हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
सकल जननी स्तवः
अजानन्तो
यान्ति
क्षयमवशमन्योन्यकलहैरमी
मायाग्रन्थौ
तव
परिलुठन्तः
समयिनः
।
जगन्मातर्जन्मज्वरभयतमः
कौमुदि
वयं
नमस्ते
कुर्वाणाः
शरणमुपयामो
भगवतीम्
॥
1
॥
वचस्तर्कागम्यस्वरसपरमानन्दविभव-
-प्रबोधाकाराय
द्युतितुलितनीलोत्पलरुचे
।
शिवाद्याराध्याय
स्तनभरविनम्राय
सततं
नमस्तस्मै
कस्मैचन
भवतु
मुग्धाय
महसे
॥
2
॥
अनाद्यन्ताभेदप्रणयरसिकापि
प्रणयिनी
शिवस्यासीर्यत्त्वं
परिणयविधौ
देवि
गृहिणी
।
सवित्री
भूतानामपि
यदुदभूः
शैलतनया
तदेतत्संसारप्रणयनमहानाटकमुखम्
॥
3
॥
ब्रुवन्त्येके
तत्त्वं
भगवति
सदन्ये
विदुरस-
-त्परे
मातः
प्राहुस्तव
सदसदन्ये
सुकवयः
।
परे
नैतत्सर्वं
समभिदधते
देवि
सुधिय-
-स्तदेतत्त्वन्मायाविलसितमशेषं
ननु
शिवे
॥
4
॥
लुठद्गुञ्जाहारस्तनभरनमन्मध्यलतिका-
-मुदञ्चद्धर्माम्भः
कणगुणितवक्त्राम्बुजरुचम्
।
शिवं
पार्थत्राणप्रवणमृगयाकारगुणितं
शिवामन्वग्यान्तीं
शरणमहमन्वेमि
शबरीम्
॥
5
॥
मिथः
केशाकेशिप्रथननिधनास्तर्कघटनाः
बहुश्रद्धाभक्तिप्रणतिविषयाः
शास्त्रविधयः
।
प्रसीद
प्रत्यक्षीभव
गिरिसुते
देहि
शरणं
निरालम्बं
चेतः
परिलुठति
पारिप्लवमिदम्
॥
6
॥
शुनां
वा
वह्नेर्वा
खगपरिषदो
वा
यदशनं
कदा
केन
क्वेति
क्वचिदपि
न
कश्चित्कलयति
।
अमुष्मिन्विश्वासं
विजहिहि
ममाह्नाय
वपुषि
प्रपद्येथाश्चेतः
सकलजननीमेव
शरणम्
॥
7
॥
तटित्कोटिज्योतिर्द्युतिदलितषड्ग्रन्थिगहनं
प्रविष्टं
स्वाधारं
पुनरपि
सुधावृष्टिवपुषा
।
किमप्यष्टाविंशत्किरणसकलीभूतमनिशं
भजे
धाम
श्यामं
कुचभरनतं
बर्बरकचम्
॥
8
॥
चतुष्पत्रान्तः
षड्दलपुटभगान्तस्त्रिवलय-
-स्फुरद्विद्युद्वह्निद्युमणिनियुताभद्युतिलते
।
षडश्रं
भित्त्वादौ
दशदलमथ
द्वादशदलं
कलाश्रं
च
द्व्यश्रं
गतवति
नमस्ते
गिरिसुते
॥
9
॥
कुलं
केचित्प्राहुर्वपुरकुलमन्ये
तव
बुधाः
परे
तत्सम्भेदं
समभिदधते
कौलमपरे
।
चतुर्णामप्येषामुपरि
किमपि
प्राहुरपरे
महामाये
तत्त्वं
तव
कथममी
निश्चिनुमहे
॥
10
॥
षडध्वारण्यानीं
प्रलयरविकोटिप्रतिरुचा
रुचा
भस्मीकृत्य
स्वपदकमलप्रह्वशिरसाम्
।
वितन्वानः
शैवं
किमपि
वपुरिन्दीवररुचिः
कुचाभ्यामानम्रस्तव
पुरुषकारो
विजयते
॥
11
॥
प्रकाशानन्दाभ्यामविदितचरीं
मध्यपदवीं
प्रविश्यैतद्द्वन्द्वं
रविशशिसमाख्यं
कबलयन्
।
प्रपद्योर्ध्वं
नादं
लयदहनभस्मीकृतकुलः
प्रसादात्ते
जन्तुः
शिवमकुलमम्ब
प्रविशति
॥
12
॥
मनुष्यास्तिर्यञ्चो
मरुत
इति
लोकत्रयमिदं
भवाम्भोधौ
मग्नं
त्रिगुणलहरीकोटिलुठितम्
।
कटाक्षश्चेद्यत्र
क्वचन
तव
मातः
करुणया
शरीरी
सद्योऽयं
व्रजति
परमानन्दतनुताम्
॥
13
॥
प्रियङ्गुश्यामाङ्गीमरुणतरवासं
किसलयां
समुन्मीलन्मुक्ताफलवहलनेपथ्यसुभगाम्
।
स्तनद्वन्द्वस्फारस्तबकनमितां
कल्पलतिकां
सकृद्ध्यायन्तस्त्वां
दधति
शिवचिन्तामणिपदम्
॥
14
॥
षडाधारावर्तैरपरिमितमन्त्रोर्मिपटलैः
लसन्मुद्राफेनैर्बहुविधलसद्दैवतझषैः
।
क्रमस्रोतोभिस्त्वं
वहसि
परनादामृतनदी
भवानि
प्रत्यग्रा
शिवचिदमृताब्धिप्रणयिनी
॥
15
॥
महीपाथोवह्निश्वसनवियदात्मेन्दुरविभि-
-र्वपुर्भिग्रस्ताशैरपि
तव
कियानम्ब
महिमा
।
अमून्यालोक्यन्ते
भगवति
न
कुत्राप्यणुतमा-
-मवस्थां
प्राप्तानि
त्वयि
तु
परमव्योमवपुषि
॥
16
॥
कलामाज्ञां
प्रज्ञां
समयमनुभूतिं
समरसं
गुरुं
पारम्पर्यं
विनयमुपदेशं
शिवपदम्
।
प्रमाणं
निर्वाणं
प्रकृतिमभिभूतिं
परगुहां
विधिं
विद्यामाहुः
सकलजननीमेव
मुनयः
॥
17
॥
प्रलीने
शब्दौघे
तदनु
विरते
बिन्दुविभवे
ततस्तत्त्वे
चाष्टध्वनिभिरनपायिन्यधिगते
।
श्रिते
शाक्ते
पर्वण्यनुकलितचिन्मात्र
गहनां
स्वसंवित्तिं
योगी
रसयति
शिवाख्यां
भगवतीम्
॥
18
॥
परानन्दाकारां
निरवधिशिवैश्वर्यवपुषं
निराकारां
ज्ञानप्रकृतिमपरिच्छिन्नकरुणाम्
।
सवित्रीं
लोकानां
निरतिशयधामास्पदपदां
भवो
वा
मोक्षो
वा
भवतु
भवतीमेव
भजताम्
॥
19
॥
जगत्काये
कृत्वा
तदपि
हृदये
तच्च
पुरुषे
पुमांसं
बिन्दुस्थं
तदपि
वियदाख्ये
च
गहने
।
तदेतद्ज्ञानाख्ये
तदपि
परमानन्दगहने
महाव्योमाकारे
त्वदनुभवशीलो
विजयते
॥
20
॥
विधे
वेद्ये
विद्ये
विविधसमये
वेदगुलिके
विचित्रे
विश्वाद्ये
विनयसुलभे
वेदजननि
।
शिवज्ञे
शूलस्थे
शिवपदवदान्ये
शिवनिधे
शिवे
मातर्मह्यं
त्वयि
वितर
भक्तिं
निरुपमाम्
॥
21
॥
विधेर्मुण्डं
हृत्वा
यदकुरुत
पात्रं
करतले
हरिं
शूलप्रोतं
यदगमयदंसाभरणताम्
।
अलञ्चक्रे
कण्ठं
यदपि
गरलेनाम्ब
गिरिशः
शिवस्थायाः
शक्तेस्तदिदमखिलं
ते
विलसितम्
॥
22
॥
विरिञ्च्याख्या
मातः
सृजसि
हरिसञ्ज्ञा
त्वमवसि
त्रिलोकीं
रुद्राख्या
हरसि
विदधासीश्वरदशाम्
।
भवन्ती
नादाख्या
विहरसि
च
पाशौघदलनी
त्वमेवैकाऽनेका
भवसि
कृतिभेदैर्गिरिसुते
॥
23
॥
मुनीनां
चेतोभिः
प्रमृदितकषायैरपि
मना-
-गशक्यं
संस्प्रष्टुं
चकितचकितैरम्ब
सततम्
।
श्रुतीनां
मूर्धानः
प्रकृतिकठिनाः
कोमलतरे
कथं
ते
विन्दन्ते
पदकिसलये
पार्वति
पदम्
॥
24
॥
तटिद्वल्लीं
नित्याममृतसरितं
पाररहितां
मलोत्तीर्णां
ज्योत्स्नां
प्रकृतिमगुणग्रन्थिगहनाम्
।
गिरां
दूरां
विद्यामविनतकुचां
विश्वजननी-
-मपर्यन्तां
लक्ष्मीमभिदधति
सन्तो
भगवतीम्
॥
25
॥
शरीरं
क्षित्यम्भः
प्रभृतिरचितं
केवलमचित्
सुखं
दुःखं
चायं
कलयति
पुमांश्चेतन
इति
।
स्फुटं
जानानोऽपि
प्रभवति
न
देही
रहयितुं
शरीराहङ्कारं
तव
समयबाह्यो
गिरिसुते
॥
26
॥
पिता
माता
भ्राता
सुहृदनुचरः
सद्म
गृहिणी
वपुः
क्षेत्रं
मित्रं
धनमपि
यदा
मां
विजहति
।
तदा
मे
भिन्दाना
सपदि
भयमोहान्धतमसं
महाज्योत्स्ने
मातर्भव
करुणया
सन्निधिकरी
॥
27
॥
सुता
दक्षस्यादौ
किल
सकलमातस्त्वमुदभूः
सदोषं
तं
हित्वा
तदनु
गिरिराजस्य
दुहिता
।
अनाद्यन्ता
शम्भोरपृथगपि
शक्तिर्भगवती
विवाहाज्जायासीत्यहह
चरितं
वेत्ति
तव
कः
॥
28
॥
कणास्त्वद्दीप्तीनां
रविशशिकृशानुप्रभृतयः
परं
ब्रह्म
क्षुद्रं
तव
नियतमानन्दकणिका
।
शिवादि
क्षित्यन्तं
त्रिवलयतनोः
सर्वमुदरे
तवास्ते
भक्तस्य
स्फुरसि
हृदि
चित्रं
भगवति
॥
29
॥
पुरः
पश्चादन्तर्बहिरपरिमेयं
परिमितं
परं
स्थूलं
सूक्ष्मं
सकलमकुलं
गुह्यमगुहम्
।
दवीयो
नेदीयः
सदसदिति
विश्वं
भगवती
सदा
पश्यन्त्याख्यां
वहसि
भुवनक्षोभजननीम्
॥
30
॥
प्रविश्य
त्वन्मार्गं
सहजदयया
देशिकदृशा
षडध्वध्वान्तौघच्छिदुरगणनातीतकरुणाम्
।
परामाज्ञाकारां
सपदि
शिवयन्तीं
शिवतनुं
स्वमात्मानं
धन्याश्चिरमुपलभन्ते
भगवतीम्
॥
31
॥
मयूखाः
पूष्णीव
ज्वलन
इव
तद्दीप्तिकणिकाः
पयोधौ
कल्लोलाः
प्रतिहतमहिम्नीव
पृषतः
।
उदेत्योदेत्याम्ब
त्वयि
सह
निजैः
सात्त्विकगुणै-
-र्भजन्ते
तत्त्वौघाः
प्रशममनुकल्पं
परवशाः
॥
32
॥
विधुर्विष्णुर्ब्रह्मा
प्रकृतिरणुरात्मा
दिनकरः
स्वभावो
जैनेन्द्रः
सुगतमुनिराकाशमलिनः
।
शिवः
शक्तिश्चेति
श्रुतिविषयतां
तामुपगतां
विकल्पैरेभिस्त्वामभिदधति
सन्तो
भगवतीम्
॥
33
॥
शिवस्त्वं
शक्तिस्त्वं
त्वमसि
समया
त्वं
समयिनी
त्वमात्मा
त्वं
दीक्षा
त्वमयमणिमादिर्गुणगणः
।
अविद्या
त्वं
विद्या
त्वमसि
निखिलं
त्वं
किमपरं
पृथक्तत्त्वं
त्वत्तो
भगवति
न
वीक्षामह
इमे
॥
34
॥
त्वयासौ
जानीते
रचयति
भवत्यैव
सततं
त्वयैवेच्छत्यम्ब
त्वमसि
निखिला
यस्य
तनवः
।
जगत्साम्यं
शम्भोर्वहसि
परमव्योमवपुषः
तथाप्यर्धं
भूत्वा
विहरसि
शिवस्येति
किमिदम्
॥
35
॥
असङ्ख्यैः
प्राचीनैर्जननि
जननैः
कर्मविलया-
-त्सकृज्जन्मन्यन्ते
गुरुवपुषमासाद्य
गिरिशम्
।
अवाप्याज्ञां
शैवीं
शिवतनुमपि
त्वां
विदितवा-
-न्नयेयं
त्वत्पूजास्तुतिविरचनेनैव
दिवसान्
॥
36
॥
यत्षट्पत्रं
कमलमुदितं
तस्य
या
कर्णिकाख्या
योनिस्तस्याः
प्रथितमुदरे
यत्तदोङ्कारपीठम्
।
तस्याप्यन्तः
कुचभरनतां
कुण्डलीति
प्रसिद्धां
श्यामाकारां
सकलजननीं
सन्ततं
भावयामि
॥
37
॥
भुवि
पयसि
कृशानौ
मारुते
खे
शशाङ्के
सवितरि
यजमानेऽप्यष्टधा
शक्तिरेका
।
वहसि
कुचभराभ्यां
यावनम्रापि
विश्वं
सकलजननि
सा
त्वं
पाहि
मामित्यवाच्यम्
॥
38
॥
इति
श्रीकालिदास
विरचित
पञ्चस्तव्यां
पञ्चमः
सकलजननीस्तवः
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits