Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्री कामाक्ष्यष्टोत्तरशतनामावलिः

ओं कालकण्ठ्यै नमः । ओं त्रिपुरायै नमः । ओं बालायै नमः । ओं मायायै नमः । ओं त्रिपुरसुन्दर्यै नमः । ओं सुन्दर्यै नमः । ओं सौभाग्यवत्यै नमः । ओं क्लीङ्कार्यै नमः । ओं सर्वमङ्गलायै नमः । ओं ऐङ्कार्यै नमः । 10 ओं स्कन्दजनन्यै नमः । ओं परायै नमः । ओं पञ्चदशाक्षर्यै नमः । ओं त्रैलोक्यमोहनाधीशायै नमः । ओं सर्वाशापूरवल्लभायै नमः । ओं सर्वसङ्क्षोभणाधीशायै नमः । ओं सर्वसौभाग्यवल्लभायै नमः । ओं सर्वार्थसाधकाधीशायै नमः । ओं सर्वरक्षाकराधिपायै नमः । ओं सर्वरोगहराधीशायै नमः । 20 ओं सर्वसिद्धिप्रदाधिपायै नमः । ओं सर्वानन्दमयाधीशायै नमः । ओं योगिनीचक्रनायिकायै नमः । ओं भक्तानुरक्तायै नमः । ओं रक्ताङ्ग्यै नमः । ओं शङ्करार्धशरीरिण्यै नमः । ओं पुष्पबाणेक्षुकोदण्डपाशाङ्कुशकरायै नमः । ओं उज्ज्वलायै नमः । ओं सच्चिदानन्दलहर्यै नमः । ओं श्रीविद्यायै नमः । 30 ओं परमेश्वर्यै नमः । ओं अनङ्गकुसुमोद्यानायै नमः । ओं चक्रेश्वर्यै नमः । ओं भुवनेश्वर्यै नमः । ओं गुप्तायै नमः । ओं गुप्ततरायै नमः । ओं नित्यायै नमः । ओं नित्यक्लिन्नायै नमः । ओं मदद्रवायै नमः । ओं मोहिन्यै नमः । 40 ओं परमानन्दायै नमः । ओं कामेश्यै नमः । ओं तरुणीकलायै नमः । ओं कलावत्यै नमः । ओं भगवत्यै नमः । ओं पद्मरागकिरीटायै नमः । ओं रक्तवस्त्रायै नमः । ओं रक्तभूषायै नमः । ओं रक्तगन्धानुलेपनायै नमः । ओं सौगन्धिकलसद्वेण्यै नमः । 50 ओं मन्त्रिण्यै नमः । ओं तन्त्ररूपिण्यै नमः । ओं तत्त्वमय्यै नमः । ओं सिद्धान्तपुरवासिन्यै नमः । ओं श्रीमत्यै नमः । ओं चिन्मय्यै नमः । ओं देव्यै नमः । ओं कौलिन्यै नमः । ओं परदेवतायै नमः । ओं कैवल्यरेखायै नमः । 60 ओं वशिन्यै नमः । ओं सर्वेश्वर्यै नमः । ओं सर्वमातृकायै नमः । ओं विष्णुस्वस्रे नमः । ओं वेदमय्यै नमः । ओं सर्वसम्पत्प्रदायिन्यै नमः । ओं किङ्करीभूतगीर्वाण्यै नमः । ओं सुतवापिविनोदिन्यै नमः । ओं मणिपूरसमासीनायै नमः । ओं अनाहताब्जवासिन्यै नमः । 70 ओं विशुद्धिचक्रनिलयायै नमः । ओं आज्ञापद्मनिवासिन्यै नमः । ओं अष्टत्रिंशत्कलामूर्त्यै नमः । ओं सुषुम्नाद्वारमध्यगायै नमः । ओं योगीश्वरमनोध्येयायै नमः । ओं परब्रह्मस्वरूपिण्यै नमः । ओं चतुर्भुजायै नमः । ओं चन्द्रचूडायै नमः । ओं पुराणागमरूपिण्यै नमः । ओं ओङ्कार्यै नमः । 80 ओं विमलायै नमः । ओं विद्यायै नमः । ओं पञ्चप्रणवरूपिण्यै नमः । ओं भूतेश्वर्यै नमः । ओं भूतमय्यै नमः । ओं पञ्चाशत्पीठरूपिण्यै नमः । ओं षोडान्यासमहारूपिण्यै नमः । ओं कामाक्ष्यै नमः । ओं दशमातृकायै नमः । ओं आधारशक्त्यै नमः । 90 ओं अरुणायै नमः । ओं लक्ष्म्यै नमः । ओं त्रिपुरभैरव्यै नमः । ओं रहःपूजासमालोलायै नमः । ओं रहोयन्त्रस्वरूपिण्यै नमः । ओं त्रिकोणमध्यनिलयायै नमः । ओं बिन्दुमण्डलवासिन्यै नमः । ओं वसुकोणपुरावासायै नमः । ओं दशारद्वयवासिन्यै नमः । ओं चतुर्दशारचक्रस्थायै नमः । 100 ओं वसुपद्मनिवासिन्यै नमः । ओं स्वराब्जपत्रनिलयायै नमः । ओं वृत्तत्रयवासिन्यै नमः । ओं चतुरस्रस्वरूपास्यायै नमः । ओं नवचक्रस्वरूपिण्यै नमः । ओं महानित्यायै नमः । ओं विजयायै नमः । ओं श्रीराजराजेश्वर्यै नमः ॥ 108 इति श्री कामाक्ष्यष्टोत्तरशतनामावली ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits