Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

मङ्गलगौरी अष्टोत्तर शत नामावलिः

ओं गौर्यै नमः । ओं गणेशजनन्यै नमः । ओं गिरिराजतनूद्भवायै नमः । ओं गुहाम्बिकायै नमः । ओं जगन्मात्रे नमः । ओं गङ्गाधरकुटुम्बिन्यै नमः । ओं वीरभद्रप्रसुवे नमः । ओं विश्वव्यापिन्यै नमः । ओं विश्वरूपिण्यै नमः । ओं अष्टमूर्त्यात्मिकायै नमः । 10 ओं कष्टदारिद्य्रशमन्यै नमः । ओं शिवायै नमः । ओं शाम्भव्यै नमः । ओं शाङ्कर्यै नमः । ओं बालायै नमः । ओं भवान्यै नमः । ओं भद्रदायिन्यै नमः । ओं माङ्गल्यदायिन्यै नमः । ओं सर्वमङ्गलायै नमः । ओं मञ्जुभाषिण्यै नमः । 20 ओं महेश्वर्यै नमः । ओं महामायायै नमः । ओं मन्त्राराध्यायै नमः । ओं महाबलायै नमः । ओं हेमाद्रिजायै नमः । ओं हेमवत्यै नमः । ओं पार्वत्यै नमः । ओं पापनाशिन्यै नमः । ओं नारायणांशजायै नमः । ओं नित्यायै नमः । 30 ओं निरीशायै नमः । ओं निर्मलायै नमः । ओं अम्बिकायै नमः । ओं मृडान्यै नमः । ओं मुनिसंसेव्यायै नमः । ओं मानिन्यै नमः । ओं मेनकात्मजायै नमः । ओं कुमार्यै नमः । ओं कन्यकायै नमः । ओं दुर्गायै नमः । 40 ओं कलिदोषनिषूदिन्यै नमः । ओं कात्यायिन्यै नमः । ओं कृपापूर्णायै नमः । ओं कल्याण्यै नमः । ओं कमलार्चितायै नमः । ओं सत्यै नमः । ओं सर्वमय्यै नमः । ओं सौभाग्यदायै नमः । ओं सरस्वत्यै नमः । ओं अमलायै नमः । 50 ओं अमरसंसेव्यायै नमः । ओं अन्नपूर्णायै नमः । ओं अमृतेश्वर्यै नमः । ओं अखिलागमसंस्तुत्यायै नमः । ओं सुखसच्चित्सुधारसायै नमः । ओं बाल्याराधितभूतेशायै नमः । ओं भानुकोटिसमद्युतये नमः । ओं हिरण्मय्यै नमः । ओं परायै नमः । ओं सूक्ष्मायै नमः । 60 ओं शीतांशुकृतशेखरायै नमः । ओं हरिद्राकुङ्कुमाराध्यायै नमः । ओं सर्वकालसुमङ्गल्यै नमः । ओं सर्वभोगप्रदायै नमः । ओं सामशिखायै नमः । ओं वेदान्तलक्षणायै नमः । ओं कर्मब्रह्ममय्यै नमः । ओं कामकलनायै नमः । ओं काङ्क्षितार्थदायै नमः । ओं चन्द्रार्कायितताटङ्कायै नमः । 70 ओं चिदम्बरशरीरिण्यै नमः । ओं श्रीचक्रवासिन्यै नमः । ओं देव्यै नमः । ओं कामेश्वरपत्न्यै नमः । ओं कमलायै नमः । ओं मारारातिप्रियार्धाङ्ग्यै नमः । ओं मार्कण्डेयवरप्रदायै नमः । ओं पुत्रपौत्रवरप्रदायै नमः । ओं पुण्यायै नमः । ओं पुरुषार्थप्रदायिन्यै नमः । 80 ओं सत्यधर्मरतायै नमः । ओं सर्वसाक्षिण्यै नमः । ओं शशाङ्करूपिण्यै नमः । ओं श्यामलायै नमः । ओं बगलायै नमः । ओं चण्डायै नमः । ओं मातृकायै नमः । ओं भगमालिन्यै नमः । ओं शूलिन्यै नमः । ओं विरजायै नमः । 90 ओं स्वाहायै नमः । ओं स्वधायै नमः । ओं प्रत्यङ्गिराम्बिकायै नमः । ओं आर्यायै नमः । ओं दाक्षायिण्यै नमः । ओं दीक्षायै नमः । ओं सर्ववस्तूत्तमोत्तमायै नमः । ओं शिवाभिधानायै नमः । ओं श्रीविद्यायै नमः । ओं प्रणवार्थस्वरूपिण्यै नमः । 100 ओं ह्रीङ्कार्यै नमः । ओं नादरूपिण्यै नमः । ओं त्रिपुरायै नमः । ओं त्रिगुणायै नमः । ओं ईश्वर्यै नमः । ओं सुन्दर्यै नमः । ओं स्वर्णगौर्यै नमः । ओं षोडशाक्षरदेवतायै नमः । 108

Recite with devotion and pure heart

Regular practice brings spiritual benefits