हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
त्रिपुर भैरवी स्तोत्रम्
श्री
भैरव
उवाच-
ब्रह्मादयस्स्तुति
शतैरपि
सूक्ष्मरूपं
जानन्तिनैव
जगदादिमनादिमूर्तिम्
।
तस्मादमूं
कुचनतां
नवकुङ्कुमास्यां
स्थूलां
स्तुवे
सकलवाङ्मयमातृभूताम्
॥
1
॥
सद्यस्समुद्यत
सहस्र
दिवाकराभां
विद्याक्षसूत्रवरदाभयचिह्नहस्तां
।
नेत्रोत्पलैस्त्रिभिरलङ्कृतवक्त्रपद्मां
त्वां
तारहाररुचिरां
त्रिपुरां
भजामः
॥
2
॥
सिन्दूरपूररुचिरां
कुचभारनम्रां
जन्मान्तरेषु
कृतपुण्य
फलैकगम्यां
।
अन्योन्य
भेदकलहाकुलमानभेदै-
-र्जानन्तिकिञ्जडधिय
स्तवरूपमन्ये
॥
3
॥
स्थूलां
वदन्ति
मुनयः
श्रुतयो
गृणन्ति
सूक्ष्मां
वदन्ति
वचसामधिवासमन्ये
।
त्वांमूलमाहुरपरे
जगताम्भवानि
मन्यामहे
वयमपारकृपाम्बुराशिम्
॥
4
॥
चन्द्रावतंस
कलितां
शरदिन्दुशुभ्रां
पञ्चाशदक्षरमयीं
हृदिभावयन्ती
।
त्वां
पुस्तकञ्जपपटीममृताढ्य
कुम्भां
व्याख्याञ्च
हस्तकमलैर्दधतीं
त्रिनेत्राम्
॥
5
॥
शम्भुस्त्वमद्रितनया
कलितार्धभागो
विष्णुस्त्वमम्ब
कमलापरिणद्धदेहः
।
पद्मोद्भवस्त्वमसि
वागधिवासभूमि-
रेषां
क्रियाश्च
जगति
त्रिपुरेत्वमेव
॥
6
॥
आश्रित्यवाग्भव
भवाम्श्चतुरः
परादीन्-
भावान्पदात्तु
विहितान्समुदारयन्तीं
।
कालादिभिश्च
करणैः
परदेवतां
त्वां
संविन्मयींहृदिकदापि
नविस्मरामि
॥
7
॥
आकुञ्च्य
वायुमभिजित्यच
वैरिषट्कं
आलोक्यनिश्चलधिया
निजनासिकाग्रां
।
ध्यायन्ति
मूर्ध्नि
कलितेन्दुकलावतंसं
त्वद्रूपमम्ब
कृतिनस्तरुणार्कमित्रम्
॥
8
॥
त्वं
प्राप्यमन्मथरिपोर्वपुरर्धभागं
सृष्टिङ्करोषि
जगतामिति
वेदवादः
।
सत्यन्तदद्रितनये
जगदेकमातः
नोचेद
शेषजगतः
स्थितिरेवनस्यात्
॥
9
॥
पूजांविधायकुसुमैः
सुरपादपानां
पीठेतवाम्ब
कनकाचल
कन्दरेषु
।
गायन्तिसिद्धवनितास्सहकिन्नरीभि-
रास्वादितामृतरसारुणपद्मनेत्राः
॥
10
॥
विद्युद्विलास
वपुषः
श्रियमावहन्तीं
यान्तीमुमांस्वभवनाच्छिवराजधानीं
।
सौन्दर्यमार्गकमलानिचका
सयन्तीं
देवीम्भजेत
परमामृत
सिक्तगात्राम्
॥
11
॥
आनन्दजन्मभवनं
भवनं
श्रुतीनां
चैतन्यमात्र
तनुमम्बतवाश्रयामि
।
ब्रह्मेशविष्णुभिरुपासितपादपद्मं
सौभाग्यजन्मवसतिं
त्रिपुरेयथावत्
॥
12
॥
सर्वार्थभाविभुवनं
सृजतीन्दुरूपा
यातद्बिभर्ति
पुनरर्क
तनुस्स्वशक्त्या
।
ब्रह्मात्मिकाहरतितं
सकलम्युगान्ते
तां
शारदां
मनसि
जातु
न
विस्मरामि
॥
13
॥
नारायणीति
नरकार्णवतारिणीति
गौरीति
खेदशमनीति
सरस्वतीति
।
ज्ञानप्रदेति
नयनत्रयभूषितेति
त्वामद्रिराजतनये
विबुधा
पदन्ति
॥
14
॥
येस्तुवन्तिजगन्मातः
श्लोकैर्द्वादशभिःक्रमात्
।
त्वामनु
पाप्र्यवाक्सिद्धिं
प्राप्नुयुस्ते
पराम्श्रियम्
॥
15
॥
इतिते
कथितं
देवि
पञ्चाङ्गं
भैरवीमयं
।
गुह्याद्गोप्यतमङ्गोप्यं
गोपनीयं
स्वयोनिवत्
॥
16
॥
इति
श्री
रुद्रयामले
उमामहेश्वर
संवादे
पञ्चाङ्गखण्ड
निरूपणे
श्रीभैरवीस्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits