हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
षष्ठी देवी स्तोत्रम्
ध्यानम्
श्रीमन्मातरमम्बिकां
विधिमनोजातां
सदाभीष्टदां
स्कन्देष्टां
च
जगत्प्रसूं
विजयदां
सत्पुत्र
सौभाग्यदाम्
।
सद्रत्नाभरणान्वितां
सकरुणां
शुभ्रां
शुभां
सुप्रभां
षष्ठांशां
प्रकृतेः
परं
भगवतीं
श्रीदेवसेनां
भजे
॥
1
॥
षष्ठांशां
प्रकृतेः
शुद्धां
सुप्रतिष्ठां
च
सुव्रतां
सुपुत्रदां
च
शुभदां
दयारूपां
जगत्प्रसूम्
।
श्वेतचम्पकवर्णाभां
रक्तभूषणभूषितां
पवित्ररूपां
परमं
देवसेना
परां
भजे
॥
2
॥
स्तोत्रम्
नमो
देव्यै
महादेव्यै
सिद्ध्यै
शान्त्यै
नमो
नमः
।
शुभायै
देवसेनायै
षष्ठीदेव्यै
नमो
नमः
॥
1
॥
वरदायै
पुत्रदायै
धनदायै
नमो
नमः
।
सुखदायै
मोक्षदायै
षष्ठीदेव्यै
नमो
नमः
॥
2
॥
सृष्ट्यै
षष्ठांशरूपायै
सिद्धायै
च
नमो
नमः
।
मायायै
सिद्धयोगिन्यै
षष्ठीदेव्यै
नमो
नमः
॥
3
॥
सारायै
शारदायै
च
परादेव्यै
नमो
नमः
।
बालाधिष्टातृदेव्यै
च
षष्ठीदेव्यै
नमो
नमः
॥
4
॥
कल्याणदायै
कल्याण्यै
फलदायै
च
कर्मणाम्
।
प्रत्यक्षायै
सर्वभक्तानां
षष्ठीदेव्यै
नमो
नमः
॥
5
॥
पूज्यायै
स्कन्दकान्तायै
सर्वेषां
सर्वकर्मसु
।
देवरक्षणकारिण्यै
षष्ठीदेव्यै
नमो
नमः
॥
6
॥
शुद्धसत्त्वस्वरूपायै
वन्दितायै
नृणां
सदा
।
हिंसाक्रोधवर्जितायै
षष्ठीदेव्यै
नमो
नमः
॥
7
॥
धनं
देहि
प्रियां
देहि
पुत्रं
देहि
सुरेश्वरि
।
मानं
देहि
जयं
देहि
द्विषो
जहि
महेश्वरि
॥
8
॥
धर्मं
देहि
यशो
देहि
षष्ठीदेवी
नमो
नमः
।
देहि
भूमिं
प्रजां
देहि
विद्यां
देहि
सुपूजिते
।
कल्याणं
च
जयं
देहि
षष्ठीदेव्यै
नमो
नमः
॥
9
॥
फलशृति
इति
देवीं
च
संस्तुत्य
लभेत्पुत्रं
प्रियव्रतम्
।
यशश्विनं
च
राजेन्द्रं
षष्ठीदेवि
प्रसादतः
॥
10
॥
षष्ठीस्तोत्रमिदं
ब्रह्मान्
यः
शृणोति
तु
वत्सरम्
।
अपुत्रो
लभते
पुत्रं
वरं
सुचिर
जीवनम्
॥
11
॥
वर्षमेकं
च
या
भक्त्या
संस्तुत्येदं
शृणोति
च
।
सर्वपापाद्विनिर्मुक्ता
महावन्ध्या
प्रसूयते
॥
12
॥
वीरं
पुत्रं
च
गुणिनं
विद्यावन्तं
यशस्विनम्
।
सुचिरायुष्यवन्तं
च
सूते
देवि
प्रसादतः
॥
13
॥
काकवन्ध्या
च
या
नारी
मृतवत्सा
च
या
भवेत्
।
वर्षं
शृत्वा
लभेत्पुत्रं
षष्ठीदेवि
प्रसादतः
॥
14
॥
रोगयुक्ते
च
बाले
च
पितामाता
शृणोति
चेत्
।
मासेन
मुच्यते
रोगान्
षष्ठीदेवि
प्रसादतः
॥
15
॥
जय
देवि
जगन्मातः
जगदानन्दकारिणि
।
प्रसीद
मम
कल्याणि
नमस्ते
षष्ठीदेवते
॥
16
॥
इति
श्री
षष्ठी
देवि
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits