Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

दशविद्यामयी श्री बाला स्तोत्रम्

श्रीकाली बगलामुखी च ललिता धूमावती भैरवी
मातङ्गी भुवनेश्वरी च कमला श्रीर्वज्रवैरोचनी ।
तारा पूर्वमहापदेन कथिता विद्या स्वयं शम्भुना
लीलारूपमयी च देशदशधा बाला तु मां पातु सा ॥ 1 ॥
श्यामां श्यामघनावभासरुचिरां नीलालकालङ्कृतां
बिम्बोष्ठीं बलिशत्रुवन्दितपदां बालार्ककोटिप्रभाम् ।
त्रासत्रासकृपाणमुण्डदधतीं भक्ताय दानोद्यतां
वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं कालिकाम् ॥ 2 ॥
ब्रह्मास्त्रां सुमुखीं बकारविभवां बालां बलाकीनिभां
हस्तन्यस्तसमस्तवैरिरसनामन्ये दधानां गदाम् ।
पीतां भूषणगन्धमाल्यरुचिरां पीताम्बराङ्गां वरां
वन्दे सङ्कटनाशिनीं भगवतीं बालां बगलामुखीम् ॥ 3 ॥
बालार्कद्युतिभस्करां त्रिनयनां मन्दस्मितां सन्मुखीं
वामे पाशधनुर्धरां सुविभवां बाणं तथा दक्षिणे ।
पारावारविहारिणीं परमयीं पद्मासने संस्थितां
वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं षोडशीम् ॥ 4 ॥
दीर्घां दीर्घकुचामुदग्रदशनां दुष्टच्छिदां देवतां
क्रव्यादां कुटिलेक्षणां च कुटिलां काकध्वजां क्षुत्कृशाम् ।
देवीं शूर्पकरां मलीनवसनां तां पिप्पलादार्चिताम् ।
बालां सङ्कटनाशिनीं भगवतीं ध्यायामि धूमावतीम् ॥ 5 ॥
उद्यत्कोटिदिवाकरप्रतिभटां बालार्कभाकर्पटां
मालापुस्तकपाशमङ्कुशवरान् दैत्येन्द्रमुण्डस्रजाम् ।
पीनोत्तुङ्गपयोधरां त्रिनयनां ब्रह्मादिभिः संस्तुतां
बालां सङ्कटनाशिनीं भगवतीं श्रीभैरवीं धीमहि ॥ 6 ॥
वीणावादनतत्परां त्रिनयनां मन्दस्मितां सन्मुखीं
वामे पाशधनुर्धरां तु निकरे बाणं तथा दक्षिणे ।
पारावारविहारिणीं परमयीं ब्रह्मासने संस्थितां
वन्दे सङ्कटनाशिनीं भगवतीं मातङ्गिनीं बालिकाम् ॥ 7 ॥
उद्यत्सूर्यनिभां च इन्दुमुकुटामिन्दीवरे संस्थितां
हस्ते चारुवराभयं च दधतीं पाशं तथा चाङ्कुशम् ।
चित्रालङ्कृतमस्तकां त्रिनयनां ब्रह्मादिभिः सेवितां
वन्दे सङ्कटनाशिनीं च भुवनेशीमादिबालां भजे ॥ 8 ॥
देवीं काञ्चनसन्निभां त्रिनयनां फुल्लारविन्दस्थितां
बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलाम् ।
प्रालेयाचलसन्निभैश्च करिभिरासिञ्च्यमानां सदा
बालां सङ्कटनाशिनीं भगवतीं लक्ष्मीं भजे चेन्दिराम् ॥ 9 ॥
सञ्छिन्नं स्वशिरो विकीर्णकुटिलं वामे करे बिभ्रतीं
तृप्तास्यां स्वशरीरजैश्च रुधिरैः सन्तर्पयन्तीं सखीम् ।
सद्भक्ताय वरप्रदाननिरतां प्रेतासनाध्यासिनीं
बालां सङ्कटनाशिनीं भगवतीं श्रीछिन्नमस्तां भजे ॥ 10 ॥
उग्रामेकजटामनन्तसुखदां दूर्वादलाभामजां
कर्त्रीखड्गकपालनीलकमलान् हस्तैर्वहन्तीं शिवाम् ।
कण्ठे मुण्डस्रजां करालवदनां कञ्जासने संस्थितां
वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं तारिणीम् ॥ 11 ॥
मुखे श्री मातङ्गी तदनु किल तारा च नयने
तदन्तङ्गा काली भृकुटिसदने भैरवि परा ।
कटौ छिन्ना धूमावती जय कुचे श्रीकमलजा
पदांशे ब्रह्मास्त्रा जयति किल बाला दशमयी ॥ 12 ॥
विराजन्मन्दारद्रुमकुसुमहारस्तनतटी
परित्रासत्राण स्फटिकगुटिका पुस्तकवरा ।
गले रेखास्तिस्रो गमकगतिगीतैकनिपुणा
सदा पीता हाला जयति किल बाला दशमयी ॥ 13 ॥
इति श्रीमेरुतन्त्रे श्री दशविद्यामयी बाला स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits