Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

कमलाम्बिका स्तोत्रम्

बन्धूकद्युतिमिन्दुबिम्बवदनां बृन्दारकैर्वन्दितां मन्दारादि समर्चितां मधुमतीं मन्दस्मितां सुन्दरीम् । बन्धच्छेदनकारिणीं त्रिनयनां भोगापवर्गप्रदां वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ 1 ॥ श्रीकामेश्वरपीठमध्यनिलयां श्रीराजराजेश्वरीं श्रीवाणीपरिसेविताङ्घ्रियुगलां श्रीमत्कृपासागराम् । शोकापद्भयमोचिनीं सुकवितानन्दैकसन्दायिनीं वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ 2 ॥ माया मोहविनाशिनीं मुनिगणैराराधितां तन्मयीं श्रेयःसञ्चयदायिनीं गुणमयीं वाय्वादि भूतां सताम् । प्रातःकालसमानशोभमकुटां सामादि वेदैस्तुतां वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ 3 ॥ बालां भक्तजनौघचित्तनिलयां बालेन्दुचूडाम्बरां सालोक्यादि चतुर्विधार्थफलदां नीलोत्पलाक्षीमजाम् । कालारिप्रियनायिकां कलिमलप्रध्वंसिनीं कौलिनीं वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ 4 ॥ आनन्दामृतसिन्धुमध्यनिलयामज्ञानमूलापहां ज्ञानानन्दविवर्धिनीं विजयदां मीनेक्षणां मोहिनीम् । ज्ञानानन्दपरां गणेशजननीं गन्धर्वसम्पूजितां वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ 5 ॥ षट्चक्रोपरि नादबिन्दुनिलयां सर्वेश्वरीं सर्वगां षट्शास्त्रागमवेदवेदितगुणां षट्कोणसंवासिनीम् । षट्कालेन समर्चितात्मविभवां षड्वर्गसञ्छेदिनीं वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ 6 ॥ योगानन्दकरीं जगत्सुखकरीं योगीन्द्रचित्तालयां एकामीशसुखप्रदां द्विजनुतामेकान्तसञ्चारिणीम् । वागीशां विधिविष्णुशम्भुवरदां विश्वेश्वरीं वैणिकीं वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ 7 ॥ बोधानन्दमयीं बुधैरभिनुतां मोदप्रदामम्बिकां श्रीमद्वेदपुरीशदासविनुतां ह्रीङ्कारसन्धालयाम् । भेदाभेदविवर्जितां बहुविधां वेदान्तचूडामणिं वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ 8 ॥ इत्थं श्रीकमलाम्बिकाप्रियकरं स्तोत्रं पठेद्यः सदा पुत्रश्रीप्रदमष्टसिद्धिफलदं चिन्ताविनाशास्पदम् । एति ब्रह्मपदं निजं निरुपमं निष्कल्मषं निष्कलं योगीन्द्रैरपि दुर्लभं पुनरयं चिन्ताविनाशं परम् ॥ 9 ॥ इति श्री कमलाम्बिका स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits