Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

त्रिपुर सुन्दरी पञ्चरत्न स्तोत्रम्

नीलालकां शशिमुखीं नवपल्लवोष्ठीं
चाम्पेयपुष्पसुषमोज्ज्वलदिव्यनासाम् ।
पद्मेक्षणां मुकुरसुन्दरगण्डभागां
त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ 1 ॥
श्रीकुन्दकुड्मलशिखोज्ज्वलदन्तबृन्द-
-मन्दस्मितद्युतितिरोहितचारुवाणीम् ।
नानामणिस्थगितहारसुचारुकण्ठीं
त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ 2 ॥
पीनस्तनीं घनभुजां विपुलाब्जहस्तां
भृङ्गावलीजितसुशोभितरोमराजिम् ।
मत्तेभकुम्भकुचभारसुनम्रमध्यां
त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ 3 ॥
रम्भोज्ज्वलोरुयुगलां मृगराजपत्रा-
-मिन्द्रादिदेवमकुटोज्ज्वलपादपद्माम् ।
हेमाम्बरां घनघृताञ्चितखड्गवल्लीं
त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ 4 ॥
मत्तेभवक्त्रजननीं मृडदेहयुक्तां
शैलाग्रमध्यनिलयां वरसुन्दराङ्गीम् ।
कोटीश्वराख्यहृदिसंस्थितपादपद्मां
त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ 5 ॥
बाले त्वत्पादयुगलं ध्यात्वा सम्प्रति निर्मितम् ।
नवीनं पञ्चरत्नं च धार्यतां चरणद्वये ॥ 6 ॥
इति श्री त्रिपुरसुन्दरी पञ्चरत्न स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits