओं भुक्तिमुक्तिफलप्रदाय नमः ओं आभिरूप्यकराय नमः ओं वीरश्रीप्रदाय नमः ओं विजयप्रदाय नमः ओं सर्ववश्यकराय नमः ओं गर्भदोषघ्ने नमः ओं पुत्रपौत्रदाय नमः 680 ओं मेधादाय नमः ओं कीर्तिदाय नमः ओं शोकहारिणे नमः ओं दौर्भाग्यनाशनाय नमः ओं प्रतिवादिमुखस्तम्भाय नमः ओं रुष्टचित्तप्रसादनाय नमः ओं पराभिचारशमनाय नमः ओं दुःखभञ्जनकारकाय नमः ओं लवाय नमः ओं त्रुटये नमः ओं कलायै नमः ओं काष्ठायै नमः ओं निमेषाय नमः ओं तत्पराय नमः ओं क्षणाय नमः ओं घट्यै नमः ओं मुहूर्ताय नमः ओं प्रहराय नमः ओं दिवानक्ताय नमः ओं अहर्निशाय नमः 700 ओं पक्षाय नमः ओं मासाय नमः ओं अयनाय नमः ओं वर्षाय नमः ओं युगाय नमः ओं कल्पाय नमः ओं महालयाय नमः ओं राशये नमः ओं तारायै नमः ओं तिथये नमः ओं योगाय नमः ओं वाराय नमः ओं करणाय नमः ओं अंशकाय नमः ओं लग्नाय नमः ओं होरायै नमः ओं कालचक्राय नमः ओं मेरवे नमः ओं सप्तर्षिभ्यो नमः ओं ध्रुवाय नमः 720 ओं राहवे नमः ओं मन्दाय नमः ओं कवये नमः ओं जीवाय नमः ओं बुधाय नमः ओं भौमाय नमः ओं शशिने नमः ओं रवये नमः ओं कालाय नमः ओं सृष्टये नमः ओं स्थितये नमः ओं विश्वस्मै स्थावराय जङ्गमाय नमः ओं यस्मै नमः ओं भुवे नमः ओं अद्भ्यो नमः ओं अग्नये नमः ओं मरुते नमः ओं व्योम्ने नमः ओं अहङ्कृतये नमः ओं प्रकृतये नमः 740 ओं पुंसे नमः ओं ब्रह्मणे नमः ओं विष्णवे नमः ओं शिवाय नमः ओं रुद्राय नमः ओं ईशाय नमः ओं शक्तये नमः ओं सदाशिवाय नमः ओं त्रिदशेभ्यो नमः ओं पितृभ्यो नमः ओं सिद्धेभ्यो नमः ओं यक्षेभ्यो नमः ओं रक्षोभ्यो नमः ओं किन्नरेभ्यो नमः ओं साध्येभ्यो नमः ओं विद्याधरेभ्यो नमः ओं भूतेभ्यो नमः ओं मनुष्येभ्यो नमः ओं पशुभ्यो नमः ओं खगेभ्यो नमः 760 ओं समुद्रेभ्यो नमः ओं सरिद्भ्यो नमः ओं शैलेभ्यो नमः ओं भूताय नमः ओं भव्याय नमः ओं भवोद्भवाय नमः ओं साङ्ख्याय नमः ओं पातञ्जलाय नमः ओं योगाय नमः ओं पुराणेभ्यो नमः ओं श्रुत्यै नमः ओं स्मृत्यै नमः ओं वेदाङ्गेभ्यो नमः ओं सदाचाराय नमः ओं मीमांसायै नमः ओं न्यायविस्तराय नमः ओं आयुर्वेदाय नमः ओं धनुर्वेदीय नमः ओं गान्धर्वाय नमः ओं काव्यनाटकाय नमः 780 ओं वैखानसाय नमः ओं भागवताय नमः ओं सात्वताय नमः ओं पाञ्चरात्रकाय नमः ओं शैवाय नमः ओं पाशुपताय नमः ओं कालामुखाय नमः ओं भैरवशासनाय नमः ओं शाक्ताय नमः ओं वैनायकाय नमः ओं सौराय नमः ओं जैनाय नमः ओं आर्हतसंहितायै नमः ओं सते नमः ओं असते नमः ओं व्यक्ताय नमः ओं अव्यक्ताय नमः ओं सचेतनाय नमः ओं अचेतनाय नमः ओं बन्धाय नमः 800 ओं मोक्षाय नमः ओं सुखाय नमः ओं भोगाय नमः ओं अयोगाय नमः ओं सत्याय नमः ओं अणवे नमः ओं महते नमः ओं स्वस्तये नमः ओं हुं नमः ओं फट् नमः ओं स्वधा नमः ओं स्वाहा नमः ओं श्रौषट् नमः ओं वौषट् नमः ओं वषट् नमः ओं ज्ञानाय नमः ओं विज्ञानाय नमः ओं आनन्दाय नमः ओं बोधाय नमः ओं संविदे नमः 820 ओं शमाय नमः ओं यमाय नमः ओं एकस्मै नमः ओं एकाक्षराधाराय नमः ओं एकाक्षरपरायणाय नमः ओं एकाग्रधिये नमः ओं एकवीराय नमः ओं एकानेकस्वरूपधृते नमः ओं द्विरूपाय नमः ओं द्विभुजाय नमः ओं द्व्यक्षाय नमः ओं द्विरदाय नमः ओं द्वीपरक्षकाय नमः ओं द्वैमातुराय नमः ओं द्विवदनाय नमः ओं द्वन्द्वातीताय नमः ओं द्वयातिगाय नमः ओं त्रिधाम्ने नमः ओं त्रिकराय नमः ओं त्रेतायै नमः 840 ओं त्रिवर्गफलदायकाय नमः ओं त्रिगुणात्मने नमः ओं त्रिलोकादये नमः ओं त्रिशक्तीशाय नमः ओं त्रिलोचनाय नमः ओं चतुर्बाहवे नमः ओं चतुर्दन्ताय नमः ओं चतुरात्मने नमः ओं चतुर्मुखाय नमः ओं चतुर्विधोपायमयाय नमः ओं चतुर्वर्णाश्रमाश्रयाय नमः ओं चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकाय नमः ओं चतुर्थीपूजनप्रीताय नमः ओं चतुर्थीतिथिसम्भवाय नमः ओं पञ्चाक्षरात्मने नमः ओं पञ्चात्मने नमः ओं पञ्चास्याय नमः ओं पञ्चकृत्यकृते नमः ओं पञ्चाधाराय नमः ओं पञ्चवर्णाय नमः 860 ओं पञ्चाक्षरपरायणाय नमः ओं पञ्चतालाय नमः ओं पञ्चकराय नमः ओं पञ्चप्रणवभाविताय नमः ओं पञ्चब्रह्ममयस्फूर्तये नमः ओं पञ्चावरणवारिताय नमः ओं पञ्चभक्ष्यप्रियाय नमः ओं पञ्चबाणाय नमः ओं पञ्चशिवात्मकाय नमः ओं षट्कोणपीठाय नमः ओं षट्चक्रधाम्ने नमः ओं षड्ग्रन्थिभेदकाय नमः ओं षडध्वध्वान्तविध्वंसिने नमः ओं षडङ्गुलमहाह्रदाय नमः ओं षण्मुखाय नमः ओं षण्मुखभ्रात्रे नमः ओं षट्छक्तिपरिवारिताय नमः ओं षड्वैरिवर्गविध्वंसिने नमः ओं षडूर्मिभयभञ्जनाय नमः ओं षट्तर्कदूराय नमः 880 ओं षट्कर्मनिरताय नमः ओं षड्रसाश्रयाय नमः ओं सप्तपातालचरणाय नमः ओं सप्तद्वीपोरुमण्डलाय नमः ओं सप्तस्वर्लोकमुकुटाय नमः ओं सप्तसप्तिवरप्रदाय नमः ओं सप्ताङ्गराज्यसुखदाय नमः ओं सप्तर्षिगणमण्डिताय नमः ओं सप्तच्छन्दोनिधये नमः ओं सप्तहोत्रे नमः ओं सप्तस्वराश्रयाय नमः ओं सप्ताब्धिकेलिकासाराय नमः ओं सप्तमातृनिषेविताय नमः ओं सप्तच्छन्दोमोदमदाय नमः ओं सप्तच्छन्दोमखप्रभवे नमः ओं अष्टमूर्तिध्येयमूर्तये नमः ओं अष्टप्रकृतिकारणाय नमः ओं अष्टाङ्गयोगफलभुजे नमः ओं अष्टपत्राम्बुजासनाय नमः ओं अष्टशक्तिसमृद्धश्रिये नमः 900 ओं अष्टैश्वर्यप्रदायकाय नमः ओं अष्टपीठोपपीठश्रिये नमः ओं अष्टमातृसमावृताय नमः ओं अष्टभैरवसेव्याय नमः ओं अष्टवसुवन्द्याय नमः ओं अष्टमूर्तिभृते नमः ओं अष्टचक्रस्फूरन्मूर्तये नमः ओं अष्टद्रव्यहविःप्रियाय नमः ओं नवनागासनाध्यासिने नमः ओं नवनिध्यनुशासिताय नमः ओं नवद्वारपुराधाराय नमः ओं नवाधारनिकेतनाय नमः ओं नवनारायणस्तुत्याय नमः ओं नवदुर्गानिषेविताय नमः ओं नवनाथमहानाथाय नमः ओं नवनागविभूषणाय नमः ओं नवरत्नविचित्राङ्गाय नमः ओं नवशक्तिशिरोधृताय नमः ओं दशात्मकाय नमः ओं दशभुजाय नमः 920 ओं दशदिक्पतिवन्दिताय नमः ओं दशाध्यायाय नमः ओं दशप्राणाय नमः ओं दशेन्द्रियनियामकाय नमः ओं दशाक्षरमहामन्त्राय नमः ओं दशाशाव्यापिविग्रहाय नमः ओं एकादशादिभीरुद्रैःस्तुताय नमः ओं एकादशाक्षराय नमः ओं द्वादशोद्दण्डदोर्दण्डाय नमः ओं द्वादशान्तनिकेतनाय नमः ओं त्रयोदशाभिदाभिन्नविश्वेदेवाधिदैवताय नमः ओं चतुर्दशेन्द्रवरदाय नमः ओं चतुर्दशमनुप्रभवे नमः ओं चतुर्दशादिविद्याढ्याय नमः ओं चतुर्दशजगत्प्रभवे नमः ओं सामपञ्चदशाय नमः ओं पञ्चदशीशीतांशुनिर्मलाय नमः ओं षोडशाधारनिलयाय नमः ओं षोडशस्वरमातृकाय नमः ओं षोडशान्तपदावासाय नमः 940 ओं षोडशेन्दुकलात्मकाय नमः ओं कलासप्तदश्यै नमः ओं सप्तदशाय नमः ओं सप्तदशाक्षराय नमः ओं अष्टादशद्वीपपतये नमः ओं अष्टादशपुराणकृते नमः ओं अष्टादशौषधीसृष्टये नमः ओं अष्टादशविधिस्मृताय नमः ओं अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदाय नमः ओं एकविंशाय पुंसे नमः ओं एकविंशत्यङ्गुलिपल्लवाय नमः ओं चतुर्विंशतितत्त्वात्मने नमः ओं पञ्चविंशाख्यपूरुषाय नमः ओं सप्तविंशतितारेशाय नमः ओं सप्तविंशतियोगकृते नमः ओं द्वात्रिंशद्भैरवाधीशाय नमः ओं चतुस्त्रिंशन्महाह्रदाय नमः ओं षट्त्रिंशत्तत्त्वसम्भूतये नमः ओं अष्टत्रिंशत्कलातनवे नमः ओं नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलाय नमः 960 ओं पञ्चाशदक्षरश्रेण्ये नमः ओं पञ्चाशद्रुद्रविग्रहाय नमः ओं पञ्चाशद्विष्णुशक्तीशाय नमः ओं पञ्चाशन्मातृकालयाय नमः ओं द्विपञ्चाशद्वपुःश्रेण्ये नमः ओं त्रिषष्ट्यक्षरसंश्रयाय नमः ओं चतुःषष्ट्यर्णनिर्णेत्रे नमः ओं चतुःषष्टिकलानिधये नमः ओं चतुःषष्टिमहासिद्धयोगिनीबृन्दवन्दिताय नमः ओं अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनाय नमः ओं चतुर्नवतिमन्त्रात्मने नमः ओं षण्णवत्यधिकप्रभवे नमः ओं शतानन्दाय नमः ओं शतधृतये नमः ओं शतपत्रायतेक्षणाय नमः ओं शतानीकाय नमः ओं शतमखाय नमः ओं शतधारावरायुधाय नमः ओं सहस्रपत्रनिलयाय नमः ओं सहस्रफणभूषणाय नमः 980 ओं सहस्रशीर्षापुरुषाय नमः ओं सहस्राक्षाय नमः ओं सहस्रपदे नमः ओं सहस्रनामसंस्तुत्याय नमः ओं सहस्राक्षबलापहाय नमः ओं दशसाहस्रफणभृत्फणिराजकृतासनाय नमः ओं अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रयन्त्रिताय नमः ओं लक्षाधीशप्रियाधाराय नमः ओं लक्षाधारमनोमयाय नमः ओं चतुर्लक्षजपप्रीताय नमः ओं चतुर्लक्षप्रकाशिताय नमः ओं चतुरशीतिलक्षाणां जीवानां देहसंस्थिताय नमः ओं कोटिसूर्यप्रतीकाशाय नमः ओं कोटिचन्द्रांशुनिर्मलाय नमः ओं शिवाभवाध्युष्टकोटिविनायकधुरन्धराय नमः ओं सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतये नमः ओं त्रयस्रिंशत्कोटिसुरश्रेणीप्रणतपादुकाय नमः ओं अनन्तनाम्ने नमः ओं अनन्तश्रिये नमः ओं अनन्तानन्तसौख्यदाय नमः 1000

Recite with devotion and pure heart

Regular practice brings spiritual benefits