हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्यामला दण्डकम्
ध्यानम्
–
माणिक्यवीणामुपलालयन्तीं
मदालसां
मञ्जुलवाग्विलासाम्
।
माहेन्द्रनीलद्युतिकोमलाङ्गीं
मातङ्गकन्यां
मनसा
स्मरामि
॥
1
॥
चतुर्भुजे
चन्द्रकलावतंसे
कुचोन्नते
कुङ्कुमराग
शोणे
।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण-
-हस्ते
नमस्ते
जगदेकमातः
॥
2
॥
माता
मरकतश्यामा
मातङ्गी
मदशालिनी
।
कुर्यात्कटाक्षं
कल्याणी
कदम्बवनवासिनी
॥
3
॥
जय
मातङ्गतनये
जय
नीलोत्पलद्युते
।
जय
सङ्गीतरसिके
जय
लीलाशुकप्रिये
॥
4
॥
दण्डकम्
–
जय
जननि
सुधा
समुद्रान्तरुद्यन्
मणिद्वीप
संरूढ
बिल्वाटवीमध्यकल्पद्रुमाकल्प
कादम्बकान्तार
वासप्रिये
कृत्तिवासःप्रिये
सर्वलोकप्रिये
।
सादरारब्ध
सङ्गीत
सम्भावना
सम्भ्रमालोल
नीपस्रगाबद्धचूली
सनाथत्रिके
सानुमत्पुत्रिके
।
शेखरीभूत
शीतांशुरेखा
मयूखावली
बद्ध
सुस्निग्ध
नीलालकश्रेणिशृङ्गारिते
लोकसम्भाविते
।
कामलीला
धनुःसन्निभ
भ्रूलतापुष्प
सन्दोह
सन्देह
कृल्लोचने
वाक्सुधासेचने
।
चारु
गोरोचना
पङ्क
केली
ललामाभिरामे
सुरामे
रमे
।
प्रोल्लसद्वालिका
मौक्तिकश्रेणिका
चन्द्रिका
मण्डलोद्भासि
लावण्यगण्डस्थल
न्यस्तकस्तूरिकापत्ररेखा
समुद्भूत
सौरभ्य
सम्भ्रान्त
भृङ्गाङ्गना
गीतसान्द्रीभवन्मन्द्र
तन्त्रीस्वरे
सुस्वरे
भास्वरे
।
वल्लकी
वादन
प्रक्रिया
लोल
तालीदलाबद्धताटङ्क
भूषाविशेषान्विते
सिद्धसम्मानिते
।
दिव्य
हालामदोद्वेल
हेलालसच्चक्षुरान्दोलन
श्रीसमाक्षिप्त
कर्णैक
नीलोत्पले
पूरिताशेष
लोकाभिवाञ्छा
फले
श्रीफले
।
स्वेद
बिन्दूल्लसत्फाल
लावण्य
निष्यन्द
सन्दोह
सन्देहकृन्नासिका
मौक्तिके
सर्वविश्वात्मिके
कालिके
।
मुग्ध
मन्दस्मितोदार
वक्त्रस्फुरत्पूग
ताम्बूलकर्पूर
खण्डोत्करे
ज्ञानमुद्राकरे
सर्वसम्पत्करे
पद्मभास्वत्करे
।
कुन्दपुष्पद्युति
स्निग्ध
दन्तावली
निर्मलालोल
कल्लोल
सम्मेलन
स्मेरशोणाधरे
चारुवीणाधरे
पक्वबिम्बाधरे
।
सुललित
नवयौवनारम्भ
चन्द्रोदयोद्वेल
लावण्य
दुग्धार्णवाविर्भवत्कम्बुबिब्बोक
भृत्कन्धरे
सत्कलामन्दिरे
मन्थरे
।
दिव्यरत्नप्रभा
बन्धुरच्छन्न
हारादिभूषा
समुद्योतमानानवद्यांशु
शोभे
शुभे
।
रत्नकेयूर
रश्मिच्छटा
पल्लवप्रोल्लसद्दोर्लता
राजिते
योगिभिः
पूजिते
।
विश्वदिङ्मण्डलव्यापि
माणिक्यतेजः
स्फुरत्कङ्कणालङ्कृते
विभ्रमालङ्कृते
साधकैः
सत्कृते
।
वासरारम्भ
वेला
समुज्जृम्भमाणारविन्द
प्रतिद्वन्द्विपाणिद्वये
सन्ततोद्यद्दये
अद्वये
।
दिव्य
रत्नोर्मिकादीधिति
स्तोमसन्ध्यायमानाङ्गुली
पल्लवोद्यन्नखेन्दु
प्रभामण्डले
सन्नताखण्डले
चित्प्रभामण्डले
प्रोल्लसत्कुण्डले
।
तारकाराजिनीकाश
हारावलिस्मेर
चारुस्तनाभोग
भारानमन्मध्यवल्लीवलिच्छेद
वीचीसमुल्लास
सन्दर्शिताकार
सौन्दर्य
रत्नाकरे
वल्लकीभृत्करे
किङ्कर
श्रीकरे
।
हेमकुम्भोपमोत्तुङ्ग
वक्षोज
भारावनम्रे
त्रिलोकावनम्रे
।
लसद्वृत्त
गम्भीर
नाभी
सरस्तीर
शैवाल
शङ्काकर
श्याम
रोमावलीभूषणे
मञ्जु
सम्भाषणे
।
चारु
शिञ्जत्कटी
सूत्र
निर्भर्त्सितानङ्ग
लीला
धनुः
शिञ्जिनीडम्बरे
दिव्यरत्नाम्बरे
।
पद्मरागोल्लसन्मेखला
भास्वर
श्रोणि
शोभा
जित
स्वर्णभूभृत्तले
चन्द्रिकाशीतले
।
विकसित
नव
किंशुकाताम्र
दिव्यांशुकच्छन्न
चारूरुशोभा
पराभूतसिन्दूर
शोणायमानेन्द्र
मातङ्ग
हस्तार्गले
वैभवानर्गले
श्यामले
।
कोमल
स्निग्ध
नीलोपलोत्पादितानङ्ग
तूणीर
शङ्काकरोदार
जङ्घालते
चारुलीलागते
।
नम्र
दिक्पाल
सीमन्तिनी
कुन्तल
स्निग्ध
नील
प्रभा
पुञ्ज
सञ्जात
दूर्वाङ्कुराशङ्क
सारङ्ग
सम्योग
रिङ्खन्नखेन्दूज्ज्वले
प्रोज्ज्वले
निर्मले
।
प्रह्व
देवेश
लक्ष्मीश
भूतेश
तोयेश
वाणीश
कीनाश
दैत्येश
यक्षेश
वाय्वग्निकोटीर
माणिक्य
सङ्घृष्ट
बालातपोद्दाम
लाक्षारसारुण्य
तारुण्य
लक्ष्मीगृहीताङ्घ्रि
पद्मे
सुपद्मे
उमे
।
सुरुचिर
नवरत्न
पीठस्थिते
सुस्थिते
।
रत्नपद्मासने
रत्नसिंहासने
शङ्खपद्मद्वयोपाश्रिते
।
तत्र
विघ्नेश
दुर्गा
वटु
क्षेत्रपालैर्युते
।
मत्तमातङ्ग
कन्यासमूहान्विते
मञ्जुला
मेनकाद्यङ्गना
मानिते
भैरवैरष्टभिर्वेष्टिते
।
देवि
वामादिभिः
शक्तिभिः
सेविते
।
धात्रिलक्ष्म्यादि
शक्त्यष्टकैः
सम्युते
।
मातृकामण्डलैर्मण्डिते
।
यक्ष
गन्धर्व
सिद्धाङ्गना
मण्डलैरर्चिते
।
पञ्चबाणात्मिके
।
पञ्चबाणेन
रत्या
च
सम्भाविते
।
प्रीतिभाजा
वसन्तेन
चानन्दिते
।
भक्तिभाजां
परं
श्रेयसे
कल्पसे
।
योगिनां
मानसे
द्योतसे
।
छन्दसामोजसा
भ्राजसे
।
गीतविद्या
विनोदातितृष्णेन
कृष्णेन
सम्पूज्यसे
।
भक्तिमच्चेतसा
वेधसा
स्तूयसे
।
विश्वहृद्येन
वाद्येन
विद्याधरैर्गीयसे
।
श्रवणहरण
दक्षिणक्वाणया
वीणया
किन्नरैर्गीयसे
।
यक्ष
गन्धर्व
सिद्धाङ्गना
मण्डलैरर्च्यसे
।
सर्वसौभाग्यवाञ्छावतीभिर्वधूभिः
सुराणां
समाराध्यसे
।
सर्वविद्याविशेषात्मकं
चाटुगाथासमुच्चारणं
कण्ठमूलोल्लसद्वर्णराजित्रयं
कोमलश्यामलोदारपक्षद्वयं
तुण्डशोभातिदूरीभवत्किंशुकं
तं
शुकं
लालयन्ती
परिक्रीडसे
।
पाणिपद्मद्वयेनाक्षमालामपि
स्फाटिकीं
ज्ञानसारात्मकं
पुस्तकं
चाङ्कुशं
पाशमाबिभ्रती
येन
सञ्चिन्त्यसे
तस्य
वक्त्रान्तरात्
गद्यपद्यात्मिका
भारती
निस्सरेत्
।
येन
वा
यावकाभाकृतिर्भाव्यसे
तस्य
वश्या
भवन्ति
स्त्रियः
पूरुषाः
।
येन
वा
शातकुम्भद्युतिर्भाव्यसे
सोऽपि
लक्ष्मीसहस्रैः
परिक्रीडते
।
किं
न
सिद्ध्येद्वपुः
श्यामलं
कोमलं
चन्द्रचूडान्वितं
तावकं
ध्यायतः
।
तस्य
लीलासरो
वारिधिः,
तस्य
केलीवनं
नन्दनं,
तस्य
भद्रासनं
भूतलं,
तस्य
गीर्देवता
किङ्करी,
तस्य
चाज्ञाकरी
श्रीः
स्वयम्
।
सर्वतीर्थात्मिके,
सर्वमन्त्रात्मिके,
सर्वतन्त्रात्मिके,
सर्वयन्त्रात्मिके,
सर्वपीठात्मिके,
सर्वतत्त्वात्मिके,
सर्वशक्त्यात्मिके,
सर्वविद्यात्मिके,
सर्वयोगात्मिके,
सर्वनादात्मिके,
सर्वशब्दात्मिके,
सर्वविश्वात्मिके,
सर्वदीक्षात्मिके,
सर्वसर्वात्मिके,
सर्वगे,
पाहि
मां
पाहि
मां
पाहि
मां,
देवि
तुभ्यं
नमो,
देवि
तुभ्यं
नमो,
देवि
तुभ्यं
नमः
॥
इति
श्री
कालिदास
कृत
श्री
श्यामला
दण्डकम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits