ओं तुलस्यै नमः ।
ओं पावन्यै नमः ।
ओं पूज्यायै नमः ।
ओं बृन्दावननिवासिन्यै नमः ।
ओं ज्ञानदात्र्यै नमः ।
ओं ज्ञानमय्यै नमः ।
ओं निर्मलायै नमः ।
ओं सर्वपूजितायै नमः ।
ओं सत्यै नमः ।
ओं पतिव्रतायै नमः । 10
ओं बृन्दायै नमः ।
ओं क्षीराब्धिमथनोद्भवायै नमः ।
ओं कृष्णवर्णायै नमः ।
ओं रोगहन्त्र्यै नमः ।
ओं त्रिवर्णायै नमः ।
ओं सर्वकामदायै नमः ।
ओं लक्ष्मीसख्यै नमः ।
ओं नित्यशुद्धायै नमः ।
ओं सुदत्यै नमः ।
ओं भूमिपावन्यै नमः । 20
ओं हरिद्रान्नैकनिरतायै नमः ।
ओं हरिपादकृतालयायै नमः ।
ओं पवित्ररूपिण्यै नमः ।
ओं धन्यायै नमः ।
ओं सुगन्धिन्यै नमः ।
ओं अमृतोद्भवायै नमः ।
ओं सुरूपारोग्यदायै नमः ।
ओं तुष्टायै नमः ।
ओं शक्तित्रितयरूपिण्यै नमः ।
ओं देव्यै नमः । 30
ओं देवर्षिसंस्तुत्यायै नमः ।
ओं कान्तायै नमः ।
ओं विष्णुमनःप्रियायै नमः ।
ओं भूतवेतालभीतिघ्न्यै नमः ।
ओं महापातकनाशिन्यै नमः ।
ओं मनोरथप्रदायै नमः ।
ओं मेधायै नमः ।
ओं कान्त्यै नमः ।
ओं विजयदायिन्यै नमः ।
ओं शङ्खचक्रगदापद्मधारिण्यै नमः । 40
ओं कामरूपिण्यै नमः ।
ओं अपवर्गप्रदायै नमः ।
ओं श्यामायै नमः ।
ओं कृशमध्यायै नमः ।
ओं सुकेशिन्यै नमः ।
ओं वैकुण्ठवासिन्यै नमः ।
ओं नन्दायै नमः ।
ओं बिम्बोष्ठ्यै नमः ।
ओं कोकिलस्वरायै नमः ।
ओं कपिलायै नमः । 50
ओं निम्नगाजन्मभूम्यै नमः ।
ओं आयुष्यदायिन्यै नमः ।
ओं वनरूपायै नमः ।
ओं दुःखनाशिन्यै नमः ।
ओं अविकारायै नमः ।
ओं चतुर्भुजायै नमः ।
ओं गरुत्मद्वाहनायै नमः ।
ओं शान्तायै नमः ।
ओं दान्तायै नमः ।
ओं विघ्ननिवारिण्यै नमः । 60
ओं श्रीविष्णुमूलिकायै नमः ।
ओं पुष्ट्यै नमः ।
ओं त्रिवर्गफलदायिन्यै नमः ।
ओं महाशक्त्यै नमः ।
ओं महामायायै नमः ।
ओं लक्ष्मीवाणीसुपूजितायै नमः ।
ओं सुमङ्गल्यर्चनप्रीतायै नमः ।
ओं सौमङ्गल्यविवर्धिन्यै नमः ।
ओं चातुर्मास्योत्सवाराध्यायै नमः ।
ओं विष्णुसान्निध्यदायिन्यै नमः । 70
ओं उत्थानद्वादशीपूज्यायै नमः ।
ओं सर्वदेवप्रपूजितायै नमः ।
ओं गोपीरतिप्रदायै नमः ।
ओं नित्यायै नमः ।
ओं निर्गुणायै नमः ।
ओं पार्वतीप्रियायै नमः ।
ओं अपमृत्युहरायै नमः ।
ओं राधाप्रियायै नमः ।
ओं मृगविलोचनायै नमः ।
ओं अम्लानायै नमः । 80
ओं हंसगमनायै नमः ।
ओं कमलासनवन्दितायै नमः ।
ओं भूलोकवासिन्यै नमः ।
ओं शुद्धायै नमः ।
ओं रामकृष्णादिपूजितायै नमः ।
ओं सीतापूज्यायै नमः ।
ओं राममनःप्रियायै नमः ।
ओं नन्दनसंस्थितायै नमः ।
ओं सर्वतीर्थमय्यै नमः ।
ओं मुक्तायै नमः । 90
ओं लोकसृष्टिविधायिन्यै नमः ।
ओं प्रातर्दृश्यायै नमः ।
ओं ग्लानिहन्त्र्यै नमः ।
ओं वैष्णव्यै नमः ।
ओं सर्वसिद्धिदायै नमः ।
ओं नारायण्यै नमः ।
ओं सन्ततिदायै नमः ।
ओं मूलमृद्धारिपावन्यै नमः ।
ओं अशोकवनिकासंस्थायै नमः ।
ओं सीताध्यातायै नमः । 100
ओं निराश्रयायै नमः ।
ओं गोमतीसरयूतीररोपितायै नमः ।
ओं कुटिलालकायै नमः ।
ओं अपात्रभक्ष्यपापघ्न्यै नमः ।
ओं दानतोयविशुद्धिदायै नमः ।
ओं श्रुतिधारणसुप्रीतायै नमः ।
ओं शुभायै नमः ।
ओं सर्वेष्टदायिन्यै नमः । 108